Click on words to see what they mean.

भीष्म उवाच ।एवमुक्त्वा तु राजेन्द्र शल्मलिं ब्रह्मवित्तमः ।नारदः पवने सर्वं शल्मलेर्वाक्यमब्रवीत् ॥ १ ॥
हिमवत्पृष्ठजः कश्चिच्छल्मलिः परिवारवान् ।बृहन्मूलो बृहच्छाखः स त्वां वायोऽवमन्यते ॥ २ ॥
बहून्याक्षेपयुक्तानि त्वामाह वचनानि सः ।न युक्तानि मया वायो तानि वक्तुं त्वयि प्रभो ॥ ३ ॥
जानामि त्वामहं वायो सर्वप्राणभृतां वरम् ।वरिष्ठं च गरिष्ठं च क्रोधे वैवस्वतं यथा ॥ ४ ॥
एवं तु वचनं श्रुत्वा नारदस्य समीरणः ।शल्मलिं तमुपागम्य क्रुद्धो वचनमब्रवीत् ॥ ५ ॥
शल्मले नारदे यत्तत्त्वयोक्तं मद्विगर्हणम् ।अहं वायुः प्रभावं ते दर्शयाम्यात्मनो बलम् ॥ ६ ॥
नाहं त्वा नाभिजानामि विदितश्चासि मे द्रुम ।पितामहः प्रजासर्गे त्वयि विश्रान्तवान्प्रभुः ॥ ७ ॥
तस्य विश्रमणादेव प्रसादो यः कृतस्तव ।रक्ष्यसे तेन दुर्बुद्धे नात्मवीर्याद्द्रुमाधम ॥ ८ ॥
यन्मा त्वमवजानीषे यथान्यं प्राकृतं तथा ।दर्शयाम्येष आत्मानं यथा मामवभोत्स्यसे ॥ ९ ॥
एवमुक्तस्ततः प्राह शल्मलिः प्रहसन्निव ।पवन त्वं वने क्रुद्धो दर्शयात्मानमात्मना ॥ १० ॥
मयि वै त्यज्यतां क्रोधः किं मे क्रुद्धः करिष्यसि ।न ते बिभेमि पवन यद्यपि त्वं स्वयंप्रभुः ॥ ११ ॥
इत्येवमुक्तः पवनः श्व इत्येवाब्रवीद्वचः ।दर्शयिष्यामि ते तेजस्ततो रात्रिरुपागमत् ॥ १२ ॥
अथ निश्चित्य मनसा शल्मलिर्वातकारितम् ।पश्यमानस्तदात्मानमसमं मातरिश्वनः ॥ १३ ॥
नारदे यन्मया प्रोक्तं पवनं प्रति तन्मृषा ।असमर्थो ह्यहं वायोर्बलेन बलवान्हि सः ॥ १४ ॥
मारुतो बलवान्नित्यं यथैनं नारदोऽब्रवीत् ।अहं हि दुर्बलोऽन्येभ्यो वृक्षेभ्यो नात्र संशयः ॥ १५ ॥
किं तु बुद्ध्या समो नास्ति मम कश्चिद्वनस्पतिः ।तदहं बुद्धिमास्थाय भयं मोक्ष्ये समीरणात् ॥ १६ ॥
यदि तां बुद्धिमास्थाय चरेयुः पर्णिनो वने ।अरिष्टाः स्युः सदा क्रुद्धात्पवनान्नात्र संशयः ॥ १७ ॥
तेऽत्र बाला न जानन्ति यथा नैनान्समीरणः ।समीरयेत संक्रुद्धो यथा जानाम्यहं तथा ॥ १८ ॥
ततो निश्चित्य मनसा शल्मलिः क्षुभितस्तदा ।शाखाः स्कन्धान्प्रशाखाश्च स्वयमेव व्यशातयत् ॥ १९ ॥
स परित्यज्य शाखाश्च पत्राणि कुसुमानि च ।प्रभाते वायुमायान्तं प्रत्यैक्षत वनस्पतिः ॥ २० ॥
ततः क्रुद्धः श्वसन्वायुः पातयन्वै महाद्रुमान् ।आजगामाथ तं देशं स्थितो यत्र स शल्मलिः ॥ २१ ॥
तं हीनपर्णं पतिताग्रशाखं विशीर्णपुष्पं प्रसमीक्ष्य वायुः ।उवाच वाक्यं स्मयमान एनं मुदा युतं शल्मलिं रुग्णशाखम् ॥ २२ ॥
अहमप्येवमेव त्वां कुर्वाणः शल्मले रुषा ।आत्मना यत्कृतं कृत्स्नं शाखानामपकर्षणम् ॥ २३ ॥
हीनपुष्पाग्रशाखस्त्वं शीर्णाङ्कुरपलाशवान् ।आत्मदुर्मन्त्रितेनेह मद्वीर्यवशगोऽभवः ॥ २४ ॥
एतच्छ्रुत्वा वचो वायोः शल्मलिर्व्रीडितस्तदा ।अतप्यत वचः स्मृत्वा नारदो यत्तदाब्रवीत् ॥ २५ ॥
एवं यो राजशार्दूल दुर्बलः सन्बलीयसा ।वैरमासज्जते बालस्तप्यते शल्मलिर्यथा ॥ २६ ॥
तस्माद्वैरं न कुर्वीत दुर्बलो बलवत्तरैः ।शोचेद्धि वैरं कुर्वाणो यथा वै शल्मलिस्तथा ॥ २७ ॥
न हि वैरं महात्मानो विवृण्वन्त्यपकारिषु ।शनैः शनैर्महाराज दर्शयन्ति स्म ते बलम् ॥ २८ ॥
वैरं न कुर्वीत नरो दुर्बुद्धिर्बुद्धिजीविना ।बुद्धिर्बुद्धिमतो याति तूलेष्विव हुताशनः ॥ २९ ॥
न हि बुद्ध्या समं किंचिद्विद्यते पुरुषे नृप ।तथा बलेन राजेन्द्र न समोऽस्तीति चिन्तयेत् ॥ ३० ॥
तस्मात्क्षमेत बालाय जडाय बधिराय च ।बलाधिकाय राजेन्द्र तद्दृष्टं त्वयि शत्रुहन् ॥ ३१ ॥
अक्षौहिण्यो दशैका च सप्त चैव महाद्युते ।बलेन न समा राजन्नर्जुनस्य महात्मनः ॥ ३२ ॥
हतास्ताश्चैव भग्नाश्च पाण्डवेन यशस्विना ।चरता बलमास्थाय पाकशासनिना मृधे ॥ ३३ ॥
उक्तास्ते राजधर्माश्च आपद्धर्माश्च भारत ।विस्तरेण महाराज किं भूयः प्रब्रवीमि ते ॥ ३४ ॥
« »