Click on words to see what they mean.

वैशंपायन उवाच ।अर्जुनस्य वचः श्रुत्वा भीमसेनोऽत्यमर्षणः ।धैर्यमास्थाय तेजस्वी ज्येष्ठं भ्रातरमब्रवीत् ॥ १ ॥
राजन्विदितधर्मोऽसि न तेऽस्त्यविदितं भुवि ।उपशिक्षाम ते वृत्तं सदैव न च शक्नुमः ॥ २ ॥
न वक्ष्यामि न वक्ष्यामीत्येवं मे मनसि स्थितम् ।अतिदुःखात्तु वक्ष्यामि तन्निबोध जनाधिप ॥ ३ ॥
भवतस्तु प्रमोहेन सर्वं संशयितं कृतम् ।विक्लवत्वं च नः प्राप्तमबलत्वं तथैव च ॥ ४ ॥
कथं हि राजा लोकस्य सर्वशास्त्रविशारदः ।मोहमापद्यते दैन्याद्यथा कुपुरुषस्तथा ॥ ५ ॥
आगतिश्च गतिश्चैव लोकस्य विदिता तव ।आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो ॥ ६ ॥
एवं गते महाराज राज्यं प्रति जनाधिप ।हेतुमत्र प्रवक्ष्यामि तदिहैकमनाः शृणु ॥ ७ ॥
द्विविधो जायते व्याधिः शारीरो मानसस्तथा ।परस्परं तयोर्जन्म निर्द्वंद्वं नोपलभ्यते ॥ ८ ॥
शारीराज्जायते व्याधिर्मानसो नात्र संशयः ।मानसाज्जायते व्याधिः शारीर इति निश्चयः ॥ ९ ॥
शारीरमानसे दुःखे योऽतीते अनुशोचति ।दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते ॥ १० ॥
शीतोष्णे चैव वायुश्च त्रयः शारीरजा गुणाः ।तेषां गुणानां साम्यं च तदाहुः स्वस्थलक्षणम् ॥ ११ ॥
तेषामन्यतमोत्सेके विधानमुपदिष्यते ।उष्णेन बाध्यते शीतं शीतेनोष्णं प्रबाध्यते ॥ १२ ॥
सत्त्वं रजस्तमश्चैव मानसाः स्युस्त्रयो गुणाः ।हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते ॥ १३ ॥
कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति ।कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति ॥ १४ ॥
स त्वं न दुःखी दुःखस्य न सुखी च सुखस्य च ।न दुःखी सुखजातस्य न सुखी दुःखजस्य वा ॥ १५ ॥
स्मर्तुमर्हसि कौरव्य दिष्टं तु बलवत्तरम् ।अथ वा ते स्वभावोऽयं येन पार्थिव कृष्यसे ॥ १६ ॥
दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् ।मिषतां पाण्डुपुत्राणां न तस्य स्मर्तुमर्हसि ॥ १७ ॥
प्रव्राजनं च नगरादजिनैश्च निवासनम् ।महारण्यनिवासश्च न तस्य स्मर्तुमर्हसि ॥ १८ ॥
जटासुरात्परिक्लेशं चित्रसेनेन चाहवम् ।सैन्धवाच्च परिक्लेशं कथं विस्मृतवानसि ।पुनरज्ञातचर्यायां कीचकेन पदा वधम् ॥ १९ ॥
यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम ।मनसैकेन ते युद्धमिदं घोरमुपस्थितम् ॥ २० ॥
यत्र नास्ति शरैः कार्यं न मित्रैर्न च बन्धुभिः ।आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥ २१ ॥
तस्मिन्ननिर्जिते युद्धे प्राणान्यदि ह मोक्ष्यसे ।अन्यं देहं समास्थाय पुनस्तेनैव योत्स्यसे ॥ २२ ॥
तस्मादद्यैव गन्तव्यं युद्धस्य भरतर्षभ ।एतज्जित्वा महाराज कृतकृत्यो भविष्यसि ॥ २३ ॥
एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम् ।पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् ॥ २४ ॥
दिष्ट्या दुर्योधनः पापो निहतः सानुगो युधि ।द्रौपद्याः केशपक्षस्य दिष्ट्या त्वं पदवीं गतः ॥ २५ ॥
यजस्व वाजिमेधेन विधिवद्दक्षिणावता ।वयं ते किंकराः पार्थ वासुदेवश्च वीर्यवान् ॥ २६ ॥
« »