Click on words to see what they mean.

युधिष्ठिर उवाच ।तात धर्मार्थकामानां श्रोतुमिच्छामि निश्चयम् ।लोकयात्रा हि कार्त्स्न्येन त्रिष्वेतेषु प्रतिष्ठिता ॥ १ ॥
धर्मार्थकामाः किंमूलास्त्रयाणां प्रभवश्च कः ।अन्योन्यं चानुषज्जन्ते वर्तन्ते च पृथक्पृथक् ॥ २ ॥
भीष्म उवाच ।यदा ते स्युः सुमनसो लोकसंस्थार्थनिश्चये ।कालप्रभवसंस्थासु सज्जन्ते च त्रयस्तदा ॥ ३ ॥
धर्ममूलस्तु देहोऽर्थः कामोऽर्थफलमुच्यते ।संकल्पमूलास्ते सर्वे संकल्पो विषयात्मकः ॥ ४ ॥
विषयाश्चैव कार्त्स्न्येन सर्व आहारसिद्धये ।मूलमेतत्त्रिवर्गस्य निवृत्तिर्मोक्ष उच्यते ॥ ५ ॥
धर्मः शरीरसंगुप्तिर्धर्मार्थं चार्थ इष्यते ।कामो रतिफलश्चात्र सर्वे चैते रजस्वलाः ॥ ६ ॥
संनिकृष्टांश्चरेदेनान्न चैनान्मनसा त्यजेत् ।विमुक्तस्तमसा सर्वान्धर्मादीन्कामनैष्ठिकान् ॥ ७ ॥
श्रेष्ठबुद्धिस्त्रिवर्गस्य यदयं प्राप्नुयात्क्षणात् ।बुद्ध्या बुध्येदिहार्थे न तदह्ना तु निकृष्टया ॥ ८ ॥
अपध्यानमलो धर्मो मलोऽर्थस्य निगूहनम् ।संप्रमोदमलः कामो भूयः स्वगुणवर्तितः ॥ ९ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।कामन्दस्य च संवादमङ्गारिष्ठस्य चोभयोः ॥ १० ॥
कामन्दमृषिमासीनमभिवाद्य नराधिपः ।अङ्गारिष्ठोऽथ पप्रच्छ कृत्वा समयपर्ययम् ॥ ११ ॥
यः पापं कुरुते राजा काममोहबलात्कृतः ।प्रत्यासन्नस्य तस्यर्षे किं स्यात्पापप्रणाशनम् ॥ १२ ॥
अधर्मो धर्म इति ह योऽज्ञानादाचरेदिह ।तं चापि प्रथितं लोके कथं राजा निवर्तयेत् ॥ १३ ॥
कामन्द उवाच ।यो धर्मार्थौ समुत्सृज्य काममेवानुवर्तते ।स धर्मार्थपरित्यागात्प्रज्ञानाशमिहार्छति ॥ १४ ॥
प्रज्ञाप्रणाशको मोहस्तथा धर्मार्थनाशकः ।तस्मान्नास्तिकता चैव दुराचारश्च जायते ॥ १५ ॥
दुराचारान्यदा राजा प्रदुष्टान्न नियच्छति ।तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ॥ १६ ॥
तं प्रजा नानुवर्तन्ते ब्राह्मणा न च साधवः ।ततः संक्षयमाप्नोति तथा वध्यत्वमेति च ॥ १७ ॥
अपध्वस्तस्त्ववमतो दुःखं जीवति जीवितम् ।जीवेच्च यदपध्वस्तस्तच्छुद्धं मरणं भवेत् ॥ १८ ॥
अत्रैतदाहुराचार्याः पापस्य च निबर्हणम् ।सेवितव्या त्रयी विद्या सत्कारो ब्राह्मणेषु च ॥ १९ ॥
महामना भवेद्धर्मे विवहेच्च महाकुले ।ब्राह्मणांश्चापि सेवेत क्षमायुक्तान्मनस्विनः ॥ २० ॥
जपेदुदकशीलः स्यात्सुमुखो नान्यदास्थितः ।धर्मान्वितान्संप्रविशेद्बहिः कृत्वैव दुष्कृतीन् ॥ २१ ॥
प्रसादयेन्मधुरया वाचाप्यथ च कर्मणा ।इत्यस्मीति वदेन्नित्यं परेषां कीर्तयन्गुणान् ॥ २२ ॥
अपापो ह्येवमाचारः क्षिप्रं बहुमतो भवेत् ।पापान्यपि च कृच्छ्राणि शमयेन्नात्र संशयः ॥ २३ ॥
गुरवोऽपि परं धर्मं यद्ब्रूयुस्तत्तथा कुरु ।गुरूणां हि प्रसादाद्धि श्रेयः परमवाप्स्यसि ॥ २४ ॥
« »