Click on words to see what they mean.

भीष्म उवाच ।अत्रैव चेदमव्यग्रः शृण्वाख्यानमनुत्तमम् ।दीर्घसूत्रं समाश्रित्य कार्याकार्यविनिश्चये ॥ १ ॥
नातिगाधे जलस्थाये सुहृदः शकुलास्त्रयः ।प्रभूतमत्स्ये कौन्तेय बभूवुः सहचारिणः ॥ २ ॥
अत्रैकः प्राप्तकालज्ञो दीर्घदर्शी तथापरः ।दीर्घसूत्रश्च तत्रैकस्त्रयाणां जलचारिणाम् ॥ ३ ॥
कदाचित्तज्जलस्थायं मत्स्यबन्धाः समन्ततः ।निःस्रावयामासुरथो निम्नेषु विविधैर्मुखैः ॥ ४ ॥
प्रक्षीयमाणं तं बुद्ध्वा जलस्थायं भयागमे ।अब्रवीद्दीर्घदर्शी तु तावुभौ सुहृदौ तदा ॥ ५ ॥
इयमापत्समुत्पन्ना सर्वेषां सलिलौकसाम् ।शीघ्रमन्यत्र गच्छामः पन्था यावन्न दुष्यति ॥ ६ ॥
अनागतमनर्थं हि सुनयैर्यः प्रबाधते ।न स संशयमाप्नोति रोचतां वां व्रजामहे ॥ ७ ॥
दीर्घसूत्रस्तु यस्तत्र सोऽब्रवीत्सम्यगुच्यते ।न तु कार्या त्वरा यावदिति मे निश्चिता मतिः ॥ ८ ॥
अथ संप्रतिपत्तिज्ञः प्राब्रवीद्दीर्घदर्शिनम् ।प्राप्ते काले न मे किंचिन्न्यायतः परिहास्यते ॥ ९ ॥
एवमुक्तो निराक्रामद्दीर्घदर्शी महामतिः ।जगाम स्रोतसैकेन गम्भीरसलिलाशयम् ॥ १० ॥
ततः प्रस्रुततोयं तं समीक्ष्य सलिलाशयम् ।बबन्धुर्विविधैर्योगैर्मत्स्यान्मत्स्योपजीविनः ॥ ११ ॥
विलोड्यमाने तस्मिंस्तु स्रुततोये जलाशये ।अगच्छद्ग्रहणं तत्र दीर्घसूत्रः सहापरैः ॥ १२ ॥
उद्दानं क्रियमाणं च मत्स्यानां वीक्ष्य रज्जुभिः ।प्रविश्यान्तरमन्येषामग्रसत्प्रतिपत्तिमान् ॥ १३ ॥
ग्रस्तमेव तदुद्दानं गृहीत्वास्त तथैव सः ।सर्वानेव तु तांस्तत्र ते विदुर्ग्रथिता इति ॥ १४ ॥
ततः प्रक्षाल्यमानेषु मत्स्येषु विमले जले ।त्यक्त्वा रज्जुं विमुक्तोऽभूच्छीघ्रं संप्रतिपत्तिमान् ॥ १५ ॥
दीर्घसूत्रस्तु मन्दात्मा हीनबुद्धिरचेतनः ।मरणं प्राप्तवान्मूढो यथैवोपहतेन्द्रियः ॥ १६ ॥
एवं प्राप्ततमं कालं यो मोहान्नावबुध्यते ।स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा झषः ॥ १७ ॥
आदौ न कुरुते श्रेयः कुशलोऽस्मीति यः पुमान् ।स संशयमवाप्नोति यथा संप्रतिपत्तिमान् ॥ १८ ॥
अनागतविधानं तु यो नरः कुरुते क्षमम् ।श्रेयः प्राप्नोति सोऽत्यर्थं दीर्घदर्शी यथा ह्यसौ ॥ १९ ॥
कलाः काष्ठा मुहूर्ताश्च दिना नाड्यः क्षणा लवाः ।पक्षा मासाश्च ऋतवस्तुल्याः संवत्सराणि च ॥ २० ॥
पृथिवी देश इत्युक्तः कालः स च न दृश्यते ।अभिप्रेतार्थसिद्ध्यर्थं न्यायतो यच्च तत्तथा ॥ २१ ॥
एतौ धर्मार्थशास्त्रेषु मोक्षशास्त्रेषु चर्षिभिः ।प्रधानाविति निर्दिष्टौ कामेशाभिमतौ नृणाम् ॥ २२ ॥
परीक्ष्यकारी युक्तस्तु सम्यक्समुपपादयेत् ।देशकालावभिप्रेतौ ताभ्यां फलमवाप्नुयात् ॥ २३ ॥
« »