Click on words to see what they mean.

युधिष्ठिर उवाच ।यदिदं घोरमुद्दिष्टमश्रद्धेयमिवानृतम् ।अस्ति स्विद्दस्युमर्यादा यामहं परिवर्जये ॥ १ ॥
संमुह्यामि विषीदामि धर्मो मे शिथिलीकृतः ।उद्यमं नाधिगच्छामि कुतश्चित्परिचिन्तयन् ॥ २ ॥
भीष्म उवाच ।नैतच्छुद्धागमादेव तव धर्मानुशासनम् ।प्रज्ञासमवतारोऽयं कविभिः संभृतं मधु ॥ ३ ॥
बह्व्यः प्रतिविधातव्याः प्रज्ञा राज्ञा ततस्ततः ।नैकशाखेन धर्मेण यात्रैषा संप्रवर्तते ॥ ४ ॥
बुद्धिसंजननं राज्ञां धर्ममाचरतां सदा ।जयो भवति कौरव्य तदा तद्विद्धि मे वचः ॥ ५ ॥
बुद्धिश्रेष्ठा हि राजानो जयन्ति विजयैषिणः ।धर्मः प्रतिविधातव्यो बुद्ध्या राज्ञा ततस्ततः ॥ ६ ॥
नैकशाखेन धर्मेण राज्ञां धर्मो विधीयते ।दुर्बलस्य कुतः प्रज्ञा पुरस्तादनुदाहृता ॥ ७ ॥
अद्वैधज्ञः पथि द्वैधे संशयं प्राप्तुमर्हति ।बुद्धिद्वैधं वेदितव्यं पुरस्तादेव भारत ॥ ८ ॥
पार्श्वतःकरणं प्रज्ञा विषूची त्वापगा इव ।जनस्तूच्चारितं धर्मं विजानात्यन्यथान्यथा ॥ ९ ॥
सम्यग्विज्ञानिनः केचिन्मिथ्याविज्ञानिनोऽपरे ।तद्वै यथातथं बुद्ध्वा ज्ञानमाददते सताम् ॥ १० ॥
परिमुष्णन्ति शास्त्राणि धर्मस्य परिपन्थिनः ।वैषम्यमर्थविद्यानां नैरर्थ्यात्ख्यापयन्ति ते ॥ ११ ॥
आजिजीविषवो विद्यां यशस्कामाः समन्ततः ।ते सर्वे नरपापिष्ठा धर्मस्य परिपन्थिनः ॥ १२ ॥
अपक्वमतयो मन्दा न जानन्ति यथातथम् ।सदा ह्यशास्त्रकुशलाः सर्वत्रापरिनिष्ठिताः ॥ १३ ॥
परिमुष्णन्ति शास्त्राणि शास्त्रदोषानुदर्शिनः ।विज्ञानमथ विद्यानां न सम्यगिति वर्तते ॥ १४ ॥
निन्दया परविद्यानां स्वां विद्यां ख्यापयन्ति ये ।वागस्त्रा वाक्छुरीमत्त्वा दुग्धविद्याफला इव ।तान्विद्यावणिजो विद्धि राक्षसानिव भारत ॥ १५ ॥
व्याजेन कृत्स्नो विदितो धर्मस्ते परिहास्यते ।न धर्मवचनं वाचा न बुद्ध्या चेति नः श्रुतम् ॥ १६ ॥
इति बार्हस्पतं ज्ञानं प्रोवाच मघवा स्वयम् ।न त्वेव वचनं किंचिदनिमित्तादिहोच्यते ॥ १७ ॥
स्वविनीतेन शास्त्रेण व्यवस्यन्ति तथापरे ।लोकयात्रामिहैके तु धर्ममाहुर्मनीषिणः ॥ १८ ॥
समुद्दिष्टं सतां धर्मं स्वयमूहेन्न पण्डितः ।अमर्षाच्छास्त्रसंमोहादविज्ञानाच्च भारत ॥ १९ ॥
शास्त्रं प्राज्ञस्य वदतः समूहे यात्यदर्शनम् ।आगतागमया बुद्ध्या वचनेन प्रशस्यते ॥ २० ॥
अज्ञानाज्ज्ञानहेतुत्वाद्वचनं साधु मन्यते ।अनपाहतमेवेदं नेदं शास्त्रमपार्थकम् ॥ २१ ॥
दैतेयानुशनाः प्राह संशयच्छेदने पुरा ।ज्ञानमव्यपदेश्यं हि यथा नास्ति तथैव तत् ॥ २२ ॥
तेन त्वं छिन्नमूलेन कं तोषयितुमर्हसि ।अतथ्यविहितं यो वा नेदं वाक्यमुपाश्नुयात् ॥ २३ ॥
उग्रायैव हि सृष्टोऽसि कर्मणे न त्ववेक्षसे ।अङ्गेमामन्ववेक्षस्व राजनीतिं बुभूषितुम् ।यया प्रमुच्यते त्वन्यो यदर्थं च प्रमोदते ॥ २४ ॥
अजोऽश्वः क्षत्रमित्येतत्सदृशं ब्रह्मणा कृतम् ।तस्मान्नतीक्ष्णभूतानां यात्रा काचित्प्रसिध्यति ॥ २५ ॥
यस्त्ववध्यवधे दोषः स वध्यस्यावधे स्मृतः ।एषैव खलु मर्यादा यामयं परिवर्जयेत् ॥ २६ ॥
तस्मात्तीक्ष्णः प्रजा राजा स्वधर्मे स्थापयेदुत ।अन्योन्यं भक्षयन्तो हि प्रचरेयुर्वृका इव ॥ २७ ॥
यस्य दस्युगणा राष्ट्रे ध्वाङ्क्षा मत्स्याञ्जलादिव ।विहरन्ति परस्वानि स वै क्षत्रियपांसनः ॥ २८ ॥
कुलीनान्सचिवान्कृत्वा वेदविद्यासमन्वितान् ।प्रशाधि पृथिवीं राजन्प्रजा धर्मेण पालयन् ॥ २९ ॥
विहीनजमकर्माणं यः प्रगृह्णाति भूमिपः ।उभयस्याविशेषज्ञस्तद्वै क्षत्रं नपुंसकम् ॥ ३० ॥
नैवोग्रं नैव चानुग्रं धर्मेणेह प्रशस्यते ।उभयं न व्यतिक्रामेदुग्रो भूत्वा मृदुर्भव ॥ ३१ ॥
कष्टः क्षत्रियधर्मोऽयं सौहृदं त्वयि यत्स्थितम् ।उग्रे कर्मणि सृष्टोऽसि तस्माद्राज्यं प्रशाधि वै ॥ ३२ ॥
अशिष्टनिग्रहो नित्यं शिष्टस्य परिपालनम् ।इति शक्रोऽब्रवीद्धीमानापत्सु भरतर्षभ ॥ ३३ ॥
युधिष्ठिर उवाच ।अस्ति स्विद्दस्युमर्यादा यामन्यो नातिलङ्घयेत् ।पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह ॥ ३४ ॥
भीष्म उवाच ।ब्राह्मणानेव सेवेत विद्यावृद्धांस्तपस्विनः ।श्रुतचारित्रवृत्ताढ्यान्पवित्रं ह्येतदुत्तमम् ॥ ३५ ॥
या देवतासु वृत्तिस्ते सास्तु विप्रेषु सर्वदा ।क्रुद्धैर्हि विप्रैः कर्माणि कृतानि बहुधा नृप ॥ ३६ ॥
तेषां प्रीत्या यशो मुख्यमप्रीत्या तु विपर्ययः ।प्रीत्या ह्यमृतवद्विप्राः क्रुद्धाश्चैव यथा विषम् ॥ ३७ ॥
« »