Click on words to see what they mean.

युधिष्ठिर उवाच ।हीने परमके धर्मे सर्वलोकातिलङ्घिनि ।अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते ॥ १ ॥
मर्यादासु प्रभिन्नासु क्षुभिते धर्मनिश्चये ।राजभिः पीडिते लोके चोरैर्वापि विशां पते ॥ २ ॥
सर्वाश्रमेषु मूढेषु कर्मसूपहतेषु च ।कामान्मोहाच्च लोभाच्च भयं पश्यत्सु भारत ॥ ३ ॥
अविश्वस्तेषु सर्वेषु नित्यभीतेषु पार्थिव ।निकृत्या हन्यमानेषु वञ्चयत्सु परस्परम् ॥ ४ ॥
संप्रदीप्तेषु देशेषु ब्राह्मण्ये चाभिपीडिते ।अवर्षति च पर्जन्ये मिथो भेदे समुत्थिते ॥ ५ ॥
सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने ।केन स्विद्ब्राह्मणो जीवेज्जघन्ये काल आगते ॥ ६ ॥
अतित्यक्षुः पुत्रपौत्राननुक्रोशान्नराधिप ।कथमापत्सु वर्तेत तन्मे ब्रूहि पितामह ॥ ७ ॥
कथं च राजा वर्तेत लोके कलुषतां गते ।कथमर्थाच्च धर्माच्च न हीयेत परंतप ॥ ८ ॥
भीष्म उवाच ।राजमूला महाराज योगक्षेमसुवृष्टयः ।प्रजासु व्याधयश्चैव मरणं च भयानि च ॥ ९ ॥
कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ ।राजमूलानि सर्वाणि मम नास्त्यत्र संशयः ॥ १० ॥
तस्मिंस्त्वभ्यागते काले प्रजानां दोषकारके ।विज्ञानबलमास्थाय जीवितव्यं तदा भवेत् ॥ ११ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।विश्वामित्रस्य संवादं चण्डालस्य च पक्कणे ॥ १२ ॥
त्रेताद्वापरयोः संधौ पुरा दैवविधिक्रमात् ।अनावृष्टिरभूद्घोरा राजन्द्वादशवार्षिकी ॥ १३ ॥
प्रजानामभिवृद्धानां युगान्ते पर्युपस्थिते ।त्रेतानिर्मोक्षसमये द्वापरप्रतिपादने ॥ १४ ॥
न ववर्ष सहस्राक्षः प्रतिलोमोऽभवद्गुरुः ।जगाम दक्षिणं मार्गं सोमो व्यावृत्तलक्षणः ॥ १५ ॥
नावश्यायोऽपि रात्र्यन्ते कुत एवाभ्रराजयः ।नद्यः संक्षिप्ततोयौघाः क्वचिदन्तर्गताभवन् ॥ १६ ॥
सरांसि सरितश्चैव कूपाः प्रस्रवणानि च ।हतत्विट्कान्यलक्ष्यन्त निसर्गाद्दैवकारितात् ॥ १७ ॥
उपशुष्कजलस्थाया विनिवृत्तसभाप्रपा ।निवृत्तयज्ञस्वाध्याया निर्वषट्कारमङ्गला ॥ १८ ॥
उत्सन्नकृषिगोरक्ष्या निवृत्तविपणापणा ।निवृत्तपूगसमया संप्रनष्टमहोत्सवा ॥ १९ ॥
अस्थिकङ्कालसंकीर्णा हाहाभूतजनाकुला ।शून्यभूयिष्ठनगरा दग्धग्रामनिवेशना ॥ २० ॥
क्वचिच्चोरैः क्वचिच्छस्त्रैः क्वचिद्राजभिरातुरैः ।परस्परभयाच्चैव शून्यभूयिष्ठनिर्जना ॥ २१ ॥
गतदैवतसंकल्पा वृद्धबालविनाकृता ।गोजाविमहिषैर्हीना परस्परहराहरा ॥ २२ ॥
हतविप्रा हतारक्षा प्रनष्टौषधिसंचया ।श्यावभूतनरप्राया बभूव वसुधा तदा ॥ २३ ॥
तस्मिन्प्रतिभये काले क्षीणे धर्मे युधिष्ठिर ।बभ्रमुः क्षुधिता मर्त्याः खादन्तः स्म परस्परम् ॥ २४ ॥
ऋषयो नियमांस्त्यक्त्वा परित्यक्ताग्निदैवताः ।आश्रमान्संपरित्यज्य पर्यधावन्नितस्ततः ॥ २५ ॥
विश्वामित्रोऽथ भगवान्महर्षिरनिकेतनः ।क्षुधा परिगतो धीमान्समन्तात्पर्यधावत ॥ २६ ॥
स कदाचित्परिपतञ्श्वपचानां निवेशनम् ।हिंस्राणां प्राणिहन्तॄणामाससाद वने क्वचित् ॥ २७ ॥
विभिन्नकलशाकीर्णं श्वचर्माच्छादनायुतम् ।वराहखरभग्नास्थिकपालघटसंकुलम् ॥ २८ ॥
मृतचेलपरिस्तीर्णं निर्माल्यकृतभूषणम् ।सर्पनिर्मोकमालाभिः कृतचिह्नकुटीमठम् ॥ २९ ॥
उलूकपक्षध्वजिभिर्देवतायतनैर्वृतम् ।लोहघण्टापरिष्कारं श्वयूथपरिवारितम् ॥ ३० ॥
तत्प्रविश्य क्षुधाविष्टो गाधेः पुत्रो महानृषिः ।आहारान्वेषणे युक्तः परं यत्नं समास्थितः ॥ ३१ ॥
न च क्वचिदविन्दत्स भिक्षमाणोऽपि कौशिकः ।मांसमन्नं मूलफलमन्यद्वा तत्र किंचन ॥ ३२ ॥
अहो कृच्छ्रं मया प्राप्तमिति निश्चित्य कौशिकः ।पपात भूमौ दौर्बल्यात्तस्मिंश्चण्डालपक्कणे ॥ ३३ ॥
चिन्तयामास स मुनिः किं नु मे सुकृतं भवेत् ।कथं वृथा न मृत्युः स्यादिति पार्थिवसत्तम ॥ ३४ ॥
स ददर्श श्वमांसस्य कुतन्तीं विततां मुनिः ।चण्डालस्य गृहे राजन्सद्यः शस्त्रहतस्य च ॥ ३५ ॥
स चिन्तयामास तदा स्तेयं कार्यमितो मया ।न हीदानीमुपायोऽन्यो विद्यते प्राणधारणे ॥ ३६ ॥
आपत्सु विहितं स्तेयं विशिष्टसमहीनतः ।परं परं भवेत्पूर्वमस्तेयमिति निश्चयः ॥ ३७ ॥
हीनादादेयमादौ स्यात्समानात्तदनन्तरम् ।असंभवादाददीत विशिष्टादपि धार्मिकात् ॥ ३८ ॥
सोऽहमन्तावसानानां हरमाणः परिग्रहात् ।न स्तेयदोषं पश्यामि हरिष्याम्येतदामिषम् ॥ ३९ ॥
एतां बुद्धिं समास्थाय विश्वामित्रो महामुनिः ।तस्मिन्देशे प्रसुष्वाप पतितो यत्र भारत ॥ ४० ॥
स विगाढां निशां दृष्ट्वा सुप्ते चण्डालपक्कणे ।शनैरुत्थाय भगवान्प्रविवेश कुटीमठम् ॥ ४१ ॥
स सुप्त एव चण्डालः श्लेष्मापिहितलोचनः ।परिभिन्नस्वरो रूक्ष उवाचाप्रियदर्शनः ॥ ४२ ॥
कः कुतन्तीं घट्टयति सुप्ते चण्डालपक्कणे ।जागर्मि नावसुप्तोऽस्मि हतोऽसीति च दारुणः ॥ ४३ ॥
विश्वामित्रोऽहमित्येव सहसा तमुवाच सः ।सहसाभ्यागतभयः सोद्वेगस्तेन कर्मणा ॥ ४४ ॥
चण्डालस्तद्वचः श्रुत्वा महर्षेर्भावितात्मनः ।शयनादुपसंभ्रान्त इयेषोत्पतितुं ततः ॥ ४५ ॥
स विसृज्याश्रु नेत्राभ्यां बहुमानात्कृताञ्जलिः ।उवाच कौशिकं रात्रौ ब्रह्मन्किं ते चिकीर्षितम् ॥ ४६ ॥
विश्वामित्रस्तु मातङ्गमुवाच परिसान्त्वयन् ।क्षुधितोऽहं गतप्राणो हरिष्यामि श्वजाघनीम् ॥ ४७ ॥
अवसीदन्ति मे प्राणाः स्मृतिर्मे नश्यति क्षुधा ।स्वधर्मं बुध्यमानोऽपि हरिष्यामि श्वजाघनीम् ॥ ४८ ॥
अटन्भैक्षं न विन्दामि यदा युष्माकमालये ।तदा बुद्धिः कृता पापे हरिष्यामि श्वजाघनीम् ॥ ४९ ॥
तृषितः कलुषं पाता नास्ति ह्रीरशनार्थिनः ।क्षुद्धर्मं दूषयत्यत्र हरिष्यामि श्वजाघनीम् ॥ ५० ॥
अग्निर्मुखं पुरोधाश्च देवानां शुचिपाद्विभुः ।यथा स सर्वभुग्ब्रह्मा तथा मां विद्धि धर्मतः ॥ ५१ ॥
तमुवाच स चण्डालो महर्षे शृणु मे वचः ।श्रुत्वा तथा समातिष्ठ यथा धर्मान्न हीयसे ॥ ५२ ॥
मृगाणामधमं श्वानं प्रवदन्ति मनीषिणः ।तस्याप्यधम उद्देशः शरीरस्योरुजाघनी ॥ ५३ ॥
नेदं सम्यग्व्यवसितं महर्षे कर्म वैकृतम् ।चण्डालस्वस्य हरणमभक्ष्यस्य विशेषतः ॥ ५४ ॥
साध्वन्यमनुपश्य त्वमुपायं प्राणधारणे ।न मांसलोभात्तपसो नाशस्ते स्यान्महामुने ॥ ५५ ॥
जानतोऽविहितो मार्गो न कार्यो धर्मसंकरः ।मा स्म धर्मं परित्याक्षीस्त्वं हि धर्मविदुत्तमः ॥ ५६ ॥
विश्वामित्रस्ततो राजन्नित्युक्तो भरतर्षभ ।क्षुधार्तः प्रत्युवाचेदं पुनरेव महामुनिः ॥ ५७ ॥
निराहारस्य सुमहान्मम कालोऽभिधावतः ।न विद्यतेऽभ्युपायश्च कश्चिन्मे प्राणधारणे ॥ ५८ ॥
येन तेन विशेषेण कर्मणा येन केनचित् ।अभ्युज्जीवेत्सीदमानः समर्थो धर्ममाचरेत् ॥ ५९ ॥
ऐन्द्रो धर्मः क्षत्रियाणां ब्राह्मणानामथाग्निकः ।ब्रह्मवह्निर्मम बलं भक्ष्यामि समयं क्षुधा ॥ ६० ॥
यथा यथा वै जीवेद्धि तत्कर्तव्यमपीडया ।जीवितं मरणाच्छ्रेयो जीवन्धर्ममवाप्नुयात् ॥ ६१ ॥
सोऽहं जीवितमाकाङ्क्षन्नभक्षस्यापि भक्षणम् ।व्यवस्ये बुद्धिपूर्वं वै तद्भवाननुमन्यताम् ॥ ६२ ॥
जीवन्धर्मं चरिष्यामि प्रणोत्स्याम्यशुभानि च ।तपोभिर्विद्यया चैव ज्योतींषीव महत्तमः ॥ ६३ ॥
श्वपच उवाच ।नैतत्खादन्प्राप्स्यसे प्राणमन्यं नायुर्दीर्घं नामृतस्येव तृप्तिम् ।भिक्षामन्यां भिक्ष मा ते मनोऽस्तु श्वभक्षणे श्वा ह्यभक्षो द्विजानाम् ॥ ६४ ॥
विश्वामित्र उवाच ।न दुर्भिक्षे सुलभं मांसमन्यच्छ्वपाक नान्नं न च मेऽस्ति वित्तम् ।क्षुधार्तश्चाहमगतिर्निराशः श्वमांसे चास्मिन्षड्रसान्साधु मन्ये ॥ ६५ ॥
श्वपच उवाच ।पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रस्य वै द्विज ।यदि शास्त्रं प्रमाणं ते माभक्ष्ये मानसं कृथाः ॥ ६६ ॥
विश्वामित्र उवाच ।अगस्त्येनासुरो जग्धो वातापिः क्षुधितेन वै ।अहमापद्गतः क्षुब्धो भक्षयिष्ये श्वजाघनीम् ॥ ६७ ॥
श्वपच उवाच ।भिक्षामन्यामाहरेति न चैतत्कर्तुमर्हसि ।न नूनं कार्यमेतद्वै हर कामं श्वजाघनीम् ॥ ६८ ॥
विश्वामित्र उवाच ।शिष्टा वै कारणं धर्मे तद्वृत्तमनुवर्तये ।परां मेध्याशनादेतां भक्ष्यां मन्ये श्वजाघनीम् ॥ ६९ ॥
श्वपच उवाच ।असता यत्समाचीर्णं न स धर्मः सनातनः ।नावृत्तमनुकार्यं वै मा छलेनानृतं कृथाः ॥ ७० ॥
विश्वामित्र उवाच ।न पातकं नावमतमृषिः सन्कर्तुमर्हसि ।समौ च श्वमृगौ मन्ये तस्माद्भक्ष्या श्वजाघनी ॥ ७१ ॥
श्वपच उवाच ।यद्ब्राह्मणार्थे कृतमर्थितेन तेनर्षिणा तच्च भक्ष्याधिकारम् ।स वै धर्मो यत्र न पापमस्ति सर्वैरुपायैर्हि स रक्षितव्यः ॥ ७२ ॥
विश्वामित्र उवाच ।मित्रं च मे ब्राह्मणश्चायमात्मा प्रियश्च मे पूज्यतमश्च लोके ।तं भर्तुकामोऽहमिमां हरिष्ये नृशंसानामीदृशानां न बिभ्ये ॥ ७३ ॥
श्वपच उवाच ।कामं नरा जीवितं संत्यजन्ति न चाभक्ष्यैः प्रतिकुर्वन्ति तत्र ।सर्वान्कामान्प्राप्नुवन्तीह विद्वन्प्रियस्व कामं सहितः क्षुधा वै ॥ ७४ ॥
विश्वामित्र उवाच ।स्थाने तावत्संशयः प्रेत्यभावे निःसंशयं कर्मणां वा विनाशः ।अहं पुनर्वर्त इत्याशयात्मा मूलं रक्षन्भक्षयिष्याम्यभक्ष्यम् ॥ ७५ ॥
बुद्ध्यात्मके व्यस्तमस्तीति तुष्टो मोहादेकत्वं यथा चर्म चक्षुः ।यद्यप्येनः संशयादाचरामि नाहं भविष्यामि यथा त्वमेव ॥ ७६ ॥
श्वपच उवाच ।पतनीयमिदं दुःखमिति मे वर्तते मतिः ।दुष्कृती ब्राह्मणं सन्तं यस्त्वामहमुपालभे ॥ ७७ ॥
विश्वामित्र उवाच ।पिबन्त्येवोदकं गावो मण्डूकेषु रुवत्स्वपि ।न तेऽधिकारो धर्मेऽस्ति मा भूरात्मप्रशंसकः ॥ ७८ ॥
श्वपच उवाच ।सुहृद्भूत्वानुशास्मि त्वा कृपा हि त्वयि मे द्विज ।तदेवं श्रेय आधत्स्व मा लोभाच्छ्वानमादिथाः ॥ ७९ ॥
विश्वामित्र उवाच ।सुहृन्मे त्वं सुखेप्सुश्चेदापदो मां समुद्धर ।जानेऽहं धर्मतोऽऽत्मानं श्वानीमुत्सृज जाघनीम् ॥ ८० ॥
श्वपच उवाच ।नैवोत्सहे भवते दातुमेतां नोपेक्षितुं ह्रियमाणं स्वमन्नम् ।उभौ स्यावः स्वमलेनावलिप्तौ दाताहं च त्वं च विप्र प्रतीच्छन् ॥ ८१ ॥
विश्वामित्र उवाच ।अद्याहमेतद्वृजिनं कर्म कृत्वा जीवंश्चरिष्यामि महापवित्रम् ।प्रपूतात्मा धर्ममेवाभिपत्स्ये यदेतयोर्गुरु तद्वै ब्रवीहि ॥ ८२ ॥
श्वपच उवाच ।आत्मैव साक्षी किल लोककृत्ये त्वमेव जानासि यदत्र दुष्टम् ।यो ह्याद्रियेद्भक्ष्यमिति श्वमांसं मन्ये न तस्यास्ति विवर्जनीयम् ॥ ८३ ॥
विश्वामित्र उवाच ।उपादाने खादने वास्य दोषः कार्यो न्यायैर्नित्यमत्रापवादः ।यस्मिन्न हिंसा नानृते वाक्यलेशो भक्ष्यक्रिया तत्र न तद्गरीयः ॥ ८४ ॥
श्वपच उवाच ।यद्येष हेतुस्तव खादनस्य न ते वेदः कारणं नान्यधर्मः ।तस्मादभक्ष्ये भक्षणाद्वा द्विजेन्द्र दोषं न पश्यामि यथेदमात्थ ॥ ८५ ॥
विश्वामित्र उवाच ।न पातकं भक्षणमस्य दृष्टं सुरां पीत्वा पततीतीह शब्दः ।अन्योन्यकर्माणि तथा तथैव न लेशमात्रेण कृत्यं हिनस्ति ॥ ८६ ॥
श्वपच उवाच ।अस्थानतो हीनतः कुत्सिताद्वा तं विद्वांसं बाधते साधुवृत्तम् ।स्थानं पुनर्यो लभते निषङ्गात्तेनापि दण्डः सहितव्य एव ॥ ८७ ॥
भीष्म उवाच ।एवमुक्त्वा निववृते मातङ्गः कौशिकं तदा ।विश्वामित्रो जहारैव कृतबुद्धिः श्वजाघनीम् ॥ ८८ ॥
ततो जग्राह पञ्चाङ्गीं जीवितार्थी महामुनिः ।सदारस्तामुपाकृत्य वने यातो महामुनिः ॥ ८९ ॥
एतस्मिन्नेव काले तु प्रववर्षाथ वासवः ।संजीवयन्प्रजाः सर्वा जनयामास चौषधीः ॥ ९० ॥
विश्वामित्रोऽपि भगवांस्तपसा दग्धकिल्बिषः ।कालेन महता सिद्धिमवाप परमाद्भुताम् ॥ ९१ ॥
एवं विद्वानदीनात्मा व्यसनस्थो जिजीविषुः ।सर्वोपायैरुपायज्ञो दीनमात्मानमुद्धरेत् ॥ ९२ ॥
एतां बुद्धिं समास्थाय जीवितव्यं सदा भवेत् ।जीवन्पुण्यमवाप्नोति नरो भद्राणि पश्यति ॥ ९३ ॥
तस्मात्कौन्तेय विदुषा धर्माधर्मविनिश्चये ।बुद्धिमास्थाय लोकेऽस्मिन्वर्तितव्यं यतात्मना ॥ ९४ ॥
« »