Click on words to see what they mean.

सहदेव उवाच ।न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत ।शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा ॥ १ ॥
बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः ।यो धर्मो यत्सुखं वा स्याद्द्विषतां तत्तथास्तु नः ॥ २ ॥
शारीरं द्रव्यमुत्सृज्य पृथिवीमनुशासतः ।यो धर्मो यत्सुखं वा स्यात्सुहृदां तत्तथास्तु नः ॥ ३ ॥
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् ।ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम् ॥ ४ ॥
ब्रह्ममृत्यू च तौ राजन्नात्मन्येव समाश्रितौ ।अदृश्यमानौ भूतानि योधयेतामसंशयम् ॥ ५ ॥
अविनाशोऽस्य सत्त्वस्य नियतो यदि भारत ।भित्त्वा शरीरं भूतानां न हिंसा प्रतिपत्स्यते ॥ ६ ॥
अथापि च सहोत्पत्तिः सत्त्वस्य प्रलयस्तथा ।नष्टे शरीरे नष्टं स्याद्वृथा च स्यात्क्रियापथः ॥ ७ ॥
तस्मादेकान्तमुत्सृज्य पूर्वैः पूर्वतरैश्च यः ।पन्था निषेवितः सद्भिः स निषेव्यो विजानता ॥ ८ ॥
लब्ध्वापि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम् ।न भुङ्क्ते यो नृपः सम्यङ्निष्फलं तस्य जीवितम् ॥ ९ ॥
अथ वा वसतो राजन्वने वन्येन जीवतः ।द्रव्येषु यस्य ममता मृत्योरास्ये स वर्तते ॥ १० ॥
बाह्याभ्यन्तरभूतानां स्वभावं पश्य भारत ।ये तु पश्यन्ति तद्भावं मुच्यन्ते महतो भयात् ॥ ११ ॥
भवान्पिता भवान्माता भवान्भ्राता भवान्गुरुः ।दुःखप्रलापानार्तस्य तस्मान्मे क्षन्तुमर्हसि ॥ १२ ॥
तथ्यं वा यदि वातथ्यं यन्मयैतत्प्रभाषितम् ।तद्विद्धि पृथिवीपाल भक्त्या भरतसत्तम ॥ १३ ॥
« »