Click on words to see what they mean.

युधिष्ठिर उवाच ।उक्तो मन्त्रो महाबाहो न विश्वासोऽस्ति शत्रुषु ।कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत् ॥ १ ॥
विश्वासाद्धि परं राज्ञो राजन्नुत्पद्यते भयम् ।कथं वै नाश्वसन्राजा शत्रूञ्जयति पार्थिव ॥ २ ॥
एतन्मे संशयं छिन्धि मनो मे संप्रमुह्यति ।अविश्वासकथामेतामुपश्रुत्य पितामह ॥ ३ ॥
भीष्म उवाच ।शृणु कौन्तेय यो वृत्तो ब्रह्मदत्तनिवेशने ।पूजन्या सह संवादो ब्रह्मदत्तस्य पार्थिव ॥ ४ ॥
काम्पिल्ये ब्रह्मदत्तस्य अन्तःपुरनिवासिनी ।पूजनी नाम शकुनी दीर्घकालं सहोषिता ॥ ५ ॥
रुतज्ञा सर्वभूतानां यथा वै जीवजीवकः ।सर्वज्ञा सर्वधर्मज्ञा तिर्यग्योनिगतापि सा ॥ ६ ॥
अभिप्रजाता सा तत्र पुत्रमेकं सुवर्चसम् ।समकालं च राज्ञोऽपि देव्याः पुत्रो व्यजायत ॥ ७ ॥
समुद्रतीरं गत्वा सा त्वाजहार फलद्वयम् ।पुष्ट्यर्थं च स्वपुत्रस्य राजपुत्रस्य चैव ह ॥ ८ ॥
फलमेकं सुतायादाद्राजपुत्राय चापरम् ।अमृतास्वादसदृशं बलतेजोविवर्धनम् ।तत्रागच्छत्परां वृद्धिं राजपुत्रः फलाशनात् ॥ ९ ॥
धात्र्या हस्तगतश्चापि तेनाक्रीडत पक्षिणा ।शून्ये तु तमुपादाय पक्षिणं समजातकम् ।हत्वा ततः स राजेन्द्र धात्र्या हस्तमुपागमत् ॥ १० ॥
अथ सा शकुनी राजन्नागमत्फलहारिका ।अपश्यन्निहतं पुत्रं तेन बालेन भूतले ॥ ११ ॥
बाष्पपूर्णमुखी दीना दृष्ट्वा सा तु हतं सुतम् ।पूजनी दुःखसंतप्ता रुदती वाक्यमब्रवीत् ॥ १२ ॥
क्षत्रिये संगतं नास्ति न प्रीतिर्न च सौहृदम् ।कारणे संभजन्तीह कृतार्थाः संत्यजन्ति च ॥ १३ ॥
क्षत्रियेषु न विश्वासः कार्यः सर्वोपघातिषु ।अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम् ॥ १४ ॥
अहमस्य करोम्यद्य सदृशीं वैरयातनाम् ।कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः ॥ १५ ॥
सहसंजातवृद्धस्य तथैव सहभोजिनः ।शरणागतस्य च वधस्त्रिविधं ह्यस्य किल्बिषम् ॥ १६ ॥
इत्युक्त्वा चरणाभ्यां तु नेत्रे नृपसुतस्य सा ।भित्त्वा स्वस्था तत इदं पूजनी वाक्यमब्रवीत् ॥ १७ ॥
इच्छयैव कृतं पापं सद्य एवोपसर्पति ।कृतप्रतिक्रियं तेषां न नश्यति शुभाशुभम् ॥ १८ ॥
पापं कर्म कृतं किंचिन्न तस्मिन्यदि विद्यते ।निपात्यतेऽस्य पुत्रेषु न चेत्पौत्रेषु नप्तृषु ॥ १९ ॥
ब्रह्मदत्त उवाच ।अस्ति वै कृतमस्माभिरस्ति प्रतिकृतं त्वया ।उभयं तत्समीभूतं वस पूजनि मा गमः ॥ २० ॥
पूजन्युवाच ।सकृत्कृतापराधस्य तत्रैव परिलम्बतः ।न तद्बुधाः प्रशंसन्ति श्रेयस्तत्रापसर्पणम् ॥ २१ ॥
सान्त्वे प्रयुक्ते नृपते कृतवैरे न विश्वसेत् ।क्षिप्रं प्रबध्यते मूढो न हि वैरं प्रशाम्यति ॥ २२ ॥
अन्योन्यं कृतवैराणां पुत्रपौत्रं निगच्छति ।पुत्रपौत्रे विनष्टे तु परलोकं निगच्छति ॥ २३ ॥
सर्वेषां कृतवैराणामविश्वासः सुखावहः ।एकान्ततो न विश्वासः कार्यो विश्वासघातकः ॥ २४ ॥
न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् ।कामं विश्वासयेदन्यान्परेषां तु न विश्वसेत् ॥ २५ ॥
माता पिता बान्धवानां वरिष्ठौ भार्या जरा बीजमात्रं तु पुत्रः ।भ्राता शत्रुः क्लिन्नपाणिर्वयस्य आत्मा ह्येकः सुखदुःखस्य वेत्ता ॥ २६ ॥
अन्योन्यकृतवैराणां न संधिरुपपद्यते ।स च हेतुरतिक्रान्तो यदर्थमहमावसम् ॥ २७ ॥
पूजितस्यार्थमानाभ्यां जन्तोः पूर्वापकारिणः ।चेतो भवत्यविश्वस्तं पूर्वं त्रासयते बलात् ॥ २८ ॥
पूर्वं संमानना यत्र पश्चाच्चैव विमानना ।जह्यात्तं सत्त्ववान्वासं संमानितविमानितः ॥ २९ ॥
उषितास्मि तवागारे दीर्घकालमहिंसिता ।तदिदं वैरमुत्पन्नं सुखमास्स्व व्रजाम्यहम् ॥ ३० ॥
ब्रह्मदत्त उवाच ।यत्कृते प्रतिकुर्याद्वै न स तत्रापराध्नुयात् ।अनृणस्तेन भवति वस पूजनि मा गमः ॥ ३१ ॥
पूजन्युवाच ।न कृतस्य न कर्तुश्च सख्यं संधीयते पुनः ।हृदयं तत्र जानाति कर्तुश्चैव कृतस्य च ॥ ३२ ॥
ब्रह्मदत्त उवाच ।कृतस्य चैव कर्तुश्च सख्यं संधीयते पुनः ।वैरस्योपशमो दृष्टः पापं नोपाश्नुते पुनः ॥ ३३ ॥
पूजन्युवाच ।नास्ति वैरमुपक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत् ।विश्वासाद्बध्यते बालस्तस्माच्छ्रेयो ह्यदर्शनम् ॥ ३४ ॥
तरसा ये न शक्यन्ते शस्त्रैः सुनिशितैरपि ।साम्ना ते विनिगृह्यन्ते गजा इव करेणुभिः ॥ ३५ ॥
ब्रह्मदत्त उवाच ।संवासाज्जायते स्नेहो जीवितान्तकरेष्वपि ।अन्योन्यस्य च विश्वासः श्वपचेन शुनो यथा ॥ ३६ ॥
अन्योन्यकृतवैराणां संवासान्मृदुतां गतम् ।नैव तिष्ठति तद्वैरं पुष्करस्थमिवोदकम् ॥ ३७ ॥
पूजन्युवाच ।वैरं पञ्चसमुत्थानं तच्च बुध्यन्ति पण्डिताः ।स्त्रीकृतं वास्तुजं वाग्जं ससपत्नापराधजम् ॥ ३८ ॥
तत्र दाता निहन्तव्यः क्षत्रियेण विशेषतः ।प्रकाशं वाप्रकाशं वा बुद्ध्वा देशबलादिकम् ॥ ३९ ॥
कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि ।छन्नं संतिष्ठते वैरं गूढोऽग्निरिव दारुषु ॥ ४० ॥
न वित्तेन न पारुष्यैर्न सान्त्वेन न च श्रुतैः ।वैराग्निः शाम्यते राजन्नौर्वाग्निरिव सागरे ॥ ४१ ॥
न हि वैराग्निरुद्भूतः कर्म वाप्यपराधजम् ।शाम्यत्यदग्ध्वा नृपते विना ह्येकतरक्षयात् ॥ ४२ ॥
सत्कृतस्यार्थमानाभ्यां स्यात्तु पूर्वापकारिणः ।नैव शान्तिर्न विश्वासः कर्म त्रासयते बलात् ॥ ४३ ॥
नैवापकारे कस्मिंश्चिदहं त्वयि तथा भवान् ।विश्वासादुषिता पूर्वं नेदानीं विश्वसाम्यहम् ॥ ४४ ॥
ब्रह्मदत्त उवाच ।कालेन क्रियते कार्यं तथैव विविधाः क्रियाः ।कालेनैव प्रवर्तन्ते कः कस्येहापराध्यति ॥ ४५ ॥
तुल्यं चोभे प्रवर्तेते मरणं जन्म चैव ह ।कार्यते चैव कालेन तन्निमित्तं हि जीवति ॥ ४६ ॥
बध्यन्ते युगपत्केचिदेकैकस्य न चापरे ।कालो दहति भूतानि संप्राप्याग्निरिवेन्धनम् ॥ ४७ ॥
नाहं प्रमाणं नैव त्वमन्योन्यकरणे शुभे ।कालो नित्यमुपाधत्ते सुखं दुःखं च देहिनाम् ॥ ४८ ॥
एवं वसेह सस्नेहा यथाकालमहिंसिता ।यत्कृतं तच्च मे क्षान्तं त्वं चैव क्षम पूजनि ॥ ४९ ॥
पूजन्युवाच ।यदि कालः प्रमाणं ते न वैरं कस्यचिद्भवेत् ।कस्मात्त्वपचितिं यान्ति बान्धवा बान्धवे हते ॥ ५० ॥
कस्माद्देवासुराः पूर्वमन्योन्यमभिजघ्निरे ।यदि कालेन निर्याणं सुखदुःखे भवाभवौ ॥ ५१ ॥
भिषजो भेषजं कर्तुं कस्मादिच्छन्ति रोगिणे ।यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ॥ ५२ ॥
प्रलापः क्रियते कस्मात्सुमहाञ्शोकमूर्छितैः ।यदि कालः प्रमाणं ते कस्माद्धर्मोऽस्ति कर्तृषु ॥ ५३ ॥
तव पुत्रो ममापत्यं हतवान्हिंसितो मया ।अनन्तरं त्वया चाहं बन्धनीया महीपते ॥ ५४ ॥
अहं हि पुत्रशोकेन कृतपापा तवात्मजे ।तथा त्वया प्रहर्तव्यं मयि तत्त्वं च मे शृणु ॥ ५५ ॥
भक्षार्थं क्रीडनार्थं वा नरा वाञ्छन्ति पक्षिणः ।तृतीयो नास्ति संयोगो वधबन्धादृते क्षमः ॥ ५६ ॥
वधबन्धभयादेके मोक्षतन्त्रमुपागताः ।मरणोत्पातजं दुःखमाहुर्धर्मविदो जनाः ॥ ५७ ॥
सर्वस्य दयिताः प्राणाः सर्वस्य दयिताः सुताः ।दुःखादुद्विजते सर्वः सर्वस्य सुखमीप्सितम् ॥ ५८ ॥
दुःखं जरा ब्रह्मदत्त दुःखमर्थविपर्ययः ।दुःखं चानिष्टसंवासो दुःखमिष्टवियोगजम् ॥ ५९ ॥
वैरबन्धकृतं दुःखं हिंसाजं स्त्रीकृतं तथा ।दुःखं सुखेन सततं जनाद्विपरिवर्तते ॥ ६० ॥
न दुःखं परदुःखे वै केचिदाहुरबुद्धयः ।यो दुःखं नाभिजानाति स जल्पति महाजने ॥ ६१ ॥
यस्तु शोचति दुःखार्तः स कथं वक्तुमुत्सहेत् ।रसज्ञः सर्वदुःखस्य यथात्मनि तथा परे ॥ ६२ ॥
यत्कृतं ते मया राजंस्त्वया च मम यत्कृतम् ।न तद्वर्षशतैः शक्यं व्यपोहितुमरिंदम ॥ ६३ ॥
आवयोः कृतमन्योन्यं तत्र संधिर्न विद्यते ।स्मृत्वा स्मृत्वा हि ते पुत्रं नवं वैरं भविष्यति ॥ ६४ ॥
वैरमन्तिकमासज्य यः प्रीतिं कर्तुमिच्छति ।मृन्मयस्येव भग्नस्य तस्य संधिर्न विद्यते ॥ ६५ ॥
निश्चितश्चार्थशास्त्रज्ञैरविश्वासः सुखोदयः ।उशनाश्चाथ गाथे द्वे प्रह्रादायाब्रवीत्पुरा ॥ ६६ ॥
ये वैरिणः श्रद्दधते सत्ये सत्येतरेऽपि वा ।ते श्रद्दधाना वध्यन्ते मधु शुष्कतृणैर्यथा ॥ ६७ ॥
न हि वैराणि शाम्यन्ति कुलेष्वा दशमाद्युगात् ।आख्यातारश्च विद्यन्ते कुले चेद्विद्यते पुमान् ॥ ६८ ॥
उपगुह्य हि वैराणि सान्त्वयन्ति नराधिपाः ।अथैनं प्रतिपिंषन्ति पूर्णं घटमिवाश्मनि ॥ ६९ ॥
सदा न विश्वसेद्राजन्पापं कृत्वेह कस्यचित् ।अपकृत्य परेषां हि विश्वासाद्दुःखमश्नुते ॥ ७० ॥
ब्रह्मदत्त उवाच ।नाविश्वासाच्चिन्वतेऽर्थान्नेहन्ते चापि किंचन ।भयादेकतरान्नित्यं मृतकल्पा भवन्ति च ॥ ७१ ॥
पूजन्युवाच ।यस्येह व्रणिनौ पादौ पद्भ्यां च परिसर्पति ।क्षण्येते तस्य तौ पादौ सुगुप्तमभिधावतः ॥ ७२ ॥
नेत्राभ्यां सरुजाभ्यां यः प्रतिवातमुदीक्षते ।तस्य वायुरुजात्यर्थं नेत्रयोर्भवति ध्रुवम् ॥ ७३ ॥
दुष्टं पन्थानमाश्रित्य यो मोहादभिपद्यते ।आत्मनो बलमज्ञात्वा तदन्तं तस्य जीवितम् ॥ ७४ ॥
यस्तु वर्षमविज्ञाय क्षेत्रं कृषति मानवः ।हीनं पुरुषकारेण सस्यं नैवाप्नुते पुनः ॥ ७५ ॥
यश्च तिक्तं कषायं वाप्यास्वादविधुरं हितम् ।आहारं कुरुते नित्यं सोऽमृतत्वाय कल्पते ॥ ७६ ॥
पथ्यं भुक्त्वा नरो लोभाद्योऽन्यदश्नाति भोजनम् ।परिणाममविज्ञाय तदन्तं तस्य जीवितम् ॥ ७७ ॥
दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात् ।उदात्तानां कर्म तन्त्रं दैवं क्लीबा उपासते ॥ ७८ ॥
कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु ।ग्रस्यतेऽकर्मशीलस्तु सदानर्थैरकिंचनः ॥ ७९ ॥
तस्मात्संशयितेऽप्यर्थे कार्य एव पराक्रमः ।सर्वस्वमपि संत्यज्य कार्यमात्महितं नरैः ॥ ८० ॥
विद्या शौर्यं च दाक्ष्यं च बलं धैर्यं च पञ्चमम् ।मित्राणि सहजान्याहुर्वर्तयन्तीह यैर्बुधाः ॥ ८१ ॥
निवेशनं च कुप्यं च क्षेत्रं भार्या सुहृज्जनः ।एतान्युपचितान्याहुः सर्वत्र लभते पुमान् ॥ ८२ ॥
सर्वत्र रमते प्राज्ञः सर्वत्र च विरोचते ।न विभीषयते कंचिद्भीषितो न बिभेति च ॥ ८३ ॥
नित्यं बुद्धिमतो ह्यर्थः स्वल्पकोऽपि विवर्धते ।दाक्ष्येण कुरुते कर्म संयमात्प्रतितिष्ठति ॥ ८४ ॥
गृहस्नेहावबद्धानां नराणामल्पमेधसाम् ।कुस्त्री खादति मांसानि माघमा सेगवामिव ॥ ८५ ॥
गृहं क्षेत्राणि मित्राणि स्वदेश इति चापरे ।इत्येवमवसीदन्ति नरा बुद्धिविपर्यये ॥ ८६ ॥
उत्पतेत्सरुजाद्देशाद्व्याधिदुर्भिक्षपीडितात् ।अन्यत्र वस्तुं गच्छेद्वा वसेद्वा नित्यमानितः ॥ ८७ ॥
तस्मादन्यत्र यास्यामि वस्तुं नाहमिहोत्सहे ।कृतमेतदनाहार्यं तव पुत्रेण पार्थिव ॥ ८८ ॥
कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम् ।कुसंबन्धं कुदेशं च दूरतः परिवर्जयेत् ॥ ८९ ॥
कुमित्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः ।कुराज्ये निर्वृतिर्नास्ति कुदेशे न प्रजीव्यते ॥ ९० ॥
कुमित्रे संगतं नास्ति नित्यमस्थिरसौहृदे ।अवमानः कुसंबन्धे भवत्यर्थविपर्यये ॥ ९१ ॥
सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः ।तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ॥ ९२ ॥
यत्र नास्ति बलात्कारः स राजा तीव्रशासनः ।न चैव ह्यभिसंबन्धो दरिद्रं यो बुभूषति ॥ ९३ ॥
भार्या देशोऽथ मित्राणि पुत्रसंबन्धिबान्धवाः ।एतत्सर्वं गुणवति धर्मनेत्रे महीपतौ ॥ ९४ ॥
अधर्मज्ञस्य विलयं प्रजा गच्छन्त्यनिग्रहात् ।राजा मूलं त्रिवर्गस्य अप्रमत्तोऽनुपालयन् ॥ ९५ ॥
बलिषड्भागमुद्धृत्य बलिं तमुपयोजयेत् ।न रक्षति प्रजाः सम्यग्यः स पार्थिवतस्करः ॥ ९६ ॥
दत्त्वाभयं यः स्वयमेव राजा न तत्प्रमाणं कुरुते यथावत् ।स सर्वलोकादुपलभ्य पापमधर्मबुद्धिर्निरयं प्रयाति ॥ ९७ ॥
दत्त्वाभयं यः स्म राजा प्रमाणं कुरुते सदा ।स सर्वसुखकृज्ज्ञेयः प्रजा धर्मेण पालयन् ॥ ९८ ॥
पिता माता गुरुर्गोप्ता वह्निर्वैश्रवणो यमः ।सप्त राज्ञो गुणानेतान्मनुराह प्रजापतिः ॥ ९९ ॥
पिता हि राजा राष्ट्रस्य प्रजानां योऽनुकम्पकः ।तस्मिन्मिथ्याप्रणीते हि तिर्यग्गच्छति मानवः ॥ १०० ॥
संभावयति मातेव दीनमभ्यवपद्यते ।दहत्यग्निरिवानिष्टान्यमयन्भवते यमः ॥ १०१ ॥
इष्टेषु विसृजत्यर्थान्कुबेर इव कामदः ।गुरुर्धर्मोपदेशेन गोप्ता च परिपालनात् ॥ १०२ ॥
यस्तु रञ्जयते राजा पौरजानपदान्गुणैः ।न तस्य भ्रश्यते राज्यं गुणधर्मानुपालनात् ॥ १०३ ॥
स्वयं समुपजानन्हि पौरजानपदक्रियाः ।स सुखं मोदते भूप इह लोके परत्र च ॥ १०४ ॥
नित्योद्विग्नाः प्रजा यस्य करभारप्रपीडिताः ।अनर्थैर्विप्रलुप्यन्ते स गच्छति पराभवम् ॥ १०५ ॥
प्रजा यस्य विवर्धन्ते सरसीव महोत्पलम् ।स सर्वयज्ञफलभाग्राजा लोके महीयते ॥ १०६ ॥
बलिना विग्रहो राजन्न कथंचित्प्रशस्यते ।बलिना विगृहीतस्य कुतो राज्यं कुतः सुखम् ॥ १०७ ॥
भीष्म उवाच ।सैवमुक्त्वा शकुनिका ब्रह्मदत्तं नराधिपम् ।राजानं समनुज्ञाप्य जगामाथेप्सितां दिशम् ॥ १०८ ॥
एतत्ते ब्रह्मदत्तस्य पूजन्या सह भाषितम् ।मयोक्तं भरतश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि ॥ १०९ ॥
« »