Click on words to see what they mean.

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।संवादं भरतश्रेष्ठ शल्मलेः पवनस्य च ॥ १ ॥
हिमवन्तं समासाद्य महानासीद्वनस्पतिः ।वर्षपूगाभिसंवृद्धः शाखास्कन्धपलाशवान् ॥ २ ॥
तत्र स्म मत्ता मातङ्गा धर्मार्ताः श्रमकर्शिताः ।विश्रमन्ति महाबाहो तथान्या मृगजातयः ॥ ३ ॥
नल्वमात्रपरीणाहो घनच्छायो वनस्पतिः ।शुकशारिकसंघुष्टः फलवान्पुष्पवानपि ॥ ४ ॥
सार्थिका वणिजश्चापि तापसाश्च वनौकसः ।वसन्ति वासान्मार्गस्थाः सुरम्ये तरुसत्तमे ॥ ५ ॥
तस्या ता विपुलाः शाखा दृष्ट्वा स्कन्धांश्च सर्वतः ।अभिगम्याब्रवीदेनं नारदो भरतर्षभ ॥ ६ ॥
अहो नु रमणीयस्त्वमहो चासि मनोरमः ।प्रीयामहे त्वया नित्यं तरुप्रवर शल्मले ॥ ७ ॥
सदैव शकुनास्तात मृगाश्चाधस्तथा गजाः ।वसन्ति तव संहृष्टा मनोहरतरास्तथा ॥ ८ ॥
तव शाखा महाशाख स्कन्धं च विपुलं तथा ।न वै प्रभग्नान्पश्यामि मारुतेन कथंचन ॥ ९ ॥
किं नु ते मारुतस्तात प्रीतिमानथ वा सुहृत् ।त्वां रक्षति सदा येन वनेऽस्मिन्पवनो ध्रुवम् ॥ १० ॥
विवान्हि पवनः स्थानाद्वृक्षानुच्चावचानपि ।पर्वतानां च शिखराण्याचालयति वेगवान् ॥ ११ ॥
शोषयत्येव पातालं विवान्गन्धवहः शुचिः ।ह्रदांश्च सरितश्चैव सागरांश्च तथैव ह ॥ १२ ॥
त्वां संरक्षेत पवनः सखित्वेन न संशयः ।तस्माद्बहलशाखोऽसि पर्णवान्पुष्पवानपि ॥ १३ ॥
इदं च रमणीयं ते प्रतिभाति वनस्पते ।यदिमे विहगास्तात रमन्ते मुदितास्त्वयि ॥ १४ ॥
एषां पृथक्समस्तानां श्रूयते मधुरः स्वरः ।पुष्पसंमोदने काले वाशतां सुमनोहरम् ॥ १५ ॥
तथेमे मुदिता नागाः स्वयूथकुलशोभिनः ।घर्मार्तास्त्वां समासाद्य सुखं विन्दन्ति शल्मले ॥ १६ ॥
तथैव मृगजातीभिरन्याभिरुपशोभसे ।तथा सार्थाधिवासैश्च शोभसे मेरुवद्द्रुम ॥ १७ ॥
ब्राह्मणैश्च तपःसिद्धैस्तापसैः श्रमणैरपि ।त्रिविष्टपसमं मन्ये तवायतनमेव ह ॥ १८ ॥
बन्धुत्वादथ वा सख्याच्छल्मले नात्र संशयः ।पालयत्येव सततं भीमः सर्वत्रगोऽनिलः ॥ १९ ॥
न्यग्भावं परमं वायोः शल्मले त्वमुपागतः ।तवाहमस्मीति सदा येन रक्षति मारुतः ॥ २० ॥
न तं पश्याम्यहं वृक्षं पर्वतं वापि तं दृढम् ।यो न वायुबलाद्भग्नः पृथिव्यामिति मे मतिः ॥ २१ ॥
त्वं पुनः कारणैर्नूनं शल्मले रक्ष्यसे सदा ।वायुना सपरीवारस्तेन तिष्ठस्यसंशयम् ॥ २२ ॥
शल्मलिरुवाच ।न मे वायुः सखा ब्रह्मन्न बन्धुर्न च मे सुहृत् ।परमेष्ठी तथा नैव येन रक्षति मानिलः ॥ २३ ॥
मम तेजोबलं वायोर्भीममपि हि नारद ।कलामष्टादशीं प्राणैर्न मे प्राप्नोति मारुतः ॥ २४ ॥
आगच्छन्परमो वायुर्मया विष्टम्भितो बलात् ।रुजन्द्रुमान्पर्वतांश्च यच्चान्यदपि किंचन ॥ २५ ॥
स मया बहुशो भग्नः प्रभञ्जन्वै प्रभञ्जनः ।तस्मान्न बिभ्ये देवर्षे क्रुद्धादपि समीरणात् ॥ २६ ॥
नारद उवाच ।शल्मले विपरीतं ते दर्शनं नात्र संशयः ।न हि वायोर्बलेनास्ति भूतं तुल्यबलं क्वचित् ॥ २७ ॥
इन्द्रो यमो वैश्रवणो वरुणश्च जलेश्वरः ।न तेऽपि तुल्या मरुतः किं पुनस्त्वं वनस्पते ॥ २८ ॥
यद्धि किंचिदिह प्राणि शल्मले चेष्टते भुवि ।सर्वत्र भगवान्वायुश्चेष्टाप्राणकरः प्रभुः ॥ २९ ॥
एष चेष्टयते सम्यक्प्राणिनः सम्यगायतः ।असम्यगायतो भूयश्चेष्टते विकृतो नृषु ॥ ३० ॥
स त्वमेवंविधं वायुं सर्वसत्त्वभृतां वरम् ।न पूजयसि पूज्यं तं किमन्यद्बुद्धिलाघवात् ॥ ३१ ॥
असारश्चासि दुर्बुद्धे केवलं बहु भाषसे ।क्रोधादिभिरवच्छन्नो मिथ्या वदसि शल्मले ॥ ३२ ॥
मम रोषः समुत्पन्नस्त्वय्येवं संप्रभाषति ।ब्रवीम्येष स्वयं वायोस्तव दुर्भाषितं बहु ॥ ३३ ॥
चन्दनैः स्पन्दनैः शालैः सरलैर्देवदारुभिः ।वेतसैर्बन्धनैश्चापि ये चान्ये बलवत्तराः ॥ ३४ ॥
तैश्चापि नैवं दुर्बुद्धे क्षिप्तो वायुः कृतात्मभिः ।ते हि जानन्ति वायोश्च बलमात्मन एव च ॥ ३५ ॥
तस्मात्ते वै नमस्यन्ति श्वसनं द्रुमसत्तमाः ।त्वं तु मोहान्न जानीषे वायोर्बलमनन्तकम् ॥ ३६ ॥
« »