Click on words to see what they mean.

भीष्म उवाच ।तस्यां निशायां व्युष्टायां गते तस्मिन्द्विजोत्तमे ।निष्क्रम्य गौतमोऽगच्छत्समुद्रं प्रति भारत ॥ १ ॥
सामुद्रकान्स वणिजस्ततोऽपश्यत्स्थितान्पथि ।स तेन सार्थेन सह प्रययौ सागरं प्रति ॥ २ ॥
स तु सार्थो महाराज कस्मिंश्चिद्गिरिगह्वरे ।मत्तेन द्विरदेनाथ निहतः प्रायशोऽभवत् ॥ ३ ॥
स कथंचित्ततस्तस्मात्सार्थान्मुक्तो द्विजस्तदा ।कांदिग्भूतो जीवितार्थी प्रदुद्रावोत्तरां दिशम् ॥ ४ ॥
स सर्वतः परिभ्रष्टः सार्थाद्देशात्तथार्थतः ।एकाकी व्यद्रवत्तत्र वने किंपुरुषो यथा ॥ ५ ॥
स पन्थानमथासाद्य समुद्राभिसरं तदा ।आससाद वनं रम्यं महत्पुष्पितपादपम् ॥ ६ ॥
सर्वर्तुकैराम्रवनैः पुष्पितैरुपशोभितम् ।नन्दनोद्देशसदृशं यक्षकिंनरसेवितम् ॥ ७ ॥
शालतालधवाश्वत्थत्वचागुरुवनैस्तथा ।चन्दनस्य च मुख्यस्य पादपैरुपशोभितम् ।गिरिप्रस्थेषु रम्येषु शुभेषु सुसुगन्धिषु ॥ ८ ॥
समन्ततो द्विजश्रेष्ठा वल्गु कूजन्ति तत्र वै ।मनुष्यवदनास्त्वन्ये भारुण्डा इति विश्रुताः ।भूलिङ्गशकुनाश्चान्ये समुद्रं सर्वतोऽभवन् ॥ ९ ॥
स तान्यतिमनोज्ञानि विहंगाभिरुतानि वै ।शृण्वन्सुरमणीयानि विप्रोऽगच्छत गौतमः ॥ १० ॥
ततोऽपश्यत्सुरम्ये स सुवर्णसिकताचिते ।देशभागे समे चित्रे स्वर्गोद्देशसमप्रभे ॥ ११ ॥
श्रिया जुष्टं महावृक्षं न्यग्रोधं परिमण्डलम् ।शाखाभिरनुरूपाभिर्भूषितं छत्रसंनिभम् ॥ १२ ॥
तस्य मूलं सुसंसिक्तं वरचन्दनवारिणा ।दिव्यपुष्पान्वितं श्रीमत्पितामहसदोपमम् ॥ १३ ॥
तं दृष्ट्वा गौतमः प्रीतो मुनिकान्तमनुत्तमम् ।मेध्यं सुरगृहप्रख्यं पुष्पितैः पादपैर्वृतम् ।तमागम्य मुदा युक्तस्तस्याधस्तादुपाविशत् ॥ १४ ॥
तत्रासीनस्य कौरव्य गौतमस्य सुखः शिवः ।पुष्पाणि समुपस्पृश्य प्रववावनिलः शुचिः ।ह्लादयन्सर्वगात्राणि गौतमस्य तदा नृप ॥ १५ ॥
स तु विप्रः परिश्रान्तः स्पृष्टः पुण्येन वायुना ।सुखमासाद्य सुष्वाप भास्करश्चास्तमभ्यगात् ॥ १६ ॥
ततोऽस्तं भास्करे याते संध्याकाल उपस्थिते ।आजगाम स्वभवनं ब्रह्मलोकात्खगोत्तमः ॥ १७ ॥
नाडीजङ्घ इति ख्यातो दयितो ब्रह्मणः सखा ।बकराजो महाप्राज्ञः कश्यपस्यात्मसंभवः ॥ १८ ॥
राजधर्मेति विख्यातो बभूवाप्रतिमो भुवि ।देवकन्यासुतः श्रीमान्विद्वान्देवपतिप्रभः ॥ १९ ॥
मृष्टहाटकसंछन्नो भूषणैरर्कसंनिभैः ।भूषितः सर्वगात्रेषु देवगर्भः श्रिया ज्वलन् ॥ २० ॥
तमागतं द्विजं दृष्ट्वा विस्मितो गौतमोऽभवत् ।क्षुत्पिपासापरीतात्मा हिंसार्थी चाप्यवैक्षत ॥ २१ ॥
राजधर्मोवाच ।स्वागतं भवते विप्र दिष्ट्या प्राप्तोऽसि मे गृहम् ।अस्तं च सविता यातः संध्येयं समुपस्थिता ॥ २२ ॥
मम त्वं निलयं प्राप्तः प्रियातिथिरनिन्दितः ।पूजितो यास्यसि प्रातर्विधिदृष्टेन कर्मणा ॥ २३ ॥
« »