Click on words to see what they mean.

वैशंपायन उवाच ।कथान्तरमथासाद्य खड्गयुद्धविशारदः ।नकुलः शरतल्पस्थमिदमाह पितामहम् ॥ १ ॥
धनुः प्रहरणं श्रेष्ठमिति वादः पितामह ।मतस्तु मम धर्मज्ञ खड्ग एव सुसंशितः ॥ २ ॥
विशीर्णे कार्मुके राजन्प्रक्षीणेषु च वाजिषु ।खड्गेन शक्यते युद्धे साध्वात्मा परिरक्षितुम् ॥ ३ ॥
शरासनधरांश्चैव गदाशक्तिधरांस्तथा ।एकः खड्गधरो वीरः समर्थः प्रतिबाधितुम् ॥ ४ ॥
अत्र मे संशयश्चैव कौतूहलमतीव च ।किं स्वित्प्रहरणं श्रेष्ठं सर्वयुद्धेषु पार्थिव ॥ ५ ॥
कथं चोत्पादितः खड्गः कस्यार्थाय च केन वा ।पूर्वाचार्यं च खड्गस्य प्रब्रूहि प्रपितामह ॥ ६ ॥
तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः ।सर्वकौशलसंयुक्तं सूक्ष्मचित्रार्थवच्छुभम् ॥ ७ ॥
ततस्तस्योत्तरं वाक्यं स्वरवर्णोपपादितम् ।शिक्षान्यायोपसंपन्नं द्रोणशिष्याय पृच्छते ॥ ८ ॥
उवाच सर्वधर्मज्ञो धनुर्वेदस्य पारगः ।शरतल्पगतो भीष्मो नकुलाय महात्मने ॥ ९ ॥
तत्त्वं शृणुष्व माद्रेय यदेतत्परिपृच्छसि ।प्रबोधितोऽस्मि भवता धातुमानिव पर्वतः ॥ १० ॥
सलिलैकार्णवं तात पुरा सर्वमभूदिदम् ।निष्प्रकम्पमनाकाशमनिर्देश्यमहीतलम् ॥ ११ ॥
तमःसंवृतमस्पर्शमतिगम्भीरदर्शनम् ।निःशब्दं चाप्रमेयं च तत्र जज्ञे पितामहः ॥ १२ ॥
सोऽसृजद्वायुमग्निं च भास्करं चापि वीर्यवान् ।आकाशमसृजच्चोर्ध्वमधो भूमिं च नैरृतिम् ॥ १३ ॥
नभः सचन्द्रतारं च नक्षत्राणि ग्रहांस्तथा ।संवत्सरानहोरात्रानृतूनथ लवान्क्षणान् ॥ १४ ॥
ततः शरीरं लोकस्थं स्थापयित्वा पितामहः ।जनयामास भगवान्पुत्रानुत्तमतेजसः ॥ १५ ॥
मरीचिमृषिमत्रिं च पुलस्त्यं पुलहं क्रतुम् ।वसिष्ठाङ्गिरसौ चोभौ रुद्रं च प्रभुमीश्वरम् ॥ १६ ॥
प्राचेतसस्तथा दक्षः कन्याः षष्टिमजीजनत् ।ता वै ब्रह्मर्षयः सर्वाः प्रजार्थं प्रतिपेदिरे ॥ १७ ॥
ताभ्यो विश्वानि भूतानि देवाः पितृगणास्तथा ।गन्धर्वाप्सरसश्चैव रक्षांसि विविधानि च ॥ १८ ॥
पतत्रिमृगमीनाश्च प्लवंगाश्च महोरगाः ।नानाकृतिबलाश्चान्ये जलक्षितिविचारिणः ॥ १९ ॥
औद्भिदाः स्वेदजाश्चैव अण्डजाश्च जरायुजाः ।जज्ञे तात तथा सर्वं जगत्स्थावरजङ्गमम् ॥ २० ॥
भूतसर्गमिमं कृत्वा सर्वलोकपितामहः ।शाश्वतं वेदपठितं धर्मं च युयुजे पुनः ॥ २१ ॥
तस्मिन्धर्मे स्थिता देवाः सहाचार्यपुरोहिताः ।आदित्या वसवो रुद्राः ससाध्या मरुदश्विनः ॥ २२ ॥
भृग्वत्र्यङ्गिरसः सिद्धाः काश्यपश्च तपोधनः ।वसिष्ठगौतमागस्त्यास्तथा नारदपर्वतौ ॥ २३ ॥
ऋषयो वालखिल्याश्च प्रभासाः सिकतास्तथा ।घृताचाः सोमवायव्या वैखानसमरीचिपाः ॥ २४ ॥
अकृष्टाश्चैव हंसाश्च ऋषयोऽथाग्नियोनिजाः ।वानप्रस्थाः पृश्नयश्च स्थिता ब्रह्मानुशासने ॥ २५ ॥
दानवेन्द्रास्त्वतिक्रम्य तत्पितामहशासनम् ।धर्मस्यापचयं चक्रुः क्रोधलोभसमन्विताः ॥ २६ ॥
हिरण्यकशिपुश्चैव हिरण्याक्षो विरोचनः ।शम्बरो विप्रचित्तिश्च प्रह्रादो नमुचिर्बलिः ॥ २७ ॥
एते चान्ये च बहवः सगणा दैत्यदानवाः ।धर्मसेतुमतिक्रम्य रेमिरेऽधर्मनिश्चयाः ॥ २८ ॥
सर्वे स्म तुल्यजातीया यथा देवास्तथा वयम् ।इत्येवं हेतुमास्थाय स्पर्धमानाः सुरर्षिभिः ॥ २९ ॥
न प्रियं नाप्यनुक्रोशं चक्रुर्भूतेषु भारत ।त्रीनुपायानतिक्रम्य दण्डेन रुरुधुः प्रजाः ।न जग्मुः संविदं तैश्च दर्पादसुरसत्तमाः ॥ ३० ॥
अथ वै भगवान्ब्रह्मा ब्रह्मर्षिभिरुपस्थितः ।तदा हिमवतः पृष्ठे सुरम्ये पद्मतारके ॥ ३१ ॥
शतयोजनविस्तारे मणिमुक्ताचयाचिते ।तस्मिन्गिरिवरे पुत्र पुष्पितद्रुमकानने ।तस्थौ स विबुधश्रेष्ठो ब्रह्मा लोकार्थसिद्धये ॥ ३२ ॥
ततो वर्षसहस्रान्ते वितानमकरोत्प्रभुः ।विधिना कल्पदृष्टेन यथोक्तेनोपपादितम् ॥ ३३ ॥
ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः ।मरुद्भिः परिसंस्तीर्णं दीप्यमानैश्च पावकैः ॥ ३४ ॥
काञ्चनैर्यज्ञभाण्डैश्च भ्राजिष्णुभिरलंकृतम् ।वृतं देवगणैश्चैव प्रबभौ यज्ञमण्डलम् ॥ ३५ ॥
तथा ब्रह्मर्षिभिश्चैव सदस्यैरुपशोभितम् ।तत्र घोरतमं वृत्तमृषीणां मे परिश्रुतम् ॥ ३६ ॥
चन्द्रमा विमलं व्योम यथाभ्युदिततारकम् ।विदार्याग्निं तथा भूतमुत्थितं श्रूयते ततः ॥ ३७ ॥
नीलोत्पलसवर्णाभं तीक्ष्णदंष्ट्रं कृशोदरम् ।प्रांशु दुर्दर्शनं चैवाप्यतितेजस्तथैव च ॥ ३८ ॥
तस्मिन्नुत्पतमाने च प्रचचाल वसुंधरा ।तत्रोर्मिकलिलावर्तश्चुक्षुभे च महार्णवः ॥ ३९ ॥
पेतुरुल्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः ।अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ ।मुहुर्मुहुश्च भूतानि प्राव्यथन्त भयात्तथा ॥ ४० ॥
ततः सुतुमुलं दृष्ट्वा तदद्भुतमुपस्थितम् ।महर्षिसुरगन्धर्वानुवाचेदं पितामहः ॥ ४१ ॥
मयैतच्चिन्तितं भूतमसिर्नामैष वीर्यवान् ।रक्षणार्थाय लोकस्य वधाय च सुरद्विषाम् ॥ ४२ ॥
ततस्तद्रूपमुत्सृज्य बभौ निस्त्रिंश एव सः ।विमलस्तीक्ष्णधारश्च कालान्तक इवोद्यतः ॥ ४३ ॥
ततस्तं शितिकण्ठाय रुद्रायर्षभकेतवे ।ब्रह्मा ददावसिं दीप्तमधर्मप्रतिवारणम् ॥ ४४ ॥
ततः स भगवान्रुद्रो ब्रह्मर्षिगणसंस्तुतः ।प्रगृह्यासिममेयात्मा रूपमन्यच्चकार ह ॥ ४५ ॥
चतुर्बाहुः स्पृशन्मूर्ध्ना भूस्थितोऽपि नभस्तलम् ।ऊर्ध्वदृष्टिर्महालिङ्गो मुखाज्ज्वालाः समुत्सृजन् ।विकुर्वन्बहुधा वर्णान्नीलपाण्डुरलोहितान् ॥ ४६ ॥
बिभ्रत्कृष्णाजिनं वासो हेमप्रवरतारकम् ।नेत्रं चैकं ललाटेन भास्करप्रतिमं महत् ।शुशुभाते च विमले द्वे नेत्रे कृष्णपिङ्गले ॥ ४७ ॥
ततो देवो महादेवः शूलपाणिर्भगाक्षिहा ।संप्रगृह्य तु निस्त्रिंशं कालार्कानलसंनिभम् ॥ ४८ ॥
त्रिकूटं चर्म चोद्यम्य सविद्युतमिवाम्बुदम् ।चचार विविधान्मार्गान्महाबलपराक्रमः ।विधुन्वन्नसिमाकाशे दानवान्तचिकीर्षया ॥ ४९ ॥
तस्य नादं विनदतो महाहासं च मुञ्चतः ।बभौ प्रतिभयं रूपं तदा रुद्रस्य भारत ॥ ५० ॥
तद्रूपधारिणं रुद्रं रौद्रकर्म चिकीर्षवः ।निशम्य दानवाः सर्वे हृष्टाः समभिदुद्रुवुः ॥ ५१ ॥
अश्मभिश्चाप्यवर्षन्त प्रदीप्तैश्च तथोल्मुकैः ।घोरैः प्रहरणैश्चान्यैः शितधारैरयोमुखैः ॥ ५२ ॥
ततस्तद्दानवानीकं संप्रणेतारमच्युतम् ।रुद्रखड्गबलोद्धूतं प्रचचाल मुमोह च ॥ ५३ ॥
चित्रं शीघ्रतरत्वाच्च चरन्तमसिधारिणम् ।तमेकमसुराः सर्वे सहस्रमिति मेनिरे ॥ ५४ ॥
छिन्दन्भिन्दन्रुजन्कृन्तन्दारयन्प्रमथन्नपि ।अचरद्दैत्यसंघेषु रुद्रोऽग्निरिव कक्षगः ॥ ५५ ॥
असिवेगप्ररुग्णास्ते छिन्नबाहूरुवक्षसः ।संप्रकृत्तोत्तमाङ्गाश्च पेतुरुर्व्यां महासुराः ॥ ५६ ॥
अपरे दानवा भग्ना रुद्रघातावपीडिताः ।अन्योन्यमभिनर्दन्तो दिशः संप्रतिपेदिरे ॥ ५७ ॥
भूमिं केचित्प्रविविशुः पर्वतानपरे तथा ।अपरे जग्मुराकाशमपरेऽम्भः समाविशन् ॥ ५८ ॥
तस्मिन्महति संवृत्ते समरे भृशदारुणे ।बभौ भूमिः प्रतिभया तदा रुधिरकर्दमा ॥ ५९ ॥
दानवानां शरीरैश्च महद्भिः शोणितोक्षितैः ।समाकीर्णा महाबाहो शैलैरिव सकिंशुकैः ॥ ६० ॥
रुधिरेण परिक्लिन्ना प्रबभौ वसुधा तदा ।रक्तार्द्रवसना श्यामा नारीव मदविह्वला ॥ ६१ ॥
स रुद्रो दानवान्हत्वा कृत्वा धर्मोत्तरं जगत् ।रौद्रं रूपं विहायाशु चक्रे रूपं शिवं शिवः ॥ ६२ ॥
ततो महर्षयः सर्वे सर्वे देवगणास्तथा ।जयेनाद्भुतकल्पेन देवदेवमथार्चयन् ॥ ६३ ॥
ततः स भगवान्रुद्रो दानवक्षतजोक्षितम् ।असिं धर्मस्य गोप्तारं ददौ सत्कृत्य विष्णवे ॥ ६४ ॥
विष्णुर्मरीचये प्रादान्मरीचिर्भगवांश्च तम् ।महर्षिभ्यो ददौ खड्गमृषयो वासवाय तु ॥ ६५ ॥
महेन्द्रो लोकपालेभ्यो लोकपालास्तु पुत्रक ।मनवे सूर्यपुत्राय ददुः खड्गं सुविस्तरम् ॥ ६६ ॥
ऊचुश्चैनं तथैवाद्यं मानुषाणां त्वमीश्वरः ।असिना धर्मगर्भेण पालयस्व प्रजा इति ॥ ६७ ॥
धर्मसेतुमतिक्रान्ताः सूक्ष्मस्थूलार्थकारणात् ।विभज्य दण्डं रक्ष्याः स्युर्धर्मतो न यदृच्छया ॥ ६८ ॥
दुर्वाचा निग्रहो दण्डो हिरण्यबहुलस्तथा ।व्यङ्गनं च शरीरस्य वधो वानल्पकारणात् ॥ ६९ ॥
असेरेतानि रूपाणि दुर्वाचादीनि निर्दिशेत् ।असेरेव प्रमाणानि परिमाणव्यतिक्रमात् ॥ ७० ॥
अधिसृज्याथ पुत्रं स्वं प्रजानामधिपं ततः ।मनुः प्रजानां रक्षार्थं क्षुपाय प्रददावसिम् ॥ ७१ ॥
क्षुपाज्जग्राह चेक्ष्वाकुरिक्ष्वाकोश्च पुरूरवाः ।आयुश्च तस्माल्लेभे तं नहुषश्च ततो भुवि ॥ ७२ ॥
ययातिर्नहुषाच्चापि पूरुस्तस्माच्च लब्धवान् ।आमूर्तरयसस्तस्मात्ततो भूमिशयो नृपः ॥ ७३ ॥
भरतश्चापि दौःषन्तिर्लेभे भूमिशयादसिम् ।तस्माच्च लेभे धर्मज्ञो राजन्नैडबिडस्तथा ॥ ७४ ॥
ततश्चैडबिडाल्लेभे धुन्धुमारो जनेश्वरः ।धुन्धुमाराच्च काम्बोजो मुचुकुन्दस्ततोऽलभत् ॥ ७५ ॥
मुचुकुन्दान्मरुत्तश्च मरुत्तादपि रैवतः ।रैवताद्युवनाश्वश्च युवनाश्वात्ततो रघुः ॥ ७६ ॥
इक्ष्वाकुवंशजस्तस्माद्धरिणाश्वः प्रतापवान् ।हरिणाश्वादसिं लेभे शुनकः शुनकादपि ॥ ७७ ॥
उशीनरो वै धर्मात्मा तस्माद्भोजाः सयादवाः ।यदुभ्यश्च शिबिर्लेभे शिबेश्चापि प्रतर्दनः ॥ ७८ ॥
प्रतर्दनादष्टकश्च रुशदश्वोऽष्टकादपि ।रुशदश्वाद्भरद्वाजो द्रोणस्तस्मात्कृपस्ततः ।ततस्त्वं भ्रातृभिः सार्धं परमासिमवाप्तवान् ॥ ७९ ॥
कृत्तिकाश्चास्य नक्षत्रमसेरग्निश्च दैवतम् ।रोहिण्यो गोत्रमस्याथ रुद्रश्च गुरुरुत्तमः ॥ ८० ॥
असेरष्टौ च नामानि रहस्यानि निबोध मे ।पाण्डवेय सदा यानि कीर्तयँल्लभते जयम् ॥ ८१ ॥
असिर्विशसनः खड्गस्तीक्ष्णवर्त्मा दुरासदः ।श्रीगर्भो विजयश्चैव धर्मपालस्तथैव च ॥ ८२ ॥
अग्र्यः प्रहरणानां च खड्गो माद्रवतीसुत ।महेश्वरप्रणीतश्च पुराणे निश्चयं गतः ॥ ८३ ॥
पृथुस्तूत्पादयामास धनुराद्यमरिंदम ।तेनेयं पृथिवी पूर्वं वैन्येन परिरक्षिता ॥ ८४ ॥
तदेतदार्षं माद्रेय प्रमाणं कर्तुमर्हसि ।असेश्च पूजा कर्तव्या सदा युद्धविशारदैः ॥ ८५ ॥
इत्येष प्रथमः कल्पो व्याख्यातस्ते सुविस्तरः ।असेरुत्पत्तिसंसर्गो यथावद्भरतर्षभ ॥ ८६ ॥
सर्वथैतदिह श्रुत्वा खड्गसाधनमुत्तमम् ।लभते पुरुषः कीर्तिं प्रेत्य चानन्त्यमश्नुते ॥ ८७ ॥
« »