Click on words to see what they mean.

वैशंपायन उवाच ।याज्ञसेन्या वचः श्रुत्वा पुनरेवार्जुनोऽब्रवीत् ।अनुमान्य महाबाहुं ज्येष्ठं भ्रातरमीश्वरम् ॥ १ ॥
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥ २ ॥
धर्मं संरक्षते दण्डस्तथैवार्थं नराधिप ।कामं संरक्षते दण्डस्त्रिवर्गो दण्ड उच्यते ॥ ३ ॥
दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते ।एतद्विद्वन्नुपादत्स्व स्वभावं पश्य लौकिकम् ॥ ४ ॥
राजदण्डभयादेके पापाः पापं न कुर्वते ।यमदण्डभयादेके परलोकभयादपि ॥ ५ ॥
परस्परभयादेके पापाः पापं न कुर्वते ।एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम् ॥ ६ ॥
दण्डस्यैव भयादेके न खादन्ति परस्परम् ।अन्धे तमसि मज्जेयुर्यदि दण्डो न पालयेत् ॥ ७ ॥
यस्माददान्तान्दमयत्यशिष्टान्दण्डयत्यपि ।दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः ॥ ८ ॥
वाचि दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम् ।दानदण्डः स्मृतो वैश्यो निर्दण्डः शूद्र उच्यते ॥ ९ ॥
असंमोहाय मर्त्यानामर्थसंरक्षणाय च ।मर्यादा स्थापिता लोके दण्डसंज्ञा विशां पते ॥ १० ॥
यत्र श्यामो लोहिताक्षो दण्डश्चरति सूनृतः ।प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥ ११ ॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः ।दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः ॥ १२ ॥
नाभीतो यजते राजन्नाभीतो दातुमिच्छति ।नाभीतः पुरुषः कश्चित्समये स्थातुमिच्छति ॥ १३ ॥
नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम् ।नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् ॥ १४ ॥
नाघ्नतः कीर्तिरस्तीह न वित्तं न पुनः प्रजाः ।इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत ॥ १५ ॥
य एव देवा हन्तारस्ताँल्लोकोऽर्चयते भृशम् ।हन्ता रुद्रस्तथा स्कन्दः शक्रोऽग्निर्वरुणो यमः ॥ १६ ॥
हन्ता कालस्तथा वायुर्मृत्युर्वैश्रवणो रविः ।वसवो मरुतः साध्या विश्वेदेवाश्च भारत ॥ १७ ॥
एतान्देवान्नमस्यन्ति प्रतापप्रणता जनाः ।न ब्रह्माणं न धातारं न पूषाणं कथंचन ॥ १८ ॥
मध्यस्थान्सर्वभूतेषु दान्ताञ्शमपरायणान् ।यजन्ते मानवाः केचित्प्रशान्ताः सर्वकर्मसु ॥ १९ ॥
न हि पश्यामि जीवन्तं लोके कंचिदहिंसया ।सत्त्वैः सत्त्वानि जीवन्ति दुर्बलैर्बलवत्तराः ॥ २० ॥
नकुलो मूषकानत्ति बिडालो नकुलं तथा ।बिडालमत्ति श्वा राजञ्श्वानं व्यालमृगस्तथा ॥ २१ ॥
तानत्ति पुरुषः सर्वान्पश्य धर्मो यथागतः ।प्राणस्यान्नमिदं सर्वं जङ्गमं स्थावरं च यत् ॥ २२ ॥
विधानं देवविहितं तत्र विद्वान्न मुह्यति ।यथा सृष्टोऽसि राजेन्द्र तथा भवितुमर्हसि ॥ २३ ॥
विनीतक्रोधहर्षा हि मन्दा वनमुपाश्रिताः ।विना वधं न कुर्वन्ति तापसाः प्राणयापनम् ॥ २४ ॥
उदके बहवः प्राणाः पृथिव्यां च फलेषु च ।न च कश्चिन्न तान्हन्ति किमन्यत्प्राणयापनात् ॥ २५ ॥
सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित् ।पक्ष्मणोऽपि निपातेन येषां स्यात्स्कन्धपर्ययः ॥ २६ ॥
ग्रामान्निष्क्रम्य मुनयो विगतक्रोधमत्सराः ।वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः ॥ २७ ॥
भूमिं भित्त्वौषधीश्छित्त्वा वृक्षादीनण्डजान्पशून् ।मनुष्यास्तन्वते यज्ञांस्ते स्वर्गं प्राप्नुवन्ति च ॥ २८ ॥
दण्डनीत्यां प्रणीतायां सर्वे सिध्यन्त्युपक्रमाः ।कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः ॥ २९ ॥
दण्डश्चेन्न भवेल्लोके व्यनशिष्यन्निमाः प्रजाः ।शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः ॥ ३० ॥
सत्यं चेदं ब्रह्मणा पूर्वमुक्तं दण्डः प्रजा रक्षति साधु नीतः ।पश्याग्नयश्च प्रतिशाम्यन्त्यभीताः संतर्जिता दण्डभयाज्ज्वलन्ति ॥ ३१ ॥
अन्धं तम इवेदं स्यान्न प्रज्ञायेत किंचन ।दण्डश्चेन्न भवेल्लोके विभजन्साध्वसाधुनी ॥ ३२ ॥
येऽपि संभिन्नमर्यादा नास्तिका वेदनिन्दकाः ।तेऽपि भोगाय कल्पन्ते दण्डेनोपनिपीडिताः ॥ ३३ ॥
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः ।दण्डस्य हि भयाद्भीतो भोगायेह प्रकल्पते ॥ ३४ ॥
चातुर्वर्ण्याप्रमोहाय सुनीतनयनाय च ।दण्डो विधात्रा विहितो धर्मार्थावभिरक्षितुम् ॥ ३५ ॥
यदि दण्डान्न बिभ्येयुर्वयांसि श्वापदानि च ।अद्युः पशून्मनुष्यांश्च यज्ञार्थानि हवींषि च ॥ ३६ ॥
न ब्रह्मचार्यधीयीत कल्याणी गौर्न दुह्यते ।न कन्योद्वहनं गच्छेद्यदि दण्डो न पालयेत् ॥ ३७ ॥
विश्वलोपः प्रवर्तेत भिद्येरन्सर्वसेतवः ।ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत् ॥ ३८ ॥
न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः ।विधिवद्दक्षिणावन्ति यदि दण्डो न पालयेत् ॥ ३९ ॥
चरेयुर्नाश्रमे धर्मं यथोक्तं विधिमाश्रिताः ।न विद्यां प्राप्नुयात्कश्चिद्यदि दण्डो न पालयेत् ॥ ४० ॥
न चोष्ट्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः ।युक्ता वहेयुर्यानानि यदि दण्डो न पालयेत् ॥ ४१ ॥
न प्रेष्या वचनं कुर्युर्न बालो जातु कर्हिचित् ।तिष्ठेत्पितृमते धर्मे यदि दण्डो न पालयेत् ॥ ४२ ॥
दण्डे स्थिताः प्रजाः सर्वा भयं दण्डं विदुर्बुधाः ।दण्डे स्वर्गो मनुष्याणां लोकोऽयं च प्रतिष्ठितः ॥ ४३ ॥
न तत्र कूटं पापं वा वञ्चना वापि दृश्यते ।यत्र दण्डः सुविहितश्चरत्यरिविनाशनः ॥ ४४ ॥
हविः श्वा प्रपिबेद्धृष्टो दण्डश्चेन्नोद्यतो भवेत् ।हरेत्काकः पुरोडाशं यदि दण्डो न पालयेत् ॥ ४५ ॥
यदिदं धर्मतो राज्यं विहितं यद्यधर्मतः ।कार्यस्तत्र न शोको वै भुङ्क्ष्व भोगान्यजस्व च ॥ ४६ ॥
सुखेन धर्मं श्रीमन्तश्चरन्ति शुचिवाससः ।संवसन्तः प्रियैर्दारैर्भुञ्जानाश्चान्नमुत्तमम् ॥ ४७ ॥
अर्थे सर्वे समारम्भाः समायत्ता न संशयः ।स च दण्डे समायत्तः पश्य दण्डस्य गौरवम् ॥ ४८ ॥
लोकयात्रार्थमेवेह धर्मप्रवचनं कृतम् ।अहिंसा साधुहिंसेति श्रेयान्धर्मपरिग्रहः ॥ ४९ ॥
नात्यन्तगुणवान्कश्चिन्न चाप्यत्यन्तनिर्गुणः ।उभयं सर्वकार्येषु दृश्यते साध्वसाधु च ॥ ५० ॥
पशूनां वृषणं छित्त्वा ततो भिन्दन्ति नस्तकान् ।कृषन्ति बहवो भारान्बध्नन्ति दमयन्ति च ॥ ५१ ॥
एवं पर्याकुले लोके विपथे जर्जरीकृते ।तैस्तैर्न्यायैर्महाराज पुराणं धर्ममाचर ॥ ५२ ॥
यज देहि प्रजा रक्ष धर्मं समनुपालय ।अमित्राञ्जहि कौन्तेय मित्राणि परिपालय ॥ ५३ ॥
मा च ते निघ्नतः शत्रून्मन्युर्भवतु भारत ।न तत्र किल्बिषं किंचित्कर्तुर्भवति भारत ॥ ५४ ॥
आततायी हि यो हन्यादाततायिनमागतम् ।न तेन भ्रूणहा स स्यान्मन्युस्तं मन्युमृच्छति ॥ ५५ ॥
अवध्यः सर्वभूतानामन्तरात्मा न संशयः ।अवध्ये चात्मनि कथं वध्यो भवति केनचित् ॥ ५६ ॥
यथा हि पुरुषः शालां पुनः संप्रविशेन्नवाम् ।एवं जीवः शरीराणि तानि तानि प्रपद्यते ॥ ५७ ॥
देहान्पुराणानुत्सृज्य नवान्संप्रतिपद्यते ।एवं मृत्युमुखं प्राहुर्ये जनास्तत्त्वदर्शिनः ॥ ५८ ॥
« »