Click on words to see what they mean.

युधिष्ठिर उवाच ।पितामह महाप्राज्ञ कुरूणां कीर्तिवर्धन ।प्रश्नं कंचित्प्रवक्ष्यामि तन्मे व्याख्यातुमर्हसि ॥ १ ॥
कीदृशा मानवाः सौम्याः कैः प्रीतिः परमा भवेत् ।आयत्यां च तदात्वे च के क्षमास्तान्वदस्व मे ॥ २ ॥
न हि तत्र धनं स्फीतं न च संबन्धिबान्धवाः ।तिष्ठन्ति यत्र सुहृदस्तिष्ठन्तीति मतिर्मम ॥ ३ ॥
दुर्लभो हि सुहृच्छ्रोता दुर्लभश्च हितः सुहृत् ।एतद्धर्मभृतां श्रेष्ठ सर्वं व्याख्यातुमर्हसि ॥ ४ ॥
भीष्म उवाच ।संधेयान्पुरुषान्राजन्नसंधेयांश्च तत्त्वतः ।वदतो मे निबोध त्वं निखिलेन युधिष्ठिर ॥ ५ ॥
लुब्धः क्रूरस्त्यक्तधर्मा निकृतः शठ एव च ।क्षुद्रः पापसमाचारः सर्वशङ्की तथालसः ॥ ६ ॥
दीर्घसूत्रोऽनृजुः कष्टो गुरुदारप्रधर्षकः ।व्यसने यः परित्यागी दुरात्मा निरपत्रपः ॥ ७ ॥
सर्वतः पापदर्शी च नास्तिको वेदनिन्दकः ।संप्रकीर्णेन्द्रियो लोके यः कामनिरतश्चरेत् ॥ ८ ॥
असत्यो लोकविद्विष्टः समये चानवस्थितः ।पिशुनोऽथाकृतप्रज्ञो मत्सरी पापनिश्चयः ॥ ९ ॥
दुःशीलोऽथाकृतात्मा च नृशंसः कितवस्तथा ।मित्रैरर्थकृती नित्यमिच्छत्यर्थपरश्च यः ॥ १० ॥
वहतश्च यथाशक्ति यो न तुष्यति मन्दधीः ।अमित्रमिव यो भुङ्क्ते सदा मित्रं नरर्षभ ॥ ११ ॥
अस्थानक्रोधनो यश्च अकस्माच्च विरज्यते ।सुहृदश्चैव कल्याणानाशु त्यजति किल्बिषी ॥ १२ ॥
अल्पेऽप्यपकृते मूढस्तथाज्ञानात्कृतेऽपि च ।कार्योपसेवी मित्रेषु मित्रद्वेषी नराधिप ॥ १३ ॥
शत्रुर्मित्रमुखो यश्च जिह्मप्रेक्षी विलोभनः ।न रज्यति च कल्याणे यस्त्यजेत्तादृशं नरम् ॥ १४ ॥
पानपो द्वेषणः क्रूरो निर्घृणः परुषस्तथा ।परोपतापी मित्रध्रुक्तथा प्राणिवधे रतः ॥ १५ ॥
कृतघ्नश्चाधमो लोके न संधेयः कथंचन ।छिद्रान्वेषी न संधेयः संधेयानपि मे शृणु ॥ १६ ॥
कुलीना वाक्यसंपन्ना ज्ञानविज्ञानकोविदाः ।मित्रज्ञाश्च कृतज्ञाश्च सर्वज्ञाः शोकवर्जिताः ॥ १७ ॥
माधुर्यगुणसंपन्नाः सत्यसंधा जितेन्द्रियाः ।व्यायामशीलाः सततं भृतपुत्राः कुलोद्गताः ॥ १८ ॥
रूपवन्तो गुणोपेतास्तथालुब्धा जितश्रमाः ।दोषैर्वियुक्ताः प्रथितैस्ते ग्राह्याः पार्थिवेन ह ॥ १९ ॥
यथाशक्तिसमाचाराः सन्तस्तुष्यन्ति हि प्रभो ।नास्थाने क्रोधवन्तश्च न चाकस्माद्विरागिणः ॥ २० ॥
विरक्ताश्च न रुष्यन्ति मनसाप्यर्थकोविदाः ।आत्मानं पीडयित्वापि सुहृत्कार्यपरायणाः ।न विरज्यन्ति मित्रेभ्यो वासो रक्तमिवाविकम् ॥ २१ ॥
दोषांश्च लोभमोहादीनर्थेषु युवतिष्वथ ।न दर्शयन्ति सुहृदां विश्वस्ता बन्धुवत्सलाः ॥ २२ ॥
लोष्टकाञ्चनतुल्यार्थाः सुहृत्स्वशठबुद्धयः ।ये चरन्त्यनभीमाना निसृष्टार्थविभूषणाः ।संगृह्णन्तः परिजनं स्वाम्यर्थपरमाः सदा ॥ २३ ॥
ईदृशैः पुरुषश्रेष्ठैः संधिं यः कुरुते नृपः ।तस्य विस्तीर्यते राष्ट्रं ज्योत्स्ना ग्रहपतेरिव ॥ २४ ॥
शास्त्रनित्या जितक्रोधा बलवन्तो रणप्रियाः ।क्षान्ताः शीलगुणोपेताः संधेयाः पुरुषोत्तमाः ॥ २५ ॥
ये च दोषसमायुक्ता नराः प्रोक्ता मयानघ ।तेषामप्यधमो राजन्कृतघ्नो मित्रघातकः ।त्यक्तव्यः स दुराचारः सर्वेषामिति निश्चयः ॥ २६ ॥
युधिष्ठिर उवाच ।विस्तरेणार्थसंबन्धं श्रोतुमिच्छामि पार्थिव ।मित्रद्रोही कृतघ्नश्च यः प्रोक्तस्तं च मे वद ॥ २७ ॥
भीष्म उवाच ।हन्त ते वर्तयिष्येऽहमितिहासं पुरातनम् ।उदीच्यां दिशि यद्वृत्तं म्लेच्छेषु मनुजाधिप ॥ २८ ॥
ब्राह्मणो मध्यदेशीयः कृष्णाङ्गो ब्रह्मवर्जितः ।ग्रामं प्रेक्ष्य जनाकीर्णं प्राविशद्भैक्षकाङ्क्षया ॥ २९ ॥
तत्र दस्युर्धनयुतः सर्ववर्णविशेषवित् ।ब्रह्मण्यः सत्यसंधश्च दाने च निरतोऽभवत् ॥ ३० ॥
तस्य क्षयमुपागम्य ततो भिक्षामयाचत ।प्रतिश्रयं च वासार्थं भिक्षां चैवाथ वार्षिकीम् ॥ ३१ ॥
प्रादात्तस्मै स विप्राय वस्त्रं च सदृशं नवम् ।नारीं चापि वयोपेतां भर्त्रा विरहितां तदा ॥ ३२ ॥
एतत्संप्राप्य हृष्टात्मा दस्योः सर्वं द्विजस्तदा ।तस्मिन्गृहवरे राजंस्तया रेमे स गौतमः ॥ ३३ ॥
कुटुम्बार्थेषु दस्योः स साहाय्यं चाप्यथाकरोत् ।तत्रावसत्सोऽथ वर्षाः समृद्धे शबरालये ।बाणवेध्ये परं यत्नमकरोच्चैव गौतमः ॥ ३४ ॥
वक्राङ्गांस्तु स नित्यं वै सर्वतो बाणगोचरे ।जघान गौतमो राजन्यथा दस्युगणस्तथा ॥ ३५ ॥
हिंसापरो घृणाहीनः सदा प्राणिवधे रतः ।गौतमः संनिकर्षेण दस्युभिः समतामियात् ॥ ३६ ॥
तथा तु वसतस्तस्य दस्युग्रामे सुखं तदा ।अगच्छन्बहवो मासा निघ्नतः पक्षिणो बहून् ॥ ३७ ॥
ततः कदाचिदपरो द्विजस्तं देशमागमत् ।जटी चीराजिनधरः स्वाध्यायपरमः शुचिः ॥ ३८ ॥
विनीतो नियताहारो ब्रह्मण्यो वेदपारगः ।सब्रह्मचारी तद्देश्यः सखा तस्यैव सुप्रियम् ।तं दस्युग्राममगमद्यत्रासौ गौतमोऽभवत् ॥ ३९ ॥
स तु विप्रगृहान्वेषी शूद्रान्नपरिवर्जकः ।ग्रामे दस्युजनाकीर्णे व्यचरत्सर्वतोदिशम् ॥ ४० ॥
ततः स गौतमगृहं प्रविवेश द्विजोत्तमः ।गौतमश्चापि संप्राप्तस्तावन्योन्येन संगतौ ॥ ४१ ॥
वक्राङ्गभारहस्तं तं धनुष्पाणिं कृतागसम् ।रुधिरेणावसिक्ताङ्गं गृहद्वारमुपागतम् ॥ ४२ ॥
तं दृष्ट्वा पुरुषादाभमपध्वस्तं क्षयागतम् ।अभिज्ञाय द्विजो व्रीडामगमद्वाक्यमाह च ॥ ४३ ॥
किमिदं कुरुषे मौढ्याद्विप्रस्त्वं हि कुलोद्गतः ।मध्यदेशपरिज्ञातो दस्युभावं गतः कथम् ॥ ४४ ॥
पूर्वान्स्मर द्विजाग्र्यांस्तान्प्रख्यातान्वेदपारगान् ।येषां वंशेऽभिजातस्त्वमीदृशः कुलपांसनः ॥ ४५ ॥
अवबुध्यात्मनात्मानं सत्यं शीलं श्रुतं दमम् ।अनुक्रोशं च संस्मृत्य त्यज वासमिमं द्विज ॥ ४६ ॥
एवमुक्तः स सुहृदा तदा तेन हितैषिणा ।प्रत्युवाच ततो राजन्विनिश्चित्य तदार्तवत् ॥ ४७ ॥
अधनोऽस्मि द्विजश्रेष्ठ न च वेदविदप्यहम् ।वृत्त्यर्थमिह संप्राप्तं विद्धि मां द्विजसत्तम ॥ ४८ ॥
त्वद्दर्शनात्तु विप्रर्षे कृतार्थं वेद्म्यहं द्विज ।आत्मानं सह यास्यावः श्वो वसाद्येह शर्वरीम् ॥ ४९ ॥
« »