Click on words to see what they mean.

युधिष्ठिर उवाच ।अयं पितामहेनोक्तो राजधर्मः सनातनः ।ईश्वरश्च महादण्डो दण्डे सर्वं प्रतिष्ठितम् ॥ १ ॥
देवतानामृषीणां च पितॄणां च महात्मनाम् ।यक्षरक्षःपिशाचानां मर्त्यानां च विशेषतः ॥ २ ॥
सर्वेषां प्राणिनां लोके तिर्यक्ष्वपि निवासिनाम् ।सर्वव्यापी महातेजा दण्डः श्रेयानिति प्रभो ॥ ३ ॥
इत्येतदुक्तं भवता सर्वं दण्ड्यं चराचरम् ।दृश्यते लोकमासक्तं ससुरासुरमानुषम् ॥ ४ ॥
एतदिच्छाम्यहं ज्ञातुं तत्त्वेन भरतर्षभ ।को दण्डः कीदृशो दण्डः किंरूपः किंपरायणः ॥ ५ ॥
किमात्मकः कथंभूतः कतिमूर्तिः कथंप्रभुः ।जागर्ति स कथं दण्डः प्रजास्ववहितात्मकः ॥ ६ ॥
कश्च पूर्वापरमिदं जागर्ति परिपालयन् ।कश्च विज्ञायते पूर्वं कोऽपरो दण्डसंज्ञितः ।किंसंस्थश्च भवेद्दण्डः का चास्य गतिरिष्यते ॥ ७ ॥
भीष्म उवाच ।शृणु कौरव्य यो दण्डो व्यवहार्यो यथा च सः ।यस्मिन्हि सर्वमायत्तं स दण्ड इह केवलः ॥ ८ ॥
धर्मस्याख्या महाराज व्यवहार इतीष्यते ।तस्य लोपः कथं न स्याल्लोकेष्ववहितात्मनः ।इत्यर्थं व्यवहारस्य व्यवहारत्वमिष्यते ॥ ९ ॥
अपि चैतत्पुरा राजन्मनुना प्रोक्तमादितः ।सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना ।प्रजा रक्षति यः सम्यग्धर्म एव स केवलः ॥ १० ॥
अथोक्तमेतद्वचनं प्रागेव मनुना पुरा ।जन्म चोक्तं वसिष्ठेन ब्रह्मणो वचनं महत् ॥ ११ ॥
प्रागिदं वचनं प्रोक्तमतः प्राग्वचनं विदुः ।व्यवहारस्य चाख्यानाद्व्यवहार इहोच्यते ॥ १२ ॥
दण्डात्त्रिवर्गः सततं सुप्रणीतात्प्रवर्तते ।दैवं हि परमो दण्डो रूपतोऽग्निरिवोच्छिखः ॥ १३ ॥
नीलोत्पलदलश्यामश्चतुर्दंष्ट्रश्चतुर्भुजः ।अष्टपान्नैकनयनः शङ्कुकर्णोर्ध्वरोमवान् ॥ १४ ॥
जटी द्विजिह्वस्ताम्रास्यो मृगराजतनुच्छदः ।एतद्रूपं बिभर्त्युग्रं दण्डो नित्यं दुरावरः ॥ १५ ॥
असिर्गदा धनुः शक्तिस्त्रिशूलं मुद्गरः शरः ।मुसलं परशुश्चक्रं प्रासो दण्डर्ष्टितोमराः ॥ १६ ॥
सर्वप्रहरणीयानि सन्ति यानीह कानिचित् ।दण्ड एव हि सर्वात्मा लोके चरति मूर्तिमान् ॥ १७ ॥
भिन्दंश्छिन्दन्रुजन्कृन्तन्दारयन्पाटयंस्तथा ।घातयन्नभिधावंश्च दण्ड एव चरत्युत ॥ १८ ॥
असिर्विशसनो धर्मस्तीक्ष्णवर्त्मा दुरासदः ।श्रीगर्भो विजयः शास्ता व्यवहारः प्रजागरः ॥ १९ ॥
शास्त्रं ब्राह्मणमन्त्रश्च शास्ता प्राग्वचनं गतः ।धर्मपालोऽक्षरो देवः सत्यगो नित्यगो ग्रहः ॥ २० ॥
असङ्गो रुद्रतनयो मनुज्येष्ठः शिवंकरः ।नामान्येतानि दण्डस्य कीर्तितानि युधिष्ठिर ॥ २१ ॥
दण्डो हि भगवान्विष्णुर्यज्ञो नारायणः प्रभुः ।शश्वद्रूपं महद्बिभ्रन्महापुरुष उच्यते ॥ २२ ॥
यथोक्ता ब्रह्मकन्येति लक्ष्मीर्नीतिः सरस्वती ।दण्डनीतिर्जगद्धात्री दण्डो हि बहुविग्रहः ॥ २३ ॥
अर्थानर्थौ सुखं दुःखं धर्माधर्मौ बलाबले ।दौर्भाग्यं भागधेयं च पुण्यापुण्ये गुणागुणौ ॥ २४ ॥
कामाकामावृतुर्मासः शर्वरी दिवसः क्षणः ।अप्रसादः प्रसादश्च हर्षः क्रोधः शमो दमः ॥ २५ ॥
दैवं पुरुषकारश्च मोक्षामोक्षौ भयाभये ।हिंसाहिंसे तपो यज्ञः संयमोऽथ विषाविषम् ॥ २६ ॥
अन्तश्चादिश्च मध्यं च कृत्यानां च प्रपञ्चनम् ।मदः प्रमादो दर्पश्च दम्भो धैर्यं नयानयौ ॥ २७ ॥
अशक्तिः शक्तिरित्येव मानस्तम्भौ व्ययाव्ययौ ।विनयश्च विसर्गश्च कालाकालौ च भारत ॥ २८ ॥
अनृतं ज्ञाज्ञता सत्यं श्रद्धाश्रद्धे तथैव च ।क्लीबता व्यवसायश्च लाभालाभौ जयाजयौ ॥ २९ ॥
तीक्ष्णता मृदुता मृत्युरागमानागमौ तथा ।विराद्धिश्चैव राद्धिश्च कार्याकार्ये बलाबले ॥ ३० ॥
असूया चानसूया च धर्माधर्मौ तथैव च ।अपत्रपानपत्रपे ह्रीश्च संपद्विपच्च ह ॥ ३१ ॥
तेजः कर्मणि पाण्डित्यं वाक्शक्तिस्तत्त्वबुद्धिता ।एवं दण्डस्य कौरव्य लोकेऽस्मिन्बहुरूपता ॥ ३२ ॥
न स्याद्यदीह दण्डो वै प्रमथेयुः परस्परम् ।भयाद्दण्डस्य चान्योन्यं घ्नन्ति नैव युधिष्ठिर ॥ ३३ ॥
दण्डेन रक्ष्यमाणा हि राजन्नहरहः प्रजाः ।राजानं वर्धयन्तीह तस्माद्दण्डः परायणम् ॥ ३४ ॥
व्यवस्थापयति क्षिप्रमिमं लोकं नरेश्वर ।सत्ये व्यवस्थितो धर्मो ब्राह्मणेष्ववतिष्ठते ॥ ३५ ॥
धर्मयुक्ता द्विजाः श्रेष्ठा वेदयुक्ता भवन्ति च ।बभूव यज्ञो वेदेभ्यो यज्ञः प्रीणाति देवताः ॥ ३६ ॥
प्रीताश्च देवता नित्यमिन्द्रे परिददत्युत ।अन्नं ददाति शक्रश्चाप्यनुगृह्णन्निमाः प्रजाः ॥ ३७ ॥
प्राणाश्च सर्वभूतानां नित्यमन्ने प्रतिष्ठिताः ।तस्मात्प्रजाः प्रतिष्ठन्ते दण्डो जागर्ति तासु च ॥ ३८ ॥
एवंप्रयोजनश्चैव दण्डः क्षत्रियतां गतः ।रक्षन्प्रजाः प्रजागर्ति नित्यं सुविहितोऽक्षरः ॥ ३९ ॥
ईश्वरः पुरुषः प्राणः सत्त्वं वित्तं प्रजापतिः ।भूतात्मा जीव इत्येव नामभिः प्रोच्यतेऽष्टभिः ॥ ४० ॥
अददद्दण्ड एवास्मै ध्रुवमैश्वर्यमेव च ।बले नयश्च संयुक्तः सदा पञ्चविधात्मकः ॥ ४१ ॥
कुलबाहुधनामात्याः प्रज्ञा चोक्ता बलानि च ।आहार्यं चाष्टकैर्द्रव्यैर्बलमन्यद्युधिष्ठिर ॥ ४२ ॥
हस्तिनोऽश्वा रथाः पत्तिर्नावो विष्टिस्तथैव च ।दैशिकाश्चारकाश्चैव तदष्टाङ्गं बलं स्मृतम् ॥ ४३ ॥
अष्टाङ्गस्य तु युक्तस्य हस्तिनो हस्तियायिनः ।अश्वारोहाः पदाताश्च मन्त्रिणो रसदाश्च ये ॥ ४४ ॥
भिक्षुकाः प्राड्विवाकाश्च मौहूर्ता दैवचिन्तकाः ।कोशो मित्राणि धान्यं च सर्वोपकरणानि च ॥ ४५ ॥
सप्तप्रकृति चाष्टाङ्गं शरीरमिह यद्विदुः ।राज्यस्य दण्ड एवाङ्गं दण्डः प्रभव एव च ॥ ४६ ॥
ईश्वरेण प्रयत्नेन धारणे क्षत्रियस्य हि ।दण्डो दत्तः समानात्मा दण्डो हीदं सनातनम् ।राज्ञां पूज्यतमो नान्यो यथाधर्मप्रदर्शनः ॥ ४७ ॥
ब्रह्मणा लोकरक्षार्थं स्वधर्मस्थापनाय च ।भर्तृप्रत्यय उत्पन्नो व्यवहारस्तथापरः ।तस्माद्यः सहितो दृष्टो भर्तृप्रत्ययलक्षणः ॥ ४८ ॥
व्यवहारस्तु वेदात्मा वेदप्रत्यय उच्यते ।मौलश्च नरशार्दूल शास्त्रोक्तश्च तथापरः ॥ ४९ ॥
उक्तो यश्चापि दण्डोऽसौ भर्तृप्रत्ययलक्षणः ।ज्ञेयो न स नरेन्द्रस्थो दण्डप्रत्यय एव च ॥ ५० ॥
दण्डप्रत्ययदृष्टोऽपि व्यवहारात्मकः स्मृतः ।व्यवहारः स्मृतो यश्च स वेदविषयात्मकः ॥ ५१ ॥
यश्च वेदप्रसूतात्मा स धर्मो गुणदर्शकः ।धर्मप्रत्यय उत्पन्नो यथाधर्मः कृतात्मभिः ॥ ५२ ॥
व्यवहारः प्रजागोप्ता ब्रह्मदिष्टो युधिष्ठिर ।त्रीन्धारयति लोकान्वै सत्यात्मा भूतिवर्धनः ॥ ५३ ॥
यश्च दण्डः स दृष्टो नो व्यवहारः सनातनः ।व्यवहारश्च यो दृष्टः स धर्म इति नः श्रुतः ।यश्च वेदः स वै धर्मो यश्च धर्मः स सत्पथः ॥ ५४ ॥
ब्रह्मा प्रजापतिः पूर्वं बभूवाथ पितामहः ।लोकानां स हि सर्वेषां ससुरासुररक्षसाम् ।समनुष्योरगवतां कर्ता चैव स भूतकृत् ॥ ५५ ॥
ततो नो व्यवहारोऽयं भर्तृप्रत्ययलक्षणः ।तस्मादिदमवोचाम व्यवहारनिदर्शनम् ॥ ५६ ॥
माता पिता च भ्राता च भार्या चाथ पुरोहितः ।नादण्ड्यो विद्यते राज्ञां यः स्वधर्मे न तिष्ठति ॥ ५७ ॥
« »