Click on words to see what they mean.

युधिष्ठिर उवाच ।पापस्य यदधिष्ठानं यतः पापं प्रवर्तते ।एतदिच्छाम्यहं ज्ञातुं तत्त्वेन भरतर्षभ ॥ १ ॥
भीष्म उवाच ।पापस्य यदधिष्ठानं तच्छृणुष्व नराधिप ।एको लोभो महाग्राहो लोभात्पापं प्रवर्तते ॥ २ ॥
अतः पापमधर्मश्च तथा दुःखमनुत्तमम् ।निकृत्या मूलमेतद्धि येन पापकृतो जनाः ॥ ३ ॥
लोभात्क्रोधः प्रभवति लोभात्कामः प्रवर्तते ।लोभान्मोहश्च माया च मानस्तम्भः परासुता ॥ ४ ॥
अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसंक्षयः ।अभिध्याप्रज्ञता चैव सर्वं लोभात्प्रवर्तते ॥ ५ ॥
अन्यायश्चावितर्कश्च विकर्मसु च याः क्रियाः ।कूटविद्यादयश्चैव रूपैश्वर्यमदस्तथा ॥ ६ ॥
सर्वभूतेष्वविश्वासः सर्वभूतेष्वनार्जवम् ।सर्वभूतेष्वभिद्रोहः सर्वभूतेष्वयुक्तता ।हरणं परवित्तानां परदाराभिमर्शनम् ॥ ७ ॥
वाग्वेगो मानसो वेगो निन्दावेगस्तथैव च ।उपस्थोदरयोर्वेगो मृत्युवेगश्च दारुणः ॥ ८ ॥
ईर्ष्यावेगश्च बलवान्मिथ्यावेगश्च दुस्त्यजः ।रसवेगश्च दुर्वारः श्रोत्रवेगश्च दुःसहः ॥ ९ ॥
कुत्सा विकत्था मात्सर्यं पापं दुष्करकारिता ।साहसानां च सर्वेषामकार्याणां क्रियास्तथा ॥ १० ॥
जातौ बाल्येऽथ कौमारे यौवने चापि मानवः ।न संत्यजत्यात्मकर्म यन्न जीर्यति जीर्यतः ॥ ११ ॥
यो न पूरयितुं शक्यो लोभः प्राप्त्या कुरूद्वह ।नित्यं गम्भीरतोयाभिरापगाभिरिवोदधिः ।न प्रहृष्यति लाभैर्यो यश्च कामैर्न तृप्यति ॥ १२ ॥
यो न देवैर्न गन्धर्वैर्नासुरैर्न महोरगैः ।ज्ञायते नृप तत्त्वेन सर्वैर्भूतगणैस्तथा ।स लोभः सह मोहेन विजेतव्यो जितात्मना ॥ १३ ॥
दम्भो द्रोहश्च निन्दा च पैशुन्यं मत्सरस्तथा ।भवन्त्येतानि कौरव्य लुब्धानामकृतात्मनाम् ॥ १४ ॥
सुमहान्त्यपि शास्त्राणि धारयन्ति बहुश्रुताः ।छेत्तारः संशयानां च क्लिश्यन्तीहाल्पबुद्धयः ॥ १५ ॥
द्वेषक्रोधप्रसक्ताश्च शिष्टाचारबहिष्कृताः ।अन्तःक्षुरा वाङ्मधुराः कूपाश्छन्नास्तृणैरिव ।धर्मवैतंसिकाः क्षुद्रा मुष्णन्ति ध्वजिनो जगत् ॥ १६ ॥
कुर्वते च बहून्मार्गांस्तांस्तान्हेतुबलाश्रिताः ।सर्वं मार्गं विलुम्पन्ति लोभाज्ञानेषु निष्ठिताः ॥ १७ ॥
धर्मस्याह्रियमाणस्य लोभग्रस्तैर्दुरात्मभिः ।या या विक्रियते संस्था ततः साभिप्रपद्यते ॥ १८ ॥
दर्पः क्रोधो मदः स्वप्नो हर्षः शोकोऽतिमानिता ।तत एव हि कौरव्य दृश्यन्ते लुब्धबुद्धिषु ।एतानशिष्टान्बुध्यस्व नित्यं लोभसमन्वितान् ॥ १९ ॥
शिष्टांस्तु परिपृच्छेथा यान्वक्ष्यामि शुचिव्रतान् ।येषु वृत्तिभयं नास्ति परलोकभयं न च ॥ २० ॥
नामिषेषु प्रसङ्गोऽस्ति न प्रियेष्वप्रियेषु च ।शिष्टाचारः प्रियो येषु दमो येषु प्रतिष्ठितः ॥ २१ ॥
सुखं दुःखं परं येषां सत्यं येषां परायणम् ।दातारो न गृहीतारो दयावन्तस्तथैव च ॥ २२ ॥
पितृदेवातिथेयाश्च नित्योद्युक्तास्तथैव च ।सर्वोपकारिणो धीराः सर्वधर्मानुपालकाः ॥ २३ ॥
सर्वभूतहिताश्चैव सर्वदेयाश्च भारत ।न ते चालयितुं शक्या धर्मव्यापारपारगाः ॥ २४ ॥
न तेषां भिद्यते वृत्तं यत्पुरा साधुभिः कृतम् ।न त्रासिनो न चपला न रौद्राः सत्पथे स्थिताः ॥ २५ ॥
ते सेव्याः साधुभिर्नित्यं येष्वहिंसा प्रतिष्ठिता ।कामक्रोधव्यपेता ये निर्ममा निरहंकृताः ।सुव्रताः स्थिरमर्यादास्तानुपास्स्व च पृच्छ च ॥ २६ ॥
न गवार्थं यशोर्थं वा धर्मस्तेषां युधिष्ठिर ।अवश्यकार्य इत्येव शरीरस्य क्रियास्तथा ॥ २७ ॥
न भयं क्रोधचापल्यं न शोकस्तेषु विद्यते ।न धर्मध्वजिनश्चैव न गुह्यं किंचिदास्थिताः ॥ २८ ॥
येष्वलोभस्तथामोहो ये च सत्यार्जवे रताः ।तेषु कौन्तेय रज्येथा येष्वतन्द्रीकृतं मनः ॥ २९ ॥
ये न हृष्यन्ति लाभेषु नालाभेषु व्यथन्ति च ।निर्ममा निरहंकाराः सत्त्वस्थाः समदर्शिनः ॥ ३० ॥
लाभालाभौ सुखदुःखे च तात प्रियाप्रिये मरणं जीवितं च ।समानि येषां स्थिरविक्रमाणां बुद्धात्मनां सत्त्वमवस्थितानाम् ॥ ३१ ॥
सुखप्रियैस्तान्सुमहाप्रतापान्यत्तोऽप्रमत्तश्च समर्थयेथाः ।दैवात्सर्वे गुणवन्तो भवन्ति शुभाशुभा वाक्प्रलापा यथैव ॥ ३२ ॥
« »