Click on words to see what they mean.

भीष्म उवाच ।कृतार्थो यक्ष्यमाणश्च सर्ववेदान्तगश्च यः ।आचार्यपितृभार्यार्थं स्वाध्यायार्थमथापि वा ॥ १ ॥
एते वै साधवो दृष्टा ब्राह्मणा धर्मभिक्षवः ।अस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः ॥ २ ॥
अन्यत्र दक्षिणा या तु देया भरतसत्तम ।अन्येभ्यो हि बहिर्वेद्यां नाकृतान्नं विधीयते ॥ ३ ॥
सर्वरत्नानि राजा च यथार्हं प्रतिपादयेत् ।ब्राह्मणाश्चैव यज्ञाश्च सहान्नाः सहदक्षिणाः ॥ ४ ॥
यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये ।अधिकं वापि विद्येत स सोमं पातुमर्हति ॥ ५ ॥
यज्ञश्चेत्प्रतिविद्धः स्यादङ्गेनैकेन यज्वनः ।ब्राह्मणस्य विशेषेण धार्मिके सति राजनि ॥ ६ ॥
यो वैश्यः स्याद्बहुपशुर्हीनक्रतुरसोमपः ।कुटुम्बात्तस्य तद्द्रव्यं यज्ञार्थं पार्थिवो हरेत् ॥ ७ ॥
आहरेद्वेश्मतः किंचित्कामं शूद्रस्य द्रव्यतः ।न हि वेश्मनि शूद्रस्य कश्चिदस्ति परिग्रहः ॥ ८ ॥
योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः ।तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् ॥ ९ ॥
अदातृभ्यो हरेन्नित्यं व्याख्याप्य नृपतिः प्रभो ।तथा ह्याचरतो धर्मो नृपतेः स्यादथाखिलः ॥ १० ॥
तथैव सप्तमे भक्ते भक्तानि षडनश्नता ।अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ।खलात्क्षेत्रात्तथागाराद्यतो वाप्युपपद्यते ॥ ११ ॥
आख्यातव्यं नृपस्यैतत्पृच्छतोऽपृच्छतोऽपि वा ।न तस्मै धारयेद्दण्डं राजा धर्मेण धर्मवित् ॥ १२ ॥
क्षत्रियस्य हि बालिश्याद्ब्राह्मणः क्लिश्यते क्षुधा ।श्रुतशीले समाज्ञाय वृत्तिमस्य प्रकल्पयेत् ।अथैनं परिरक्षेत पिता पुत्रमिवौरसम् ॥ १३ ॥
इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये ।अविकल्पः पुराधर्मो धर्मवादैस्तु केवलम् ॥ १४ ॥
विश्वैस्तु देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः ।आपत्सु मरणाद्भीतैर्लिङ्गप्रतिनिधिः कृतः ॥ १५ ॥
प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते ।न सांपरायिकं तस्य दुर्मतेर्विद्यते फलम् ॥ १६ ॥
न ब्राह्मणान्वेदयेत कश्चिद्राजनि मानवः ।अवीर्यो वेदनाद्विद्यात्सुवीर्यो वीर्यवत्तरम् ॥ १७ ॥
तस्माद्राज्ञा सदा तेजो दुःसहं ब्रह्मवादिनाम् ।मन्ता शास्ता विधाता च ब्राह्मणो देव उच्यते ।तस्मिन्नाकुशलं ब्रूयान्न शुक्तामीरयेद्गिरम् ॥ १८ ॥
क्षत्रियो बाहुवीर्येण तरत्यापदमात्मनः ।धनेन वैश्यः शूद्रश्च मन्त्रैर्होमैश्च वै द्विजः ॥ १९ ॥
न वै कन्या न युवतिर्नामन्त्रो न च बालिशः ।परिवेष्टाग्निहोत्रस्य भवेन्नासंस्कृतस्तथा ।नरके निपतन्त्येते जुह्वानाः स च यस्य तत् ॥ २० ॥
प्राजापत्यमदत्त्वाश्वमग्न्याधेयस्य दक्षिणाम् ।अनाहिताग्निरिति स प्रोच्यते धर्मदर्शिभिः ॥ २१ ॥
पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः ।अनाप्तदक्षिणैर्यज्ञैर्न यजेत कथंचन ॥ २२ ॥
प्रजाः पशूंश्च स्वर्गं च हन्ति यज्ञो ह्यदक्षिणः ।इन्द्रियाणि यशः कीर्तिमायुश्चास्योपकृन्तति ॥ २३ ॥
उदक्या ह्यासते ये च ये च केचिदनग्नयः ।कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रधर्मिणः ॥ २४ ॥
उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः ।उषित्वा द्वादश समाः शूद्रकर्मेह गच्छति ॥ २५ ॥
अनार्यां शयने बिभ्रदुज्झन्बिभ्रच्च यो द्विजाम् ।अब्राह्मणो मन्यमानस्तृणेष्वासीत पृष्ठतः ।तथा स शुध्यते राजञ्शृणु चात्र वचो मम ॥ २६ ॥
यदेकरात्रेण करोति पापं कृष्णं वर्णं ब्राह्मणः सेवमानः ।स्थानासनाभ्यां विचरन्व्रती संस्त्रिभिर्वर्षैः शमयेदात्मपापम् ॥ २७ ॥
न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन्न विवाहकाले ।न गुर्वर्थे नात्मनो जीवितार्थे पञ्चानृतान्याहुरपातकानि ॥ २८ ॥
श्रद्दधानः शुभां विद्यां हीनादपि समाचरेत् ।सुवर्णमपि चामेध्यादाददीतेति धारणा ॥ २९ ॥
स्त्रीरत्नं दुष्कुलाच्चापि विषादप्यमृतं पिबेत् ।अदुष्टा हि स्त्रियो रत्नमाप इत्येव धर्मतः ॥ ३० ॥
गोब्राह्मणहितार्थं च वर्णानां संकरेषु च ।गृह्णीयात्तु धनुर्वैश्यः परित्राणाय चात्मनः ॥ ३१ ॥
सुरापानं ब्रह्महत्या गुरुतल्पमथापि वा ।अनिर्देश्यानि मन्यन्ते प्राणान्तानीति धारणा ॥ ३२ ॥
सुवर्णहरणं स्तैन्यं विप्रासङ्गश्च पातकम् ।विहरन्मद्यपानं चाप्यगम्यागमनं तथा ॥ ३३ ॥
पतितैः संप्रयोगाच्च ब्राह्मणैर्योनितस्तथा ।अचिरेण महाराज तादृशो वै भवत्युत ॥ ३४ ॥
संवत्सरेण पतति पतितेन सहाचरन् ।याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ॥ ३५ ॥
एतानि च ततोऽन्यानि निर्देश्यानीति धारणा ।निर्देश्यकेन विधिना कालेनाव्यसनी भवेत् ॥ ३६ ॥
अन्नं तिर्यङ्न होतव्यं प्रेतकर्मण्यपातिते ।त्रिषु त्वेतेषु पूर्वेषु न कुर्वीत विचारणाम् ॥ ३७ ॥
अमात्यान्वा गुरून्वापि जह्याद्धर्मेण धार्मिकः ।प्रायश्चित्तमकुर्वाणैर्नैतैरर्हति संविदम् ॥ ३८ ॥
अधर्मकारी धर्मेण तपसा हन्ति किल्बिषम् ।ब्रुवन्स्तेन इति स्तेनं तावत्प्राप्नोति किल्बिषम् ।अस्तेनं स्तेन इत्युक्त्वा द्विगुणं पापमाप्नुयात् ॥ ३९ ॥
त्रिभागं ब्रह्महत्यायाः कन्या प्राप्नोति दुष्यती ।यस्तु दूषयिता तस्याः शेषं प्राप्नोति किल्बिषम् ॥ ४० ॥
ब्राह्मणायावगूर्येह स्पृष्ट्वा गुरुतरं भवेत् ।वर्षाणां हि शतं पापः प्रतिष्ठां नाधिगच्छति ॥ ४१ ॥
सहस्रं त्वेव वर्षाणां निपात्य नरके वसेत् ।तस्मान्नैवावगूर्याद्धि नैव जातु निपातयेत् ॥ ४२ ॥
शोणितं यावतः पांसून्संगृह्णीयाद्द्विजक्षतात् ।तावतीः स समा राजन्नरके परिवर्तते ॥ ४३ ॥
भ्रूणहाहवमध्ये तु शुध्यते शस्त्रपातितः ।आत्मानं जुहुयाद्वह्नौ समिद्धे तेन शुध्यति ॥ ४४ ॥
सुरापो वारुणीमुष्णां पीत्वा पापाद्विमुच्यते ।तया स काये निर्दग्धे मृत्युना प्रेत्य शुध्यति ।लोकांश्च लभते विप्रो नान्यथा लभते हि सः ॥ ४५ ॥
गुरुतल्पमधिष्ठाय दुरात्मा पापचेतनः ।सूर्मीं ज्वलन्तीमाश्लिष्य मृत्युना स विशुध्यति ॥ ४६ ॥
अथ वा शिश्नवृषणावादायाञ्जलिना स्वयम् ।नैरृतीं दिशमास्थाय निपतेत्स त्वजिह्मगः ॥ ४७ ॥
ब्राह्मणार्थेऽपि वा प्राणान्संत्यजेत्तेन शुध्यति ।अश्वमेधेन वापीष्ट्वा गोमेधेनापि वा पुनः ।अग्निष्टोमेन वा सम्यगिह प्रेत्य च पूयते ॥ ४८ ॥
तथैव द्वादश समाः कपाली ब्रह्महा भवेत् ।ब्रह्मचारी चरेद्भैक्षं स्वकर्मोदाहरन्मुनिः ॥ ४९ ॥
एवं वा तपसा युक्तो ब्रह्महा सवनी भवेत् ।एवं वा गर्भमज्ञाता चात्रेयीं योऽभिगच्छति ।द्विगुणा ब्रह्महत्या वै आत्रेयीव्यसने भवेत् ॥ ५० ॥
सुरापो नियताहारो ब्रह्मचारी क्षमाचरः ।ऊर्ध्वं त्रिभ्योऽथ वर्षेभ्यो यजेताग्निष्टुता परम् ।ऋषभैकसहस्रं गा दत्त्वा शुभमवाप्नुयात् ॥ ५१ ॥
वैश्यं हत्वा तु वर्षे द्वे ऋषभैकशताश्च गाः ।शूद्रं हत्वाब्दमेवैकमृषभैकादशाश्च गाः ॥ ५२ ॥
श्वबर्बरखरान्हत्वा शौद्रमेव व्रतं चरेत् ।मार्जारचाषमण्डूकान्काकं भासं च मूषकम् ॥ ५३ ॥
उक्तः पशुसमो धर्मो राजन्प्राणिनिपातनात् ।प्रायश्चित्तान्यथान्यानि प्रवक्ष्याम्यनुपूर्वशः ॥ ५४ ॥
तल्पे चान्यस्य चौर्ये च पृथक्संवत्सरं चरेत् ।त्रीणि श्रोत्रियभार्यायां परदारे तु द्वे स्मृते ॥ ५५ ॥
काले चतुर्थे भुञ्जानो ब्रह्मचारी व्रती भवेत् ।स्थानासनाभ्यां विहरेत्त्रिरह्नोऽभ्युदितादपः ।एवमेव निराचान्तो यश्चाग्नीनपविध्यति ॥ ५६ ॥
त्यजत्यकारणे यश्च पितरं मातरं तथा ।पतितः स्यात्स कौरव्य तथा धर्मेषु निश्चयः ॥ ५७ ॥
ग्रासाच्छादनमत्यर्थं दद्यादिति निदर्शनम् ।भार्यायां व्यभिचारिण्यां निरुद्धायां विशेषतः ।यत्पुंसां परदारेषु तच्चैनां चारयेद्व्रतम् ॥ ५८ ॥
श्रेयांसं शयने हित्वा या पापीयांसमृच्छति ।श्वभिस्तां खादयेद्राजा संस्थाने बहुसंवृते ॥ ५९ ॥
पुमांसं बन्धयेत्प्राज्ञः शयने तप्त आयसे ।अप्यादधीत दारूणि तत्र दह्येत पापकृत् ॥ ६० ॥
एष दण्डो महाराज स्त्रीणां भर्तृव्यतिक्रमे ।संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो भवेत् ॥ ६१ ॥
द्वे तस्य त्रीणि वर्षाणि चत्वारि सहसेविनः ।कुचरः पञ्च वर्षाणि चरेद्भैक्षं मुनिव्रतः ॥ ६२ ॥
परिवित्तिः परिवेत्ता यया च परिविद्यते ।पाणिग्राहश्च धर्मेण सर्वे ते पतिताः स्मृताः ॥ ६३ ॥
चरेयुः सर्व एवैते वीरहा यद्व्रतं चरेत् ।चान्द्रायणं चरेन्मासं कृच्छ्रं वा पापशुद्धये ॥ ६४ ॥
परिवेत्ता प्रयच्छेत परिवित्ताय तां स्नुषाम् ।ज्येष्ठेन त्वभ्यनुज्ञातो यवीयान्प्रत्यनन्तरम् ।एनसो मोक्षमाप्नोति सा च तौ चैव धर्मतः ॥ ६५ ॥
अमानुषीषु गोवर्जमनावृष्टिर्न दुष्यति ।अधिष्ठातारमत्तारं पशूनां पुरुषं विदुः ॥ ६६ ॥
परिधायोर्ध्ववालं तु पात्रमादाय मृन्मयम् ।चरेत्सप्त गृहान्भैक्षं स्वकर्म परिकीर्तयन् ॥ ६७ ॥
तत्रैव लब्धभोजी स्याद्द्वादशाहात्स शुध्यति ।चरेत्संवत्सरं चापि तद्व्रतं यन्निराकृति ॥ ६८ ॥
भवेत्तु मानुषेष्वेवं प्रायश्चित्तमनुत्तमम् ।दानं वादानसक्तेषु सर्वमेव प्रकल्पयेत् ।अनास्तिकेषु गोमात्रं प्राणमेकं प्रचक्षते ॥ ६९ ॥
श्ववराहमनुष्याणां कुक्कुटस्य खरस्य च ।मांसं मूत्रपुरीषं च प्राश्य संस्कारमर्हति ॥ ७० ॥
ब्राह्मणस्य सुरापस्य गन्धमाघ्राय सोमपः ।अपस्त्र्यहं पिबेदुष्णास्त्र्यहमुष्णं पयः पिबेत् ।त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्त्र्यहम् ॥ ७१ ॥
एवमेतत्समुद्दिष्टं प्रायश्चित्तं सनातनम् ।ब्राह्मणस्य विशेषेण तत्त्वज्ञानेन जायते ॥ ७२ ॥
« »