Click on words to see what they mean.

भीष्म उवाच ।ततः स विदितो राज्ञः प्रविश्य गृहमुत्तमम् ।पूजितो राक्षसेन्द्रेण निषसादासनोत्तमे ॥ १ ॥
पृष्टश्च गोत्रचरणं स्वाध्यायं ब्रह्मचारिकम् ।न तत्र व्याजहारान्यद्गोत्रमात्रादृते द्विजः ॥ २ ॥
ब्रह्मवर्चसहीनस्य स्वाध्यायविरतस्य च ।गोत्रमात्रविदो राजा निवासं समपृच्छत ॥ ३ ॥
क्व ते निवासः कल्याण किंगोत्रा ब्राह्मणी च ते ।तत्त्वं ब्रूहि न भीः कार्या विश्रमस्व यथासुखम् ॥ ४ ॥
गौतम उवाच ।मध्यदेशप्रसूतोऽहं वासो मे शबरालये ।शूद्रा पुनर्भूर्भार्या मे सत्यमेतद्ब्रवीमि ते ॥ ५ ॥
भीष्म उवाच ।ततो राजा विममृशे कथं कार्यमिदं भवेत् ।कथं वा सुकृतं मे स्यादिति बुद्ध्यान्वचिन्तयत् ॥ ६ ॥
अयं वै जननाद्विप्रः सुहृत्तस्य महात्मनः ।संप्रेषितश्च तेनायं काश्यपेन ममान्तिकम् ॥ ७ ॥
तस्य प्रियं करिष्यामि स हि मामाश्रितः सदा ।भ्राता मे बान्धवश्चासौ सखा च हृदयंगमः ॥ ८ ॥
कार्त्तिक्यामद्य भोक्तारः सहस्रं मे द्विजोत्तमाः ।तत्रायमपि भोक्ता वै देयमस्मै च मे धनम् ॥ ९ ॥
ततः सहस्रं विप्राणां विदुषां समलंकृतम् ।स्नातानामनुसंप्राप्तमहतक्षौमवाससाम् ॥ १० ॥
तानागतान्द्विजश्रेष्ठान्विरूपाक्षो विशां पते ।यथार्हं प्रतिजग्राह विधिदृष्टेन कर्मणा ॥ ११ ॥
बृस्यस्तेषां तु संन्यस्ता राक्षसेन्द्रस्य शासनात् ।भूमौ वरकुथास्तीर्णाः प्रेष्यैर्भरतसत्तम ॥ १२ ॥
तासु ते पूजिता राज्ञा निषण्णा द्विजसत्तमाः ।व्यराजन्त महाराज नक्षत्रपतयो यथा ॥ १३ ॥
ततो जाम्बूनदाः पात्रीर्वज्राङ्का विमलाः शुभाः ।वरान्नपूर्णा विप्रेभ्यः प्रादान्मधुघृताप्लुताः ॥ १४ ॥
तस्य नित्यं तथाषाढ्यां माघ्यां च बहवो द्विजाः ।ईप्सितं भोजनवरं लभन्ते सत्कृतं सदा ॥ १५ ॥
विशेषतस्तु कार्त्तिक्यां द्विजेभ्यः संप्रयच्छति ।शरद्व्यपाये रत्नानि पौर्णमास्यामिति श्रुतिः ॥ १६ ॥
सुवर्णं रजतं चैव मणीनथ च मौक्तिकम् ।वज्रान्महाधनांश्चैव वैडूर्याजिनराङ्कवान् ॥ १७ ॥
रत्नराशीन्विनिक्षिप्य दक्षिणार्थे स भारत ।ततः प्राह द्विजश्रेष्ठान्विरूपाक्षो महायशाः ॥ १८ ॥
गृह्णीत रत्नान्येतानि यथोत्साहं यथेष्टतः ।येषु येषु च भाण्डेषु भुक्तं वो द्विजसत्तमाः ।तान्येवादाय गच्छध्वं स्ववेश्मानीति भारत ॥ १९ ॥
इत्युक्तवचने तस्मिन्राक्षसेन्द्रे महात्मनि ।यथेष्टं तानि रत्नानि जगृहुर्ब्राह्मणर्षभाः ॥ २० ॥
ततो महार्हैस्ते सर्वे रत्नैरभ्यर्चिताः शुभैः ।ब्राह्मणा मृष्टवसनाः सुप्रीताः स्म तदाभवन् ॥ २१ ॥
ततस्तान्राक्षसेन्द्रश्च द्विजानाह पुनर्वचः ।नानादिगागतान्राजन्राक्षसान्प्रतिषिध्य वै ॥ २२ ॥
अध्यैकदिवसं विप्रा न वोऽस्तीह भयं क्वचित् ।राक्षसेभ्यः प्रमोदध्वमिष्टतो यात माचिरम् ॥ २३ ॥
ततः प्रदुद्रुवुः सर्वे विप्रसंघाः समन्ततः ।गौतमोऽपि सुवर्णस्य भारमादाय सत्वरः ॥ २४ ॥
कृच्छ्रात्समुद्वहन्वीर न्यग्रोधं समुपागमत् ।न्यषीदच्च परिश्रान्तः क्लान्तश्च क्षुधितश्च ह ॥ २५ ॥
ततस्तमभ्यगाद्राजन्राजधर्मा खगोत्तमः ।स्वागतेनाभ्यनन्दच्च गौतमं मित्रवत्सलः ॥ २६ ॥
तस्य पक्षाग्रविक्षेपैः क्लमं व्यपनयत्खगः ।पूजां चाप्यकरोद्धीमान्भोजनं चाप्यकल्पयत् ॥ २७ ॥
स भुक्तवान्सुविश्रान्तो गौतमोऽचिन्तयत्तदा ।हाटकस्याभिरूपस्य भारोऽयं सुमहान्मया ।गृहीतो लोभमोहाद्वै दूरं च गमनं मम ॥ २८ ॥
न चास्ति पथि भोक्तव्यं प्राणसंधारणं मम ।किं कृत्वा धारयेयं वै प्राणानित्यभ्यचिन्तयत् ॥ २९ ॥
ततः स पथि भोक्तव्यं प्रेक्षमाणो न किंचन ।कृतघ्नः पुरुषव्याघ्र मनसेदमचिन्तयत् ॥ ३० ॥
अयं बकपतिः पार्श्वे मांसराशिः स्थितो मम ।इमं हत्वा गृहीत्वा च यास्येऽहं समभिद्रुतम् ॥ ३१ ॥
« »