Click on words to see what they mean.

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।अङ्गेषु राजा द्युतिमान्वसुहोम इति श्रुतः ॥ १ ॥
स राजा धर्मनित्यः सन्सह पत्न्या महातपाः ।मुञ्जपृष्ठं जगामाथ देवर्षिगणपूजितम् ॥ २ ॥
तत्र शृङ्गे हिमवतो मेरौ कनकपर्वते ।यत्र मुञ्जवटे रामो जटाहरणमादिशत् ॥ ३ ॥
तदाप्रभृति राजेन्द्र ऋषिभिः संशितव्रतैः ।मुञ्जपृष्ठ इति प्रोक्तः स देशो रुद्रसेवितः ॥ ४ ॥
स तत्र बहुभिर्युक्तः सदा श्रुतिमयैर्गुणैः ।ब्राह्मणानामनुमतो देवर्षिसदृशोऽभवत् ॥ ५ ॥
तं कदाचिददीनात्मा सखा शक्रस्य मानितः ।अभ्यागच्छन्महीपालो मान्धाता शत्रुकर्शनः ॥ ६ ॥
सोऽभिसृत्य तु मान्धाता वसुहोमं नराधिपम् ।दृष्ट्वा प्रकृष्टं तपसा विनयेनाभ्यतिष्ठत ॥ ७ ॥
वसुहोमोऽपि राज्ञो वै गामर्घ्यं च न्यवेदयत् ।अष्टाङ्गस्य च राज्यस्य पप्रच्छ कुशलं तदा ॥ ८ ॥
सद्भिराचरितं पूर्वं यथावदनुयायिनम् ।अपृच्छद्वसुहोमस्तं राजन्किं करवाणि ते ॥ ९ ॥
सोऽब्रवीत्परमप्रीतो मान्धाता राजसत्तमम् ।वसुहोमं महाप्राज्ञमासीनं कुरुनन्दन ॥ १० ॥
बृहस्पतेर्मतं राजन्नधीतं सकलं त्वया ।तथैवौशनसं शास्त्रं विज्ञातं ते नराधिप ॥ ११ ॥
तदहं श्रोतुमिच्छामि दण्ड उत्पद्यते कथम् ।किं वापि पूर्वं जागर्ति किं वा परममुच्यते ॥ १२ ॥
कथं क्षत्रियसंस्थश्च दण्डः संप्रत्यवस्थितः ।ब्रूहि मे सुमहाप्राज्ञ ददाम्याचार्यवेतनम् ॥ १३ ॥
वसुहोम उवाच ।शृणु राजन्यथा दण्डः संभूतो लोकसंग्रहः ।प्रजाविनयरक्षार्थं धर्मस्यात्मा सनातनः ॥ १४ ॥
ब्रह्मा यियक्षुर्भगवान्सर्वलोकपितामहः ।ऋत्विजं नात्मना तुल्यं ददर्शेति हि नः श्रुतम् ॥ १५ ॥
स गर्भं शिरसा देवो वर्षपूगानधारयत् ।पूर्णे वर्षसहस्रे तु स गर्भः क्षुवतोऽपतत् ॥ १६ ॥
स क्षुपो नाम संभूतः प्रजापतिररिंदम ।ऋत्विगासीत्तदा राजन्यज्ञे तस्य महात्मनः ॥ १७ ॥
तस्मिन्प्रवृत्ते सत्रे तु ब्रह्मणः पार्थिवर्षभ ।हृष्टरूपप्रचारत्वाद्दण्डः सोऽन्तर्हितोऽभवत् ॥ १८ ॥
तस्मिन्नन्तर्हिते चाथ प्रजानां संकरोऽभवत् ।नैव कार्यं न चाकार्यं भोज्याभोज्यं न विद्यते ॥ १९ ॥
पेयापेयं कुतः सिद्धिर्हिंसन्ति च परस्परम् ।गम्यागम्यं तदा नासीत्परस्वं स्वं च वै समम् ॥ २० ॥
परस्परं विलुम्पन्ते सारमेया इवामिषम् ।अबलं बलिनो जघ्नुर्निर्मर्यादमवर्तत ॥ २१ ॥
ततः पितामहो विष्णुं भगवन्तं सनातनम् ।संपूज्य वरदं देवं महादेवमथाब्रवीत् ॥ २२ ॥
अत्र साध्वनुकम्पां वै कर्तुमर्हसि केवलम् ।संकरो न भवेदत्र यथा वै तद्विधीयताम् ॥ २३ ॥
ततः स भगवान्ध्यात्वा चिरं शूलजटाधरः ।आत्मानमात्मना दण्डमसृजद्देवसत्तमः ॥ २४ ॥
तस्माच्च धर्मचरणां नीतिं देवीं सरस्वतीम् ।असृजद्दण्डनीतिः सा त्रिषु लोकेषु विश्रुता ॥ २५ ॥
भूयः स भगवान्ध्यात्वा चिरं शूलवरायुधः ।तस्य तस्य निकायस्य चकारैकैकमीशरम् ॥ २६ ॥
देवानामीश्वरं चक्रे देवं दशशतेक्षणम् ।यमं वैवस्वतं चापि पितॄणामकरोत्पतिम् ॥ २७ ॥
धनानां रक्षसां चापि कुबेरमपि चेश्वरम् ।पर्वतानां पतिं मेरुं सरितां च महोदधिम् ॥ २८ ॥
अपां राज्ये सुराणां च विदधे वरुणं प्रभुम् ।मृत्युं प्राणेश्वरमथो तेजसां च हुताशनम् ॥ २९ ॥
रुद्राणामपि चेशानं गोप्तारं विदधे प्रभुः ।महात्मानं महादेवं विशालाक्षं सनातनम् ॥ ३० ॥
वसिष्ठमीशं विप्राणां वसूनां जातवेदसम् ।तेजसां भास्करं चक्रे नक्षत्राणां निशाकरम् ॥ ३१ ॥
वीरुधामंशुमन्तं च भूतानां च प्रभुं वरम् ।कुमारं द्वादशभुजं स्कन्दं राजानमादिशत् ॥ ३२ ॥
कालं सर्वेशमकरोत्संहारविनयात्मकम् ।मृत्योश्चतुर्विभागस्य दुःखस्य च सुखस्य च ॥ ३३ ॥
ईश्वरः सर्वदेहस्तु राजराजो धनाधिपः ।सर्वेषामेव रुद्राणां शूलपाणिरिति श्रुतिः ॥ ३४ ॥
तमेकं ब्रह्मणः पुत्रमनुजातं क्षुपं ददौ ।प्रजानामधिपं श्रेष्ठं सर्वधर्मभृतामपि ॥ ३५ ॥
महादेवस्ततस्तस्मिन्वृत्ते यज्ञे यथाविधि ।दण्डं धर्मस्य गोप्तारं विष्णवे सत्कृतं ददौ ॥ ३६ ॥
विष्णुरङ्गिरसे प्रादादङ्गिरा मुनिसत्तमः ।प्रादादिन्द्रमरीचिभ्यां मरीचिर्भृगवे ददौ ॥ ३७ ॥
भृगुर्ददावृषिभ्यस्तु तं दण्डं धर्मसंहितम् ।ऋषयो लोकपालेभ्यो लोकपालाः क्षुपाय च ॥ ३८ ॥
क्षुपस्तु मनवे प्रादादादित्यतनयाय च ।पुत्रेभ्यः श्राद्धदेवस्तु सूक्ष्मधर्मार्थकारणात् ।तं ददौ सूर्यपुत्रस्तु मनुर्वै रक्षणात्मकम् ॥ ३९ ॥
विभज्य दण्डः कर्तव्यो धर्मेण न यदृच्छया ।दुर्वाचा निग्रहो बन्धो हिरण्यं बाह्यतःक्रिया ॥ ४० ॥
व्यङ्गत्वं च शरीरस्य वधो वा नाल्पकारणात् ।शरीरपीडास्तास्तास्तु देहत्यागो विवासनम् ॥ ४१ ॥
आनुपूर्व्या च दण्डोऽसौ प्रजा जागर्ति पालयन् ।इन्द्रो जागर्ति भगवानिन्द्रादग्निर्विभावसुः ॥ ४२ ॥
अग्नेर्जागर्ति वरुणो वरुणाच्च प्रजापतिः ।प्रजापतेस्ततो धर्मो जागर्ति विनयात्मकः ॥ ४३ ॥
धर्माच्च ब्रह्मणः पुत्रो व्यवसायः सनातनः ।व्यवसायात्ततस्तेजो जागर्ति परिपालयन् ॥ ४४ ॥
ओषध्यस्तेजसस्तस्मादोषधिभ्यश्च पर्वताः ।पर्वतेभ्यश्च जागर्ति रसो रसगुणात्तथा ॥ ४५ ॥
जागर्ति निरृतिर्देवी ज्योतींषि निरृतेरपि ।वेदाः प्रतिष्ठा ज्योतिर्भ्यस्ततो हयशिराः प्रभुः ॥ ४६ ॥
ब्रह्मा पितामहस्तस्माज्जागर्ति प्रभुरव्ययः ।पितामहान्महादेवो जागर्ति भगवाञ्शिवः ॥ ४७ ॥
विश्वेदेवाः शिवाच्चापि विश्वेभ्यश्च तथर्षयः ।ऋषिभ्यो भगवान्सोमः सोमाद्देवाः सनातनाः ॥ ४८ ॥
देवेभ्यो ब्राह्मणा लोके जाग्रतीत्युपधारय ।ब्राह्मणेभ्यश्च राजन्या लोकान्रक्षन्ति धर्मतः ।स्थावरं जङ्गमं चैव क्षत्रियेभ्यः सनातनम् ॥ ४९ ॥
प्रजा जाग्रति लोकेऽस्मिन्दण्डो जागर्ति तासु च ।सर्वसंक्षेपको दण्डः पितामहसमः प्रभुः ॥ ५० ॥
जागर्ति कालः पूर्वं च मध्ये चान्ते च भारत ।ईश्वरः सर्वलोकस्य महादेवः प्रजापतिः ॥ ५१ ॥
देवदेवः शिवः शर्वो जागर्ति सततं प्रभुः ।कपर्दी शंकरो रुद्रो भवः स्थाणुरुमापतिः ॥ ५२ ॥
इत्येष दण्डो विख्यात आदौ मध्ये तथावरे ।भूमिपालो यथान्यायं वर्तेतानेन धर्मवित् ॥ ५३ ॥
भीष्म उवाच ।इतीदं वसुहोमस्य शृणुयाद्यो मतं नरः ।श्रुत्वा च सम्यग्वर्तेत स कामानाप्नुयान्नृपः ॥ ५४ ॥
इति ते सर्वमाख्यातं यो दण्डो मनुजर्षभ ।नियन्ता सर्वलोकस्य धर्माक्रान्तस्य भारत ॥ ५५ ॥
« »