Click on words to see what they mean.

वैशंपायन उवाच ।अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे ।भ्रातॄणां ब्रुवतां तांस्तान्विविधान्वेदनिश्चयान् ॥ १ ॥
महाभिजनसंपन्ना श्रीमत्यायतलोचना ।अभ्यभाषत राजेन्द्रं द्रौपदी योषितां वरा ॥ २ ॥
आसीनमृषभं राज्ञां भ्रातृभिः परिवारितम् ।सिंहशार्दूलसदृशैर्वारणैरिव यूथपम् ॥ ३ ॥
अभिमानवती नित्यं विशेषेण युधिष्ठिरे ।लालिता सततं राज्ञा धर्मज्ञा धर्मदर्शिनी ॥ ४ ॥
आमन्त्र्य विपुलश्रोणी साम्ना परमवल्गुना ।भर्तारमभिसंप्रेक्ष्य ततो वचनमब्रवीत् ॥ ५ ॥
इमे ते भ्रातरः पार्थ शुष्यन्त स्तोकका इव ।वावाश्यमानास्तिष्ठन्ति न चैनानभिनन्दसे ॥ ६ ॥
नन्दयैतान्महाराज मत्तानिव महाद्विपान् ।उपपन्नेन वाक्येन सततं दुःखभागिनः ॥ ७ ॥
कथं द्वैतवने राजन्पूर्वमुक्त्वा तथा वचः ।भ्रातॄनेतान्स्म सहिताञ्शीतवातातपार्दितान् ॥ ८ ॥
वयं दुर्योधनं हत्वा मृधे भोक्ष्याम मेदिनीम् ।संपूर्णां सर्वकामानामाहवे विजयैषिणः ॥ ९ ॥
विरथांश्च रथान्कृत्वा निहत्य च महागजान् ।संस्तीर्य च रथैर्भूमिं ससादिभिररिंदमाः ॥ १० ॥
यजतां विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः ।वनवासकृतं दुःखं भविष्यति सुखाय नः ॥ ११ ॥
इत्येतानेवमुक्त्वा त्वं स्वयं धर्मभृतां वर ।कथमद्य पुनर्वीर विनिहंसि मनांस्युत ॥ १२ ॥
न क्लीबो वसुधां भुङ्क्ते न क्लीबो धनमश्नुते ।न क्लीबस्य गृहे पुत्रा मत्स्याः पङ्क इवासते ॥ १३ ॥
नादण्डः क्षत्रियो भाति नादण्डो भूतिमश्नुते ।नादण्डस्य प्रजा राज्ञः सुखमेधन्ति भारत ॥ १४ ॥
मित्रता सर्वभूतेषु दानमध्ययनं तपः ।ब्राह्मणस्यैष धर्मः स्यान्न राज्ञो राजसत्तम ॥ १५ ॥
असतां प्रतिषेधश्च सतां च परिपालनम् ।एष राज्ञां परो धर्मः समरे चापलायनम् ॥ १६ ॥
यस्मिन्क्षमा च क्रोधश्च दानादाने भयाभये ।निग्रहानुग्रहौ चोभौ स वै धर्मविदुच्यते ॥ १७ ॥
न श्रुतेन न दानेन न सान्त्वेन न चेज्यया ।त्वयेयं पृथिवी लब्धा नोत्कोचेन तथाप्युत ॥ १८ ॥
यत्तद्बलममित्राणां तथा वीरसमुद्यतम् ।हस्त्यश्वरथसंपन्नं त्रिभिरङ्गैर्महत्तरम् ॥ १९ ॥
रक्षितं द्रोणकर्णाभ्यामश्वत्थाम्ना कृपेण च ।तत्त्वया निहतं वीर तस्माद्भुङ्क्ष्व वसुंधराम् ॥ २० ॥
जम्बूद्वीपो महाराज नानाजनपदायुतः ।त्वया पुरुषशार्दूल दण्डेन मृदितः प्रभो ॥ २१ ॥
जम्बूद्वीपेन सदृशः क्रौञ्चद्वीपो नराधिप ।अपरेण महामेरोर्दण्डेन मृदितस्त्वया ॥ २२ ॥
क्रौञ्चद्वीपेन सदृशः शाकद्वीपो नराधिप ।पूर्वेण तु महामेरोर्दण्डेन मृदितस्त्वया ॥ २३ ॥
उत्तरेण महामेरोः शाकद्वीपेन संमितः ।भद्राश्वः पुरुषव्याघ्र दण्डेन मृदितस्त्वया ॥ २४ ॥
द्वीपाश्च सान्तरद्वीपा नानाजनपदालयाः ।विगाह्य सागरं वीर दण्डेन मृदितास्त्वया ॥ २५ ॥
एतान्यप्रतिमानि त्वं कृत्वा कर्माणि भारत ।न प्रीयसे महाराज पूज्यमानो द्विजातिभिः ॥ २६ ॥
स त्वं भ्रातॄनिमान्दृष्ट्वा प्रतिनन्दस्व भारत ।ऋषभानिव संमत्तान्गजेन्द्रानूर्जितानिव ॥ २७ ॥
अमरप्रतिमाः सर्वे शत्रुसाहाः परंतपाः ।एकोऽपि हि सुखायैषां क्षमः स्यादिति मे मतिः ॥ २८ ॥
किं पुनः पुरुषव्याघ्राः पतयो मे नरर्षभाः ।समस्तानीन्द्रियाणीव शरीरस्य विचेष्टने ॥ २९ ॥
अनृतं माब्रवीच्छ्वश्रूः सर्वज्ञा सर्वदर्शिनी ।युधिष्ठिरस्त्वां पाञ्चालि सुखे धास्यत्यनुत्तमे ॥ ३० ॥
हत्वा राजसहस्राणि बहून्याशुपराक्रमः ।तद्व्यर्थं संप्रपश्यामि मोहात्तव जनाधिप ॥ ३१ ॥
येषामुन्मत्तको ज्येष्ठः सर्वे तस्योपचारिणः ।तवोन्मादेन राजेन्द्र सोन्मादाः सर्वपाण्डवाः ॥ ३२ ॥
यदि हि स्युरनुन्मत्ता भ्रातरस्ते जनाधिप ।बद्ध्वा त्वां नास्तिकैः सार्धं प्रशासेयुर्वसुंधराम् ॥ ३३ ॥
कुरुते मूढमेवं हि यः श्रेयो नाधिगच्छति ।धूपैरञ्जनयोगैश्च नस्यकर्मभिरेव च ।भेषजैः स चिकित्स्यः स्याद्य उन्मार्गेण गच्छति ॥ ३४ ॥
साहं सर्वाधमा लोके स्त्रीणां भरतसत्तम ।तथा विनिकृतामित्रैर्याहमिच्छामि जीवितुम् ॥ ३५ ॥
एतेषां यतमानानामुत्पद्यन्ते तु संपदः ।त्वं तु सर्वां महीं लब्ध्वा कुरुषे स्वयमापदम् ॥ ३६ ॥
यथास्तां संमतौ राज्ञां पृथिव्यां राजसत्तमौ ।मान्धाता चाम्बरीषश्च तथा राजन्विराजसे ॥ ३७ ॥
प्रशाधि पृथिवीं देवीं प्रजा धर्मेण पालयन् ।सपर्वतवनद्वीपां मा राजन्विमना भव ॥ ३८ ॥
यजस्व विविधैर्यज्ञैर्जुह्वन्नग्नीन्प्रयच्छ च ।पुराणि भोगान्वासांसि द्विजातिभ्यो नृपोत्तम ॥ ३९ ॥
« »