Click on words to see what they mean.

युधिष्ठिर उवाच ।सर्वत्र बुद्धिः कथिता श्रेष्ठा ते भरतर्षभ ।अनागता तथोत्पन्ना दीर्घसूत्रा विनाशिनी ॥ १ ॥
तदिच्छामि परां बुद्धिं श्रोतुं भरतसत्तम ।यथा राजन्न मुह्येत शत्रुभिः परिवारितः ॥ २ ॥
धर्मार्थकुशल प्राज्ञ सर्वशास्त्रविशारद ।पृच्छामि त्वा कुरुश्रेष्ठ तन्मे व्याख्यातुमर्हसि ॥ ३ ॥
शत्रुभिर्बहुभिर्ग्रस्तो यथा वर्तेत पार्थिवः ।एतदिच्छाम्यहं श्रोतुं सर्वमेव यथाविधि ॥ ४ ॥
विषमस्थं हि राजानं शत्रवः परिपन्थिनः ।बहवोऽप्येकमुद्धर्तुं यतन्ते पूर्वतापिताः ॥ ५ ॥
सर्वतः प्रार्थ्यमानेन दुर्बलेन महाबलैः ।एकेनैवासहायेन शक्यं स्थातुं कथं भवेत् ॥ ६ ॥
कथं मित्रमरिं चैव विन्देत भरतर्षभ ।चेष्टितव्यं कथं चात्र शत्रोर्मित्रस्य चान्तरे ॥ ७ ॥
प्रज्ञातलक्षणे राजन्नमित्रे मित्रतां गते ।कथं नु पुरुषः कुर्यात्किं वा कृत्वा सुखी भवेत् ॥ ८ ॥
विग्रहं केन वा कुर्यात्संधिं वा केन योजयेत् ।कथं वा शत्रुमध्यस्थो वर्तेताबलवानिति ॥ ९ ॥
एतद्वै सर्वकृत्यानां परं कृत्यं परंतप ।नैतस्य कश्चिद्वक्तास्ति श्रोता चापि सुदुर्लभः ॥ १० ॥
ऋते शांतनवाद्भीष्मात्सत्यसंधाज्जितेन्द्रियात् ।तदन्विष्य महाबाहो सर्वमेतद्वदस्व मे ॥ ११ ॥
भीष्म उवाच ।त्वद्युक्तोऽयमनुप्रश्नो युधिष्ठिर गुणोदयः ।शृणु मे पुत्र कार्त्स्न्येन गुह्यमापत्सु भारत ॥ १२ ॥
अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति ।सामर्थ्ययोगात्कार्याणां तद्गत्या हि सदा गतिः ॥ १३ ॥
तस्माद्विश्वसितव्यं च विग्रहं च समाचरेत् ।देशं कालं च विज्ञाय कार्याकार्यविनिश्चये ॥ १४ ॥
संधातव्यं बुधैर्नित्यं व्यवस्यं च हितार्थिभिः ।अमित्रैरपि संधेयं प्राणा रक्ष्याश्च भारत ॥ १५ ॥
यो ह्यमित्रैर्नरो नित्यं न संदध्यादपण्डितः ।न सोऽर्थमाप्नुयात्किंचित्फलान्यपि च भारत ॥ १६ ॥
यस्त्वमित्रेण संधत्ते मित्रेण च विरुध्यते ।अर्थयुक्तिं समालोक्य सुमहद्विन्दते फलम् ॥ १७ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।मार्जारस्य च संवादं न्यग्रोधे मूषकस्य च ॥ १८ ॥
वने महति कस्मिंश्चिन्न्यग्रोधः सुमहानभूत् ।लताजालपरिच्छन्नो नानाद्विजगणायुतः ॥ १९ ॥
स्कन्धवान्मेघसंकाशः शीतच्छायो मनोरमः ।वैरन्त्यमभितो जातस्तरुर्व्यालमृगाकुलः ॥ २० ॥
तस्य मूलं समाश्रित्य कृत्वा शतमुखं बिलम् ।वसति स्म महाप्राज्ञः पलितो नाम मूषकः ॥ २१ ॥
शाखाश्च तस्य संश्रित्य वसति स्म सुखं पुरः ।लोमशो नाम मार्जारः पक्षिसत्त्वावसादकः ॥ २२ ॥
तत्र चागत्य चण्डालो वैरन्त्यकृतकेतनः ।अयोजयत्तमुन्माथं नित्यमस्तं गते रवौ ॥ २३ ॥
तत्र स्नायुमयान्पाशान्यथावत्संनिधाय सः ।गृहं गत्वा सुखं शेते प्रभातामेति शर्वरीम् ॥ २४ ॥
तत्र स्म नित्यं बध्यन्ते नक्तं बहुविधा मृगाः ।कदाचित्तत्र मार्जारस्त्वप्रमत्तोऽप्यबध्यत ॥ २५ ॥
तस्मिन्बद्धे महाप्राज्ञः शत्रौ नित्याततायिनि ।तं कालं पलितो ज्ञात्वा विचचार सुनिर्भयः ॥ २६ ॥
तेनानुचरता तस्मिन्वने विश्वस्तचारिणा ।भक्षं विचरमाणेन नचिराद्दृष्टमामिषम् ॥ २७ ॥
स तमुन्माथमारुह्य तदामिषमभक्षयत् ।तस्योपरि सपत्नस्य बद्धस्य मनसा हसन् ॥ २८ ॥
आमिषे तु प्रसक्तः स कदाचिदवलोकयन् ।अपश्यदपरं घोरमात्मनः शत्रुमागतम् ॥ २९ ॥
शरप्रसूनसंकाशं महीविवरशायिनम् ।नकुलं हरिकं नाम चपलं ताम्रलोचनम् ॥ ३० ॥
तेन मूषकगन्धेन त्वरमाणमुपागतम् ।भक्षार्थं लेलिहद्वक्त्रं भूमावूर्ध्वमुखं स्थितम् ॥ ३१ ॥
शाखागतमरिं चान्यदपश्यत्कोटरालयम् ।उलूकं चन्द्रकं नाम तीक्ष्णतुण्डं क्षपाचरम् ॥ ३२ ॥
गतस्य विषयं तस्य नकुलोलूकयोस्तदा ।अथास्यासीदियं चिन्ता तत्प्राप्य सुमहद्भयम् ॥ ३३ ॥
आपद्यस्यां सुकष्टायां मरणे समुपस्थिते ।समन्ताद्भय उत्पन्ने कथं कार्यं हितैषिणा ॥ ३४ ॥
स तथा सर्वतो रुद्धः सर्वत्र समदर्शनः ।अभवद्भयसंतप्तश्चक्रे चेमां परां गतिम् ॥ ३५ ॥
आपद्विनाशभूयिष्ठा शतैकीयं च जीवितम् ।समन्तसंशया चेयमस्मानापदुपस्थिता ॥ ३६ ॥
गतं हि सहसा भूमिं नकुलो मां समाप्नुयात् ।उलूकश्चेह तिष्ठन्तं मार्जारः पाशसंक्षयात् ॥ ३७ ॥
न त्वेवास्मद्विधः प्राज्ञः संमोहं गन्तुमर्हति ।करिष्ये जीविते यत्नं यावदुच्छ्वासनिग्रहम् ॥ ३८ ॥
न हि बुद्ध्यान्विताः प्राज्ञा नीतिशास्त्रविशारदाः ।संभ्रमन्त्यापदं प्राप्य महतोऽर्थानवाप्य च ॥ ३९ ॥
न त्वन्यामिह मार्जाराद्गतिं पश्यामि सांप्रतम् ।विषमस्थो ह्ययं जन्तुः कृत्यं चास्य महन्मया ॥ ४० ॥
जीवितार्थी कथं त्वद्य प्रार्थितः शत्रुभिस्त्रिभिः ।तस्मादिममहं शत्रुं मार्जारं संश्रयामि वै ॥ ४१ ॥
क्षत्रविद्यां समाश्रित्य हितमस्योपधारये ।येनेमं शत्रुसंघातं मतिपूर्वेण वञ्चये ॥ ४२ ॥
अयमत्यन्तशत्रुर्मे वैषम्यं परमं गतः ।मूढो ग्राहयितुं स्वार्थं संगत्या यदि शक्यते ॥ ४३ ॥
कदाचिद्व्यसनं प्राप्य संधिं कुर्यान्मया सह ।बलिना संनिविष्टस्य शत्रोरपि परिग्रहः ।कार्य इत्याहुराचार्या विषमे जीवितार्थिना ॥ ४४ ॥
श्रेयान्हि पण्डितः शत्रुर्न च मित्रमपण्डितम् ।मम ह्यमित्रे मार्जारे जीवितं संप्रतिष्ठितम् ॥ ४५ ॥
हन्तैनं संप्रवक्ष्यामि हेतुमात्माभिरक्षणे ।अपीदानीमयं शत्रुः संगत्या पण्डितो भवेत् ॥ ४६ ॥
ततोऽर्थगतितत्त्वज्ञः संधिविग्रहकालवित् ।सान्त्वपूर्वमिदं वाक्यं मार्जारं मूषकोऽब्रवीत् ॥ ४७ ॥
सौहृदेनाभिभाषे त्वा कच्चिन्मार्जार जीवसि ।जीवितं हि तवेच्छामि श्रेयः साधारणं हि नौ ॥ ४८ ॥
न ते सौम्य विषत्तव्यं जीविष्यसि यथा पुरा ।अहं त्वामुद्धरिष्यामि प्राणाञ्जह्यां हि ते कृते ॥ ४९ ॥
अस्ति कश्चिदुपायोऽत्र पुष्कलः प्रतिभाति माम् ।येन शक्यस्त्वया मोक्षः प्राप्तुं श्रेयो यथा मया ॥ ५० ॥
मया ह्युपायो दृष्टोऽयं विचार्य मतिमात्मनः ।आत्मार्थं च त्वदर्थं च श्रेयः साधारणं हि नौ ॥ ५१ ॥
इदं हि नकुलोलूकं पापबुद्ध्यभितः स्थितम् ।न धर्षयति मार्जार तेन मे स्वस्ति सांप्रतम् ॥ ५२ ॥
कूजंश्चपलनेत्रोऽयं कौशिको मां निरीक्षते ।नगशाखाग्रहस्तिष्ठंस्तस्याहं भृशमुद्विजे ॥ ५३ ॥
सतां साप्तपदं सख्यं सवासो मेऽसि पण्डितः ।सांवास्यकं करिष्यामि नास्ति ते मृत्युतो भयम् ॥ ५४ ॥
न हि शक्नोषि मार्जार पाशं छेत्तुं विना मया ।अहं छेत्स्यामि ते पाशं यदि मां त्वं न हिंससि ॥ ५५ ॥
त्वमाश्रितो नगस्याग्रं मूलं त्वहमुपाश्रितः ।चिरोषिताविहावां वै वृक्षेऽस्मिन्विदितं हि ते ॥ ५६ ॥
यस्मिन्नाश्वसते कश्चिद्यश्च नाश्वसते क्वचित् ।न तौ धीराः प्रशंसन्ति नित्यमुद्विग्नचेतसौ ॥ ५७ ॥
तस्माद्विवर्धतां प्रीतिः सत्या संगतिरस्तु नौ ।कालातीतमपार्थं हि न प्रशंसन्ति पण्डिताः ॥ ५८ ॥
अर्थयुक्तिमिमां तावद्यथाभूतां निशामय ।तव जीवितमिच्छामि त्वं ममेच्छसि जीवितम् ॥ ५९ ॥
कश्चित्तरति काष्ठेन सुगम्भीरां महानदीम् ।स तारयति तत्काष्ठं स च काष्ठेन तार्यते ॥ ६० ॥
ईदृशो नौ समायोगो भविष्यति सुनिस्तरः ।अहं त्वां तारयिष्यामि त्वं च मां तारयिष्यसि ॥ ६१ ॥
एवमुक्त्वा तु पलितस्तदर्थमुभयोर्हितम् ।हेतुमद्ग्रहणीयं च कालाकाङ्क्षी व्यपैक्षत ॥ ६२ ॥
अथ सुव्याहृतं तस्य श्रुत्वा शत्रुर्विचक्षणः ।हेतुमद्ग्रहणीयार्थं मार्जारो वाक्यमब्रवीत् ॥ ६३ ॥
बुद्धिमान्वाक्यसंपन्नस्तद्वाक्यमनुवर्णयन् ।तामवस्थामवेक्ष्यान्त्यां साम्नैव प्रत्यपूजयत् ॥ ६४ ॥
ततस्तीक्ष्णाग्रदशनो वैडूर्यमणिलोचनः ।मूषकं मन्दमुद्वीक्ष्य मार्जारो लोमशोऽब्रवीत् ॥ ६५ ॥
नन्दामि सौम्य भद्रं ते यो मां जीवन्तमिच्छसि ।श्रेयश्च यदि जानीषे क्रियतां मा विचारय ॥ ६६ ॥
अहं हि दृढमापन्नस्त्वमापन्नतरो मया ।द्वयोरापन्नयोः संधिः क्रियतां मा विचारय ॥ ६७ ॥
विधत्स्व प्राप्तकालं यत्कार्यं सिध्यतु चावयोः ।मयि कृच्छ्राद्विनिर्मुक्ते न विनङ्क्ष्यति ते कृतम् ॥ ६८ ॥
न्यस्तमानोऽस्मि भक्तोऽस्मि शिष्यस्त्वद्धितकृत्तथा ।निदेशवशवर्ती च भवन्तं शरणं गतः ॥ ६९ ॥
इत्येवमुक्तः पलितो मार्जारं वशमागतम् ।वाक्यं हितमुवाचेदमभिनीतार्थमर्थवत् ॥ ७० ॥
उदारं यद्भवानाह नैतच्चित्रं भवद्विधे ।विदितो यस्तु मार्गो मे हितार्थं शृणु तं मम ॥ ७१ ॥
अहं त्वानुप्रवेक्ष्यामि नकुलान्मे महद्भयम् ।त्रायस्व मां मा वधीश्च शक्तोऽस्मि तव मोक्षणे ॥ ७२ ॥
उलूकाच्चैव मां रक्ष क्षुद्रः प्रार्थयते हि माम् ।अहं छेत्स्यामि ते पाशान्सखे सत्येन ते शपे ॥ ७३ ॥
तद्वचः संगतं श्रुत्वा लोमशो युक्तमर्थवत् ।हर्षादुद्वीक्ष्य पलितं स्वागतेनाभ्यपूजयत् ॥ ७४ ॥
स तं संपूज्य पलितं मार्जारः सौहृदे स्थितः ।सुविचिन्त्याब्रवीद्धीरः प्रीतस्त्वरित एव हि ॥ ७५ ॥
क्षिप्रमागच्छ भद्रं ते त्वं मे प्राणसमः सखा ।तव प्राज्ञ प्रसादाद्धि क्षिप्रं प्राप्स्यामि जीवितम् ॥ ७६ ॥
यद्यदेवंगतेनाद्य शक्यं कर्तुं मया तव ।तदाज्ञापय कर्ताहं संधिरेवास्तु नौ सखे ॥ ७७ ॥
अस्मात्ते संशयान्मुक्तः समित्रगणबान्धवः ।सर्वकार्याणि कर्ताहं प्रियाणि च हितानि च ॥ ७८ ॥
मुक्तश्च व्यसनादस्मात्सौम्याहमपि नाम ते ।प्रीतिमुत्पादयेयं च प्रतिकर्तुं च शक्नुयाम् ॥ ७९ ॥
ग्राहयित्वा तु तं स्वार्थं मार्जारं मूषकस्तदा ।प्रविवेश सुविस्रब्धः सम्यगर्थांश्चचार ह ॥ ८० ॥
एवमाश्वासितो विद्वान्मार्जारेण स मूषकः ।मार्जारोरसि विस्रब्धः सुष्वाप पितृमातृवत् ॥ ८१ ॥
लीनं तु तस्य गात्रेषु मार्जारस्याथ मूषकम् ।तौ दृष्ट्वा नकुलोलूकौ निराशौ जग्मतुर्गृहान् ॥ ८२ ॥
लीनस्तु तस्य गात्रेषु पलितो देशकालवित् ।चिच्छेद पाशान्नृपते कालाकाङ्क्षी शनैः शनैः ॥ ८३ ॥
अथ बन्धपरिक्लिष्टो मार्जारो वीक्ष्य मूषकम् ।छिन्दन्तं वै तदा पाशानत्वरन्तं त्वरान्वितः ॥ ८४ ॥
तमत्वरन्तं पलितं पाशानां छेदने तदा ।संचोदयितुमारेभे मार्जारो मूषकं तदा ॥ ८५ ॥
किं सौम्य नाभित्वरसे किं कृतार्थोऽवमन्यसे ।छिन्धि पाशानमित्रघ्न पुरा श्वपच एति सः ॥ ८६ ॥
इत्युक्तस्त्वरता तेन मतिमान्पलितोऽब्रवीत् ।मार्जारमकृतप्रज्ञं वश्यमात्महितं वचः ॥ ८७ ॥
तूष्णीं भव न ते सौम्य त्वरा कार्या न संभ्रमः ।वयमेवात्र कालज्ञा न कालः परिहास्यते ॥ ८८ ॥
अकाले कृत्यमारब्धं कर्तुं नार्थाय कल्पते ।तदेव काल आरब्धं महतेऽर्थाय कल्पते ॥ ८९ ॥
अकालविप्रमुक्तान्मे त्वत्त एव भयं भवेत् ।तस्मात्कालं प्रतीक्षस्व किमिति त्वरसे सखे ॥ ९० ॥
यावत्पश्यामि चण्डालमायान्तं शस्त्रपाणिनम् ।ततश्छेत्स्यामि ते पाशं प्राप्ते साधारणे भये ॥ ९१ ॥
तस्मिन्काले प्रमुक्तस्त्वं तरुमेवाधिरोहसि ।न हि ते जीवितादन्यत्किंचित्कृत्यं भविष्यति ॥ ९२ ॥
ततो भवत्यतिक्रान्ते त्रस्ते भीते च लोमश ।अहं बिलं प्रवेक्ष्यामि भवाञ्शाखां गमिष्यति ॥ ९३ ॥
एवमुक्तस्तु मार्जारो मूषकेणात्मनो हितम् ।वचनं वाक्यतत्त्वज्ञो जीवितार्थी महामतिः ॥ ९४ ॥
अथात्मकृत्यत्वरितः सम्यक्प्रश्रयमाचरन् ।उवाच लोमशो वाक्यं मूषकं चिरकारिणम् ॥ ९५ ॥
न ह्येवं मित्रकार्याणि प्रीत्या कुर्वन्ति साधवः ।यथा त्वं मोक्षितः कृच्छ्रात्त्वरमाणेन वै मया ॥ ९६ ॥
तथैव त्वरमाणेन त्वया कार्यं हितं मम ।यत्नं कुरु महाप्राज्ञ यथा स्वस्त्यावयोर्भवेत् ॥ ९७ ॥
अथ वा पूर्ववैरं त्वं स्मरन्कालं विकर्षसि ।पश्य दुष्कृतकर्मत्वं व्यक्तमायुःक्षयो मम ॥ ९८ ॥
यच्च किंचिन्मयाज्ञानात्पुरस्ताद्विप्रियं कृतम् ।न तन्मनसि कर्तव्यं क्षमये त्वां प्रसीद मे ॥ ९९ ॥
तमेवंवादिनं प्राज्ञः शास्त्रविद्बुद्धिसंमतः ।उवाचेदं वचः श्रेष्ठं मार्जारं मूषकस्तदा ॥ १०० ॥
श्रुतं मे तव मार्जार स्वमर्थं परिगृह्णतः ।ममापि त्वं विजानीहि स्वमर्थं परिगृह्णतः ॥ १०१ ॥
यन्मित्रं भीतवत्साध्यं यन्मित्रं भयसंहितम् ।सुरक्षितं ततः कार्यं पाणिः सर्पमुखादिव ॥ १०२ ॥
कृत्वा बलवता संधिमात्मानं यो न रक्षति ।अपथ्यमिव तद्भुक्तं तस्यानर्थाय कल्पते ॥ १०३ ॥
न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचित्सुहृत् ।अर्थैरर्था निबध्यन्ते गजैर्वनगजा इव ॥ १०४ ॥
न हि कश्चित्कृते कार्ये कर्तारं समवेक्षते ।तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥ १०५ ॥
तस्मिन्कालेऽपि च भवान्दिवाकीर्तिभयान्वितः ।मम न ग्रहणे शक्तः पलायनपरायणः ॥ १०६ ॥
छिन्नं तु तन्तुबाहुल्यं तन्तुरेकोऽवशेषितः ।छेत्स्याम्यहं तदप्याशु निर्वृतो भव लोमश ॥ १०७ ॥
तयोः संवदतोरेवं तथैवापन्नयोर्द्वयोः ।क्षयं जगाम सा रात्रिर्लोमशं चाविशद्भयम् ॥ १०८ ॥
ततः प्रभातसमये विकृतः कृष्णपिङ्गलः ।स्थूलस्फिग्विकचो रूक्षः श्वचक्रपरिवारितः ॥ १०९ ॥
शङ्कुकर्णो महावक्त्रः पलितो घोरदर्शनः ।परिघो नाम चण्डालः शस्त्रपाणिरदृश्यत ॥ ११० ॥
तं दृष्ट्वा यमदूताभं मार्जारस्त्रस्तचेतनः ।उवाच पलितं भीतः किमिदानीं करिष्यसि ॥ १११ ॥
अथ चापि सुसंत्रस्तौ तं दृष्ट्वा घोरदर्शनम् ।क्षणेन नकुलोलूकौ नैराश्यं जग्मतुस्तदा ॥ ११२ ॥
बलिनौ मतिमन्तौ च संघातं चाप्युपागतौ ।अशक्यौ सुनयात्तस्मात्संप्रधर्षयितुं बलात् ॥ ११३ ॥
कार्यार्थं कृतसंधी तौ दृष्ट्वा मार्जारमूषकौ ।उलूकनकुलौ तूर्णं जग्मतुः स्वं स्वमालयम् ॥ ११४ ॥
ततश्चिच्छेद तं तन्तुं मार्जारस्य स मूषकः ।विप्रमुक्तोऽथ मार्जारस्तमेवाभ्यपतद्द्रुमम् ॥ ११५ ॥
स च तस्माद्भयान्मुक्तो मुक्तो घोरेण शत्रुणा ।बिलं विवेश पलितः शाखां भेजे च लोमशः ॥ ११६ ॥
उन्माथमप्यथादाय चण्डालो वीक्ष्य सर्वशः ।विहताशः क्षणेनाथ तस्माद्देशादपाक्रमत् ।जगाम च स्वभवनं चण्डालो भरतर्षभ ॥ ११७ ॥
ततस्तस्माद्भयान्मुक्तो दुर्लभं प्राप्य जीवितम् ।बिलस्थं पादपाग्रस्थः पलितं लोमशोऽब्रवीत् ॥ ११८ ॥
अकृत्वा संविदं कांचित्सहसाहमुपप्लुतः ।कृतज्ञं कृतकल्याणं कच्चिन्मां नाभिशङ्कसे ॥ ११९ ॥
गत्वा च मम विश्वासं दत्त्वा च मम जीवितम् ।मित्रोपभोगसमये किं त्वं नैवोपसर्पसि ॥ १२० ॥
कृत्वा हि पूर्वं मित्राणि यः पश्चान्नानुतिष्ठति ।न स मित्राणि लभते कृच्छ्रास्वापत्सु दुर्मतिः ॥ १२१ ॥
तत्कृतोऽहं त्वया मित्रं सामर्थ्यादात्मनः सखे ।स मां मित्रत्वमापन्नमुपभोक्तुं त्वमर्हसि ॥ १२२ ॥
यानि मे सन्ति मित्राणि ये च मे सन्ति बान्धवाः ।सर्वे त्वां पूजयिष्यन्ति शिष्या गुरुमिव प्रियम् ॥ १२३ ॥
अहं च पूजयिष्ये त्वां समित्रगणबान्धवम् ।जीवितस्य प्रदातारं कृतज्ञः को न पूजयेत् ॥ १२४ ॥
ईश्वरो मे भवानस्तु शरीरस्य गृहस्य च ।अर्थानां चैव सर्वेषामनुशास्ता च मे भव ॥ १२५ ॥
अमात्यो मे भव प्राज्ञ पितेव हि प्रशाधि माम् ।न तेऽस्ति भयमस्मत्तो जीवितेनात्मनः शपे ॥ १२६ ॥
बुद्ध्या त्वमुशनाः साक्षाद्बले त्वधिकृता वयम् ।त्वन्मन्त्रबलयुक्तो हि विन्देत जयमेव ह ॥ १२७ ॥
एवमुक्तः परं सान्त्वं मार्जारेण स मूषकः ।उवाच परमार्थज्ञः श्लक्ष्णमात्महितं वचः ॥ १२८ ॥
यद्भवानाह तत्सर्वं मया ते लोमश श्रुतम् ।ममापि तावद्ब्रुवतः शृणु यत्प्रतिभाति माम् ॥ १२९ ॥
वेदितव्यानि मित्राणि बोद्धव्याश्चापि शत्रवः ।एतत्सुसूक्ष्मं लोकेऽस्मिन्दृश्यते प्राज्ञसंमतम् ॥ १३० ॥
शत्रुरूपाश्च सुहृदो मित्ररूपाश्च शत्रवः ।सान्त्वितास्ते न बुध्यन्ते रागलोभवशं गताः ॥ १३१ ॥
नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते ।सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥ १३२ ॥
यो यस्मिञ्जीवति स्वार्थं पश्येत्तावत्स जीवति ।स तस्य तावन्मित्रं स्याद्यावन्न स्याद्विपर्ययः ॥ १३३ ॥
नास्ति मैत्री स्थिरा नाम न च ध्रुवमसौहृदम् ।अर्थयुक्त्या हि जायन्ते मित्राणि रिपवस्तथा ॥ १३४ ॥
मित्रं च शत्रुतामेति कस्मिंश्चित्कालपर्यये ।शत्रुश्च मित्रतामेति स्वार्थो हि बलवत्तरः ॥ १३५ ॥
यो विश्वसति मित्रेषु न चाश्वसति शत्रुषु ।अर्थयुक्तिमविज्ञाय चलितं तस्य जीवितम् ॥ १३६ ॥
अर्थयुक्तिमविज्ञाय यः शुभे कुरुते मतिम् ।मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः ॥ १३७ ॥
न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् ।विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ १३८ ॥
अर्थयुक्त्या हि दृश्यन्ते पिता माता सुतास्तथा ।मातुला भागिनेयाश्च तथा संबन्धिबान्धवाः ॥ १३९ ॥
पुत्रं हि मातापितरु त्यजतः पतितं प्रियम् ।लोको रक्षति चात्मानं पश्य स्वार्थस्य सारताम् ॥ १४० ॥
तं मन्ये निकृतिप्रज्ञं यो मोक्षं प्रत्यनन्तरम् ।कृत्यं मृगयसे कर्तुं सुखोपायमसंशयम् ॥ १४१ ॥
अस्मिन्निलय एव त्वं न्यग्रोधादवतारितः ।पूर्वं निविष्टमुन्माथं चपलत्वान्न बुद्धवान् ॥ १४२ ॥
आत्मनश्चपलो नास्ति कुतोऽन्येषां भविष्यति ।तस्मात्सर्वाणि कार्याणि चपलो हन्त्यसंशयम् ॥ १४३ ॥
ब्रवीति मधुरं कंचित्प्रियो मे ह भवानिति ।तन्मिथ्याकरणं सर्वं विस्तरेणापि मे शृणु ॥ १४४ ॥
कारणात्प्रियतामेति द्वेष्यो भवति कारणात् ।अर्थार्थी जीवलोकोऽयं न कश्चित्कस्यचित्प्रियः ॥ १४५ ॥
सख्यं सोदरयोर्भ्रात्रोर्दंपत्योर्वा परस्परम् ।कस्यचिन्नाभिजानामि प्रीतिं निष्कारणामिह ॥ १४६ ॥
यद्यपि भ्रातरः क्रुद्धा भार्या वा कारणान्तरे ।स्वभावतस्ते प्रीयन्ते नेतरः प्रीयते जनः ॥ १४७ ॥
प्रियो भवति दानेन प्रियवादेन चापरः ।मन्त्रहोमजपैरन्यः कार्यार्थं प्रीयते जनः ॥ १४८ ॥
उत्पन्ने कारणे प्रीतिर्नास्ति नौ कारणान्तरे ।प्रध्वस्ते कारणस्थाने सा प्रीतिर्विनिवर्तते ॥ १४९ ॥
किं नु तत्कारणं मन्ये येनाहं भवतः प्रियः ।अन्यत्राभ्यवहारार्थात्तत्रापि च बुधा वयम् ॥ १५० ॥
कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते ।स्वार्थं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते ॥ १५१ ॥
न त्वीदृशं त्वया वाच्यं विदुषि स्वार्थपण्डिते ।अकालेऽविषमस्थस्य स्वार्थहेतुरयं तव ॥ १५२ ॥
तस्मान्नाहं चले स्वार्थात्सुस्थितः संधिविग्रहे ।अभ्राणामिव रूपाणि विकुर्वन्ति क्षणे क्षणे ॥ १५३ ॥
अद्यैव हि रिपुर्भूत्वा पुनरद्यैव सौहृदम् ।पुनश्च रिपुरद्यैव युक्तीनां पश्य चापलम् ॥ १५४ ॥
आसीत्तावत्तु मैत्री नौ यावद्धेतुरभूत्पुरा ।सा गता सह तेनैव कालयुक्तेन हेतुना ॥ १५५ ॥
त्वं हि मेऽत्यन्ततः शत्रुः सामर्थ्यान्मित्रतां गतः ।तत्कृत्यमभिनिर्वृत्तं प्रकृतिः शत्रुतां गता ॥ १५६ ॥
सोऽहमेवं प्रणीतानि ज्ञात्वा शास्त्राणि तत्त्वतः ।प्रविशेयं कथं पाशं त्वत्कृतं तद्वदस्व मे ॥ १५७ ॥
त्वद्वीर्येण विमुक्तोऽहं मद्वीर्येण तथा भवान् ।अन्योन्यानुग्रहे वृत्ते नास्ति भूयः समागमः ॥ १५८ ॥
त्वं हि सौम्य कृतार्थोऽद्य निर्वृत्तार्थास्तथा वयम् ।न तेऽस्त्यन्यन्मया कृत्यं किंचिदन्यत्र भक्षणात् ॥ १५९ ॥
अहमन्नं भवान्भोक्ता दुर्बलोऽहं भवान्बली ।नावयोर्विद्यते संधिर्नियुक्ते विषमे बले ॥ १६० ॥
संमन्येऽहं तव प्रज्ञां यन्मोक्षात्प्रत्यनन्तरम् ।भक्ष्यं मृगयसे नूनं सुखोपायमसंशयम् ॥ १६१ ॥
भक्ष्यार्थमेव बद्धस्त्वं स मुक्तः प्रसृतः क्षुधा ।शास्त्रज्ञमभिसंधाय नूनं भक्षयिताद्य माम् ॥ १६२ ॥
जानामि क्षुधितं हि त्वामाहारसमयश्च ते ।स त्वं मामभिसंधाय भक्ष्यं मृगयसे पुनः ॥ १६३ ॥
यच्चापि पुत्रदारं स्वं तत्संनिसृजसे मयि ।शुश्रूषां नाम मे कर्तुं सखे मम न तत्क्षमम् ॥ १६४ ॥
त्वया मां सहितं दृष्ट्वा प्रिया भार्या सुताश्च ये ।कस्मान्मां ते न खादेयुर्हृष्टाः प्रणयिनस्त्वयि ॥ १६५ ॥
नाहं त्वया समेष्यामि वृत्तो हेतुः समागमे ।शिवं ध्यायस्व मेऽत्रस्थः सुकृतं स्मर्यते यदि ॥ १६६ ॥
शत्रोरन्नाद्यभूतः सन्क्लिष्टस्य क्षुधितस्य च ।भक्ष्यं मृगयमाणस्य कः प्राज्ञो विषयं व्रजेत् ॥ १६७ ॥
स्वस्ति तेऽस्तु गमिष्यामि दूरादपि तवोद्विजे ।नाहं त्वया समेष्यामि निर्वृतो भव लोमश ॥ १६८ ॥
बलवत्संनिकर्षो हि न कदाचित्प्रशस्यते ।प्रशान्तादपि मे प्राज्ञ भेतव्यं बलिनः सदा ॥ १६९ ॥
यदि त्वर्थेन मे कार्यं ब्रूहि किं करवाणि ते ।कामं सर्वं प्रदास्यामि न त्वात्मानं कदाचन ॥ १७० ॥
आत्मार्थे संततिस्त्याज्या राज्यं रत्नं धनं तथा ।अपि सर्वस्वमुत्सृज्य रक्षेदात्मानमात्मना ॥ १७१ ॥
ऐश्वर्यधनरत्नानां प्रत्यमित्रेऽपि तिष्ठताम् ।दृष्टा हि पुनरावृत्तिर्जीवतामिति नः श्रुतम् ॥ १७२ ॥
न त्वात्मनः संप्रदानं धनरत्नवदिष्यते ।आत्मा तु सर्वतो रक्ष्यो दारैरपि धनैरपि ॥ १७३ ॥
आत्मरक्षिततन्त्राणां सुपरीक्षितकारिणाम् ।आपदो नोपपद्यन्ते पुरुषाणां स्वदोषजाः ॥ १७४ ॥
शत्रून्सम्यग्विजानन्ति दुर्बला ये बलीयसः ।तेषां न चाल्यते बुद्धिरात्मार्थं कृतनिश्चया ॥ १७५ ॥
इत्यभिव्यक्तमेवासौ पलितेनावभर्त्सितः ।मार्जारो व्रीडितो भूत्वा मूषकं वाक्यमब्रवीत् ॥ १७६ ॥
संमन्येऽहं तव प्रज्ञां यस्त्वं मम हिते रतः ।उक्तवानर्थतत्त्वेन मया संभिन्नदर्शनः ॥ १७७ ॥
न तु मामन्यथा साधो त्वं विज्ञातुमिहार्हसि ।प्राणप्रदानजं त्वत्तो मम सौहृदमागतम् ॥ १७८ ॥
धर्मज्ञोऽस्मि गुणज्ञोऽस्मि कृतज्ञोऽस्मि विशेषतः ।मित्रेषु वत्सलश्चास्मि त्वद्विधेषु विशेषतः ॥ १७९ ॥
तन्मामेवंगते साधो न यावयितुमर्हसि ।त्वया हि याव्यमानोऽहं प्राणाञ्जह्यां सबान्धवः ॥ १८० ॥
धिक्शब्दो हि बुधैर्दृष्टो मद्विधेषु मनस्विषु ।मरणं धर्मतत्त्वज्ञ न मां शङ्कितुमर्हसि ॥ १८१ ॥
इति संस्तूयमानो हि मार्जारेण स मूषकः ।मनसा भावगम्भीरं मार्जारं वाक्यमब्रवीत् ॥ १८२ ॥
साधुर्भवाञ्श्रुतार्थोऽस्मि प्रीयते न च विश्वसे ।संस्तवैर्वा धनौघैर्वा नाहं शक्यः पुनस्त्वया ॥ १८३ ॥
न ह्यमित्रवशं यान्ति प्राज्ञा निष्कारणं सखे ।अस्मिन्नर्थे च गाथे द्वे निबोधोशनसा कृते ॥ १८४ ॥
शत्रुसाधारणे कृत्ये कृत्वा संधिं बलीयसा ।समाहितश्चरेद्युक्त्या कृतार्थश्च न विश्वसेत् ॥ १८५ ॥
तस्मात्सर्वास्ववस्थासु रक्षेज्जीवितमात्मनः ।द्रव्याणि संततिश्चैव सर्वं भवति जीवतः ॥ १८६ ॥
संक्षेपो नीतिशास्त्राणामविश्वासः परो मतः ।नृषु तस्मादविश्वासः पुष्कलं हितमात्मनः ॥ १८७ ॥
वध्यन्ते न ह्यविश्वस्ताः शत्रुभिर्दुर्बला अपि ।विश्वस्तास्त्वाशु वध्यन्ते बलवन्तोऽपि दुर्बलैः ॥ १८८ ॥
त्वद्विधेभ्यो मया ह्यात्मा रक्ष्यो मार्जार सर्वदा ।रक्ष त्वमपि चात्मानं चण्डालाज्जातिकिल्बिषात् ॥ १८९ ॥
स तस्य ब्रुवतस्त्वेवं संत्रासाज्जातसाध्वसः ।स्वबिलं हि जवेनाशु मार्जारः प्रययौ ततः ॥ १९० ॥
ततः शास्त्रार्थतत्त्वज्ञो बुद्धिसामर्थ्यमात्मनः ।विश्राव्य पलितः प्राज्ञो बिलमन्यज्जगाम ह ॥ १९१ ॥
एवं प्रज्ञावता बुद्ध्या दुर्बलेन महाबलाः ।एकेन बहवोऽमित्राः पलितेनाभिसंधिताः ॥ १९२ ॥
अरिणापि समर्थेन संधिं कुर्वीत पण्डितः ।मूषकश्च बिडालश्च मुक्तावन्योन्यसंश्रयात् ॥ १९३ ॥
इत्येष क्षत्रधर्मस्य मया मार्गोऽनुदर्शितः ।विस्तरेण महीपाल संक्षेपेण पुनः शृणु ॥ १९४ ॥
अन्योन्यकृतवैरौ तु चक्रतुः प्रीतिमुत्तमाम् ।अन्योन्यमभिसंधातुमभूच्चैव तयोर्मतिः ॥ १९५ ॥
तत्र प्राज्ञोऽभिसंधत्ते सम्यग्बुद्धिबलाश्रयात् ।अभिसंधीयते प्राज्ञः प्रमादादपि चाबुधैः ॥ १९६ ॥
तस्मादभीतवद्भीतो विश्वस्तवदविश्वसन् ।न ह्यप्रमत्तश्चलति चलितो वा विनश्यति ॥ १९७ ॥
कालेन रिपुणा संधिः काले मित्रेण विग्रहः ।कार्य इत्येव तत्त्वज्ञाः प्राहुर्नित्यं युधिष्ठिर ॥ १९८ ॥
एवं मत्वा महाराज शास्त्रार्थमभिगम्य च ।अभियुक्तोऽप्रमत्तश्च प्राग्भयाद्भीतवच्चरेत् ॥ १९९ ॥
भीतवत्संविधिः कार्यः प्रतिसंधिस्तथैव च ।भयादुत्पद्यते बुद्धिरप्रमत्ताभियोगजा ॥ २०० ॥
न भयं विद्यते राजन्भीतस्यानागते भये ।अभीतस्य तु विस्रम्भात्सुमहज्जायते भयम् ॥ २०१ ॥
न भीरुरिति चात्यन्तं मन्त्रोऽदेयः कथंचन ।अविज्ञानाद्धि विज्ञाते गच्छेदास्पददर्शिषु ॥ २०२ ॥
तस्मादभीतवद्भीतो विश्वस्तवदविश्वसन् ।कार्याणां गुरुतां बुद्ध्वा नानृतं किंचिदाचरेत् ॥ २०३ ॥
एवमेतन्मया प्रोक्तमितिहासं युधिष्ठिर ।श्रुत्वा त्वं सुहृदां मध्ये यथावत्समुपाचर ॥ २०४ ॥
उपलभ्य मतिं चाग्र्यामरिमित्रान्तरं तथा ।संधिविग्रहकालं च मोक्षोपायं तथापदि ॥ २०५ ॥
शत्रुसाधारणे कृत्ये कृत्वा संधिं बलीयसा ।समागमं चरेद्युक्त्या कृतार्थो न च विश्वसेत् ॥ २०६ ॥
अविरुद्धां त्रिवर्गेण नीतिमेतां युधिष्ठिर ।अभ्युत्तिष्ठ श्रुतादस्माद्भूयस्त्वं रञ्जयन्प्रजाः ॥ २०७ ॥
ब्राह्मणैश्चापि ते सार्धं यात्रा भवतु पाण्डव ।ब्राह्मणा हि परं श्रेयो दिवि चेह च भारत ॥ २०८ ॥
एते धर्मस्य वेत्तारः कृतज्ञाः सततं प्रभो ।पूजिताः शुभकर्माणः पूर्वजित्या नराधिप ॥ २०९ ॥
राज्यं श्रेयः परं राजन्यशः कीर्तिं च लप्स्यसे ।कुलस्य संततिं चैव यथान्यायं यथाक्रमम् ॥ २१० ॥
द्वयोरिमं भारत संधिविग्रहं सुभाषितं बुद्धिविशेषकारितम् ।तथान्ववेक्ष्य क्षितिपेन सर्वदा निषेवितव्यं नृप शत्रुमण्डले ॥ २११ ॥
« »