Click on words to see what they mean.

भीष्म उवाच ।शृणु पार्थ यथावृत्तमितिहासं पुरातनम् ।गृध्रजम्बुकसंवादं यो वृत्तो वैदिशे पुरा ॥ १ ॥
दुःखिताः केचिदादाय बालमप्राप्तयौवनम् ।कुलसर्वस्वभूतं वै रुदन्तः शोकविह्वलाः ॥ २ ॥
बालं मृतं गृहीत्वाथ श्मशानाभिमुखाः स्थिताः ।अङ्केनाङ्कं च संक्रम्य रुरुदुर्भूतले तदा ॥ ३ ॥
तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत् ।एकात्मकमिमं लोके त्यक्त्वा गच्छत माचिरम् ॥ ४ ॥
इह पुंसां सहस्राणि स्त्रीसहस्राणि चैव हि ।समानीतानि कालेन किं ते वै जात्वबान्धवाः ॥ ५ ॥
संपश्यत जगत्सर्वं सुखदुःखैरधिष्ठितम् ।संयोगो विप्रयोगश्च पर्यायेणोपलभ्यते ॥ ६ ॥
गृहीत्वा ये च गच्छन्ति येऽनुयान्ति च तान्मृतान् ।तेऽप्यायुषः प्रमाणेन स्वेन गच्छन्ति जन्तवः ॥ ७ ॥
अलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमायुसंकुले ।कङ्कालबहुले घोरे सर्वप्राणिभयंकरे ॥ ८ ॥
न पुनर्जीवितः कश्चित्कालधर्ममुपागतः ।प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ॥ ९ ॥
सर्वेण खलु मर्तव्यं मर्त्यलोके प्रसूयता ।कृतान्तविहिते मार्गे को मृतं जीवयिष्यति ॥ १० ॥
कर्मान्तविहिते लोके चास्तं गच्छति भास्करे ।गम्यतां स्वमधिष्ठानं सुतस्नेहं विसृज्य वै ॥ ११ ॥
ततो गृध्रवचः श्रुत्वा विक्रोशन्तस्तदा नृप ।बान्धवास्तेऽभ्यगच्छन्त पुत्रमुत्सृज्य भूतले ॥ १२ ॥
विनिश्चित्याथ च ततः संत्यजन्तः स्वमात्मजम् ।निराशा जीविते तस्य मार्गमारुह्य धिष्ठिताः ॥ १३ ॥
ध्वाङ्क्षाभ्रसमवर्णस्तु बिलान्निःसृत्य जम्बुकः ।गच्छमानान्स्म तानाह निर्घृणाः खलु मानवाः ॥ १४ ॥
आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत मा भयम् ।बहुरूपो मुहूर्तश्च जीवेतापि कदाचन ॥ १५ ॥
यूयं भूमौ विनिक्षिप्य पुत्रस्नेहविनाकृताः ।श्मशाने पुत्रमुत्सृज्य कस्माद्गच्छथ निर्घृणाः ॥ १६ ॥
न वोऽस्त्यस्मिन्सुते स्नेहो बाले मधुरभाषिणि ।यस्य भाषितमात्रेण प्रसादमुपगच्छथ ॥ १७ ॥
न पश्यथ सुतस्नेहं यादृशः पशुपक्षिणाम् ।न येषां धारयित्वा तान्कश्चिदस्ति फलागमः ॥ १८ ॥
चतुष्पात्पक्षिकीटानां प्राणिनां स्नेहसङ्गिनाम् ।परलोकगतिस्थानां मुनियज्ञक्रिया इव ॥ १९ ॥
तेषां पुत्राभिरामाणामिह लोके परत्र च ।न गुणो दृश्यते कश्चित्प्रजाः संधारयन्ति च ॥ २० ॥
अपश्यतां प्रियान्पुत्रान्नैषां शोकोऽनुतिष्ठति ।न च पुष्णन्ति संवृद्धास्ते मातापितरौ क्वचित् ॥ २१ ॥
मानुषाणां कुतः स्नेहो येषां शोको भविष्यति ।इमं कुलकरं पुत्रं कथं त्यक्त्वा गमिष्यथ ॥ २२ ॥
चिरं मुञ्चत बाष्पं च चिरं स्नेहेन पश्यत ।एवंविधानि हीष्टानि दुस्त्यजानि विशेषतः ॥ २३ ॥
क्षीणस्याथाभियुक्तस्य श्मशानाभिमुखस्य च ।बान्धवा यत्र तिष्ठन्ति तत्रान्यो नावतिष्ठते ॥ २४ ॥
सर्वस्य दयिताः प्राणाः सर्वः स्नेहं च विन्दति ।तिर्यग्योनिष्वपि सतां स्नेहं पश्यत यादृशम् ॥ २५ ॥
त्यक्त्वा कथं गच्छेथेमं पद्मलोलायताक्षकम् ।यथा नवोद्वाहकृतं स्नानमाल्यविभूषितम् ॥ २६ ॥
भीष्म उवाच ।जम्बुकस्य वचः श्रुत्वा कृपणं परिदेवतः ।न्यवर्तन्त तदा सर्वे शवार्थं ते स्म मानुषाः ॥ २७ ॥
गृध्र उवाच ।अहो धिक्सुनृशंसेन जम्बुकेनाल्पमेधसा ।क्षुद्रेणोक्ता हीनसत्त्वा मानुषाः किं निवर्तथ ॥ २८ ॥
पञ्चभूतपरित्यक्तं शून्यं काष्ठत्वमागतम् ।कस्माच्छोचथ निश्चेष्टमात्मानं किं न शोचथ ॥ २९ ॥
तपः कुरुत वै तीव्रं मुच्यध्वं येन किल्बिषात् ।तपसा लभ्यते सर्वं विलापः किं करिष्यति ॥ ३० ॥
अनिष्टानि च भाग्यानि जानीत सह मूर्तिभिः ।येन गच्छति लोकोऽयं दत्त्वा शोकमनन्तकम् ॥ ३१ ॥
धनं गाश्च सुवर्णं च मणिरत्नमथापि च ।अपत्यं च तपोमूलं तपोयोगाच्च लभ्यते ॥ ३२ ॥
यथाकृता च भूतेषु प्राप्यते सुखदुःखता ।गृहीत्वा जायते जन्तुर्दुःखानि च सुखानि च ॥ ३३ ॥
न कर्मणा पितुः पुत्रः पिता वा पुत्रकर्मणा ।मार्गेणान्येन गच्छन्ति त्यक्त्वा सुकृतदुष्कृते ॥ ३४ ॥
धर्मं चरत यत्नेन तथाधर्मान्निवर्तत ।वर्तध्वं च यथाकालं दैवतेषु द्विजेषु च ॥ ३५ ॥
शोकं त्यजत दैन्यं च सुतस्नेहान्निवर्तत ।त्यज्यतामयमाकाशे ततः शीघ्रं निवर्तत ॥ ३६ ॥
यत्करोति शुभं कर्म तथाधर्मं सुदारुणम् ।तत्कर्तैव समश्नाति बान्धवानां किमत्र हि ॥ ३७ ॥
इह त्यक्त्वा न तिष्ठन्ति बान्धवा बान्धवं प्रियम् ।स्नेहमुत्सृज्य गच्छन्ति बाष्पपूर्णाविलेक्षणाः ॥ ३८ ॥
प्राज्ञो वा यदि वा मूर्खः सधनो निर्धनोऽपि वा ।सर्वः कालवशं याति शुभाशुभसमन्वितः ॥ ३९ ॥
किं करिष्यथ शोचित्वा मृतं किमनुशोचथ ।सर्वस्य हि प्रभुः कालो धर्मतः समदर्शनः ॥ ४० ॥
यौवनस्थांश्च बालांश्च वृद्धान्गर्भगतानपि ।सर्वानाविशते मृत्युरेवंभूतमिदं जगत् ॥ ४१ ॥
जम्बुक उवाच ।अहो मन्दीकृतः स्नेहो गृध्रेणेहाल्पमेधसा ।पुत्रस्नेहाभिभूतानां युष्माकं शोचतां भृशम् ॥ ४२ ॥
समैः सम्यक्प्रयुक्तैश्च वचनैः प्रश्रयोत्तरैः ।यद्गच्छथ जलस्थायं स्नेहमुत्सृज्य दुस्त्यजम् ॥ ४३ ॥
अहो पुत्रवियोगेन मृतशून्योपसेवनात् ।क्रोशतां वै भृशं दुःखं विवत्सानां गवामिव ॥ ४४ ॥
अद्य शोकं विजानामि मानुषाणां महीतले ।स्नेहं हि करुणं दृष्ट्वा ममाप्यश्रूण्यथागमन् ॥ ४५ ॥
यत्नो हि सततं कार्यः कृतो दैवेन सिध्यति ।दैवं पुरुषकारश्च कृतान्तेनोपपद्यते ॥ ४६ ॥
अनिर्वेदः सदा कार्यो निर्वेदाद्धि कुतः सुखम् ।प्रयत्नात्प्राप्यते ह्यर्थः कस्माद्गच्छथ निर्दयाः ॥ ४७ ॥
आत्ममांसोपवृत्तं च शरीरार्धमयीं तनुम् ।पितॄणां वंशकर्तारं वने त्यक्त्वा क्व यास्यथ ॥ ४८ ॥
अथ वास्तं गते सूर्ये संध्याकाल उपस्थिते ।ततो नेष्यथ वा पुत्रमिहस्था वा भविष्यथ ॥ ४९ ॥
गृध्र उवाच ।अद्य वर्षसहस्रं मे साग्रं जातस्य मानुषाः ।न च पश्यामि जीवन्तं मृतं स्त्रीपुंनपुंसकम् ॥ ५० ॥
मृता गर्भेषु जायन्ते म्रियन्ते जातमात्रकाः ।विक्रमन्तो म्रियन्ते च यौवनस्थास्तथापरे ॥ ५१ ॥
अनित्यानीह भाग्यानि चतुष्पात्पक्षिणामपि ।जङ्गमाजङ्गमानां चाप्यायुरग्रेऽवतिष्ठते ॥ ५२ ॥
इष्टदारवियुक्ताश्च पुत्रशोकान्वितास्तथा ।दह्यमानाः स्म शोकेन गृहं गच्छन्ति नित्यदा ॥ ५३ ॥
अनिष्टानां सहस्राणि तथेष्टानां शतानि च ।उत्सृज्येह प्रयाता वै बान्धवा भृशदुःखिताः ॥ ५४ ॥
त्यज्यतामेष निस्तेजाः शून्यः काष्ठत्वमागतः ।अन्यदेहविषक्तो हि शावं काष्ठमुपासते ॥ ५५ ॥
भ्रान्तजीवस्य वै बाष्पं कस्माद्धित्वा न गच्छथ ।निरर्थको ह्ययं स्नेहो निरर्थश्च परिग्रहः ॥ ५६ ॥
न चक्षुर्भ्यां न कर्णाभ्यां संशृणोति समीक्षते ।तस्मादेनं समुत्सृज्य स्वगृहान्गच्छताशु वै ॥ ५७ ॥
मोक्षधर्माश्रितैर्वाक्यैर्हेतुमद्भिरनिष्ठुरैः ।मयोक्ता गच्छत क्षिप्रं स्वं स्वमेव निवेशनम् ॥ ५८ ॥
प्रज्ञाविज्ञानयुक्तेन बुद्धिसंज्ञाप्रदायिना ।वचनं श्राविता रूक्षं मानुषाः संनिवर्तत ॥ ५९ ॥
जम्बुक उवाच ।इमं कनकवर्णाभं भूषणैः समलंकृतम् ।गृध्रवाक्यात्कथं पुत्रं त्यजध्वं पितृपिण्डदम् ॥ ६० ॥
न स्नेहस्य विरोधोऽस्ति विलापरुदितस्य वै ।मृतस्यास्य परित्यागात्तापो वै भविता ध्रुवम् ॥ ६१ ॥
श्रूयते शम्बुके शूद्रे हते ब्राह्मणदारकः ।जीवितो धर्ममासाद्य रामात्सत्यपराक्रमात् ॥ ६२ ॥
तथा श्वेतस्य राजर्षेर्बालो दिष्टान्तमागतः ।श्वोऽभूते धर्मनित्येन मृतः संजीवितः पुनः ॥ ६३ ॥
तथा कश्चिद्भवेत्सिद्धो मुनिर्वा देवतापि वा ।कृपणानामनुक्रोशं कुर्याद्वो रुदतामिह ॥ ६४ ॥
भीष्म उवाच ।इत्युक्ताः संन्यवर्तन्त शोकार्ताः पुत्रवत्सलाः ।अङ्के शिरः समाधाय रुरुदुर्बहुविस्तरम् ॥ ६५ ॥
गृध्र उवाच ।अश्रुपातपरिक्लिन्नः पाणिस्पर्शनपीडितः ।धर्मराजप्रयोगाच्च दीर्घां निद्रां प्रवेशितः ॥ ६६ ॥
तपसापि हि संयुक्तो न काले नोपहन्यते ।सर्वस्नेहावसानं तदिदं तत्प्रेतपत्तनम् ॥ ६७ ॥
बालवृद्धसहस्राणि सदा संत्यज्य बान्धवाः ।दिनानि चैव रात्रीश्च दुःखं तिष्ठन्ति भूतले ॥ ६८ ॥
अलं निर्बन्धमागम्य शोकस्य परिवारणम् ।अप्रत्ययं कुतो ह्यस्य पुनरद्येह जीवितम् ॥ ६९ ॥
नैष जम्बुकवाक्येन पुनः प्राप्स्यति जीवितम् ।मृतस्योत्सृष्टदेहस्य पुनर्देहो न विद्यते ॥ ७० ॥
न वै मूर्तिप्रदानेन न जम्बुकशतैरपि ।शक्यो जीवयितुं ह्येष बालो वर्षशतैरपि ॥ ७१ ॥
अपि रुद्रः कुमारो वा ब्रह्मा वा विष्णुरेव वा ।वरमस्मै प्रयच्छेयुस्ततो जीवेदयं शिशुः ॥ ७२ ॥
न च बाष्पविमोक्षेण न चाश्वासकृतेन वै ।न दीर्घरुदितेनेह पुनर्जीवो भविष्यति ॥ ७३ ॥
अहं च क्रोष्टुकश्चैव यूयं चैवास्य बान्धवाः ।धर्माधर्मौ गृहीत्वेह सर्वे वर्तामहेऽध्वनि ॥ ७४ ॥
अप्रियं परुषं चापि परद्रोहं परस्त्रियम् ।अधर्ममनृतं चैव दूरात्प्राज्ञो निवर्तयेत् ॥ ७५ ॥
सत्यं धर्मं शुभं न्याय्यं प्राणिनां महतीं दयाम् ।अजिह्मत्वमशाठ्यं च यत्नतः परिमार्गत ॥ ७६ ॥
मातरं पितरं चैव बान्धवान्सुहृदस्तथा ।जीवतो ये न पश्यन्ति तेषां धर्मविपर्ययः ॥ ७७ ॥
यो न पश्यति चक्षुर्भ्यां नेङ्गते च कथंचन ।तस्य निष्ठावसानान्ते रुदन्तः किं करिष्यथ ॥ ७८ ॥
भीष्म उवाच ।इत्युक्तास्तं सुतं त्यक्त्वा भूमौ शोकपरिप्लुताः ।दह्यमानाः सुतस्नेहात्प्रययुर्बान्धवा गृहान् ॥ ७९ ॥
जम्बुक उवाच ।दारुणो मर्त्यलोकोऽयं सर्वप्राणिविनाशनः ।इष्टबन्धुवियोगश्च तथैवाल्पं च जीवितम् ॥ ८० ॥
बह्वलीकमसत्यं च प्रतिवादाप्रियंवदम् ।इमं प्रेक्ष्य पुनर्भावं दुःखशोकाभिवर्धनम् ॥ ८१ ॥
न मे मानुषलोकोऽयं मुहूर्तमपि रोचते ।अहो धिग्गृध्रवाक्येन संनिवर्तथ मानुषाः ॥ ८२ ॥
प्रदीप्ताः पुत्रशोकेन यथैवाबुद्धयस्तथा ।कथं गच्छथ सस्नेहाः सुतस्नेहं विसृज्य च ।श्रुत्वा गृध्रस्य वचनं पापस्येहाकृतात्मनः ॥ ८३ ॥
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।सुखदुःखान्विते लोके नेहास्त्येकमनन्तकम् ॥ ८४ ॥
इमं क्षितितले न्यस्य बालं रूपसमन्वितम् ।कुलशोकाकरं मूढाः पुत्रं त्यक्त्वा क्व यास्यथ ॥ ८५ ॥
रूपयौवनसंपन्नं द्योतमानमिव श्रिया ।जीवन्तमेनं पश्यामि मनसा नात्र संशयः ॥ ८६ ॥
विनाशश्चाप्यनर्होऽस्य सुखं प्राप्स्यथ मानुषाः ।पुत्रशोकाग्निदग्धानां मृतमप्यद्य वः क्षमम् ॥ ८७ ॥
दुःखसंभावनां कृत्वा धारयित्वा स्वयं सुखम् ।त्यक्त्वा गमिष्यथ क्वाद्य समुत्सृज्याल्पबुद्धिवत् ॥ ८८ ॥
भीष्म उवाच ।तथा धर्मविरोधेन प्रियमिथ्याभिध्यायिना ।श्मशानवासिना नित्यं रात्रिं मृगयता तदा ॥ ८९ ॥
ततो मध्यस्थतां नीता वचनैरमृतोपमैः ।जम्बुकेन स्वकार्यार्थं बान्धवास्तस्य धिष्ठिताः ॥ ९० ॥
गृध्र उवाच ।अयं प्रेतसमाकीर्णो यक्षराक्षससेवितः ।दारुणः काननोद्देशः कौशिकैरभिनादितः ॥ ९१ ॥
भीमः सुघोरश्च तथा नीलमेघसमप्रभः ।अस्मिञ्शवं परित्यज्य प्रेतकार्याण्युपासत ॥ ९२ ॥
भानुर्यावन्न यात्यस्तं यावच्च विमला दिशः ।तावदेनं परित्यज्य प्रेतकार्याण्युपासत ॥ ९३ ॥
नदन्ति परुषं श्येनाः शिवाः क्रोशन्ति दारुणाः ।मृगेन्द्राः प्रतिनन्दन्ति रविरस्तं च गच्छति ॥ ९४ ॥
चिताधूमेन नीलेन संरज्यन्ते च पादपाः ।श्मशाने च निराहाराः प्रतिनन्दन्ति देहिनः ॥ ९५ ॥
सर्वे विक्रान्तवीर्याश्च अस्मिन्देशे सुदारुणाः ।युष्मान्प्रधर्षयिष्यन्ति विकृता मांसभोजनाः ॥ ९६ ॥
दूराच्चायं वनोद्देशो भयमत्र भविष्यति ।त्यज्यतां काष्ठभूतोऽयं मृष्यतां जाम्बुकं वचः ॥ ९७ ॥
यदि जम्बुकवाक्यानि निष्फलान्यनृतानि च ।श्रोष्यथ भ्रष्टविज्ञानास्ततः सर्वे विनङ्क्ष्यथ ॥ ९८ ॥
जम्बुक उवाच ।स्थीयतां नेह भेतव्यं यावत्तपति भास्करः ।तावदस्मिन्सुतस्नेहादनिर्वेदेन वर्तत ॥ ९९ ॥
स्वैरं रुदत विस्रब्धाः स्वैरं स्नेहेन पश्यत ।स्थीयतां यावदादित्यः किं वः क्रव्यादभाषितैः ॥ १०० ॥
यदि गृध्रस्य वाक्यानि तीव्राणि रभसानि च ।गृह्णीत मोहितात्मानः सुतो वो न भविष्यति ॥ १०१ ॥
भीष्म उवाच ।गृध्रोऽनस्तमिते त्वाह गतेऽस्तमिति जम्बुकः ।मृतस्य तं परिजनमूचतुस्तौ क्षुधान्वितौ ॥ १०२ ॥
स्वकार्यदक्षिणौ राजन्गृध्रो जम्बुक एव च ।क्षुत्पिपासापरिश्रान्तौ शास्त्रमालम्ब्य जल्पतः ॥ १०३ ॥
तयोर्विज्ञानविदुषोर्द्वयोर्जम्बुकपत्रिणोः ।वाक्यैरमृतकल्पैर्हि प्रातिष्ठन्त व्रजन्ति च ॥ १०४ ॥
शोकदैन्यसमाविष्टा रुदन्तस्तस्थिरे तदा ।स्वकार्यकुशलाभ्यां ते संभ्राम्यन्ते ह नैपुणात् ॥ १०५ ॥
तथा तयोर्विवदतोर्विज्ञानविदुषोर्द्वयोः ।बान्धवानां स्थितानां च उपातिष्ठत शंकरः ॥ १०६ ॥
ततस्तानाह मनुजान्वरदोऽस्मीति शूलभृत् ।ते प्रत्यूचुरिदं वाक्यं दुःखिताः प्रणताः स्थिताः ॥ १०७ ॥
एकपुत्रविहीनानां सर्वेषां जीवितार्थिनाम् ।पुत्रस्य नो जीवदानाज्जीवितं दातुमर्हसि ॥ १०८ ॥
एवमुक्तः स भगवान्वारिपूर्णेन पाणिना ।जीवं तस्मै कुमाराय प्रादाद्वर्षशताय वै ॥ १०९ ॥
तथा गोमायुगृध्राभ्यामददत्क्षुद्विनाशनम् ।वरं पिनाकी भगवान्सर्वभूतहिते रतः ॥ ११० ॥
ततः प्रणम्य तं देवं श्रेयोहर्षसमन्विताः ।कृतकृत्याः सुखं हृष्टाः प्रातिष्ठन्त तदा विभो ॥ १११ ॥
अनिर्वेदेन दीर्घेण निश्चयेन ध्रुवेण च ।देवदेवप्रसादाच्च क्षिप्रं फलमवाप्यते ॥ ११२ ॥
पश्य देवस्य संयोगं बान्धवानां च निश्चयम् ।कृपणानां हि रुदतां कृतमश्रुप्रमार्जनम् ॥ ११३ ॥
पश्य चाल्पेन कालेन निश्चयान्वेषणेन च ।प्रसादं शंकरात्प्राप्य दुःखिताः सुखमाप्नुवन् ॥ ११४ ॥
ते विस्मिताः प्रहृष्टाश्च पुत्रसंजीवनात्पुनः ।बभूवुर्भरतश्रेष्ठ प्रसादाच्छंकरस्य वै ॥ ११५ ॥
ततस्ते त्वरिता राजञ्श्रुत्वा शोकमघोद्भवम् ।विविशुः पुत्रमादाय नगरं हृष्टमानसाः ।एषा बुद्धिः समस्तानां चातुर्वर्ण्ये निदर्शिता ॥ ११६ ॥
धर्मार्थमोक्षसंयुक्तमितिहासमिमं शुभम् ।श्रुत्वा मनुष्यः सततमिह प्रेत्य च मोदते ॥ ११७ ॥
« »