Click on words to see what they mean.

वैशंपायन उवाच ।अर्जुनस्य वचः श्रुत्वा नकुलो वाक्यमब्रवीत् ।राजानमभिसंप्रेक्ष्य सर्वधर्मभृतां वरम् ॥ १ ॥
अनुरुध्य महाप्राज्ञो भ्रातुश्चित्तमरिंदमः ।व्यूढोरस्को महाबाहुस्ताम्रास्यो मितभाषिता ॥ २ ॥
विशाखयूपे देवानां सर्वेषामग्नयश्चिताः ।तस्माद्विद्धि महाराज देवान्कर्मपथि स्थितान् ॥ ३ ॥
अनास्तिकानास्तिकानां प्राणदाः पितरश्च ये ।तेऽपि कर्मैव कुर्वन्ति विधिं पश्यस्व पार्थिव ।वेदवादापविद्धांस्तु तान्विद्धि भृशनास्तिकान् ॥ ४ ॥
न हि वेदोक्तमुत्सृज्य विप्रः सर्वेषु कर्मसु ।देवयानेन नाकस्य पृष्ठमाप्नोति भारत ॥ ५ ॥
अत्याश्रमानयं सर्वानित्याहुर्वेदनिश्चयाः ।ब्राह्मणाः श्रुतिसंपन्नास्तान्निबोध जनाधिप ॥ ६ ॥
वित्तानि धर्मलब्धानि क्रतुमुख्येष्ववासृजन् ।कृतात्मसु महाराज स वै त्यागी स्मृतो नरः ॥ ७ ॥
अनवेक्ष्य सुखादानं तथैवोर्ध्वं प्रतिष्ठितः ।आत्मत्यागी महाराज स त्यागी तामसः प्रभो ॥ ८ ॥
अनिकेतः परिपतन्वृक्षमूलाश्रयो मुनिः ।अपाचकः सदा योगी स त्यागी पार्थ भिक्षुकः ॥ ९ ॥
क्रोधहर्षावनादृत्य पैशुन्यं च विशां पते ।विप्रो वेदानधीते यः स त्यागी गुरुपूजकः ॥ १० ॥
आश्रमांस्तुलया सर्वान्धृतानाहुर्मनीषिणः ।एकतस्ते त्रयो राजन्गृहस्थाश्रम एकतः ॥ ११ ॥
समीक्षते तु योऽर्थं वै कामं स्वर्गं च भारत ।अयं पन्था महर्षीणामियं लोकविदां गतिः ॥ १२ ॥
इति यः कुरुते भावं स त्यागी भरतर्षभ ।न यः परित्यज्य गृहान्वनमेति विमूढवत् ॥ १३ ॥
यदा कामान्समीक्षेत धर्मवैतंसिकोऽनृजुः ।अथैनं मृत्युपाशेन कण्ठे बध्नाति मृत्युराट् ॥ १४ ॥
अभिमानकृतं कर्म नैतत्फलवदुच्यते ।त्यागयुक्तं महाराज सर्वमेव महाफलम् ॥ १५ ॥
शमो दमस्तपो दानं सत्यं शौचमथार्जवम् ।यज्ञो धृतिश्च धर्मश्च नित्यमार्षो विधिः स्मृतः ॥ १६ ॥
पितृदेवातिथिकृते समारम्भोऽत्र शस्यते ।अत्रैव हि महाराज त्रिवर्गः केवलं फलम् ॥ १७ ॥
एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते ।त्यागिनः प्रसृतस्येह नोच्छित्तिर्विद्यते क्वचित् ॥ १८ ॥
असृजद्धि प्रजा राजन्प्रजापतिरकल्मषः ।मां यक्ष्यन्तीति शान्तात्मा यज्ञैर्विविधदक्षिणैः ॥ १९ ॥
वीरुधश्चैव वृक्षांश्च यज्ञार्थं च तथौषधीः ।पशूंश्चैव तथा मेध्यान्यज्ञार्थानि हवींषि च ॥ २० ॥
गृहस्थाश्रमिणस्तच्च यज्ञकर्म विरोधकम् ।तस्माद्गार्हस्थ्यमेवेह दुष्करं दुर्लभं तथा ॥ २१ ॥
तत्संप्राप्य गृहस्था ये पशुधान्यसमन्विताः ।न यजन्ते महाराज शाश्वतं तेषु किल्बिषम् ॥ २२ ॥
स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथापरे ।अथापरे महायज्ञान्मनसैव वितन्वते ॥ २३ ॥
एवं दानसमाधानं मार्गमातिष्ठतो नृप ।द्विजातेर्ब्रह्मभूतस्य स्पृहयन्ति दिवौकसः ॥ २४ ॥
स रत्नानि विचित्राणि संभृतानि ततस्ततः ।मखेष्वनभिसंत्यज्य नास्तिक्यमभिजल्पसि ।कुटुम्बमास्थिते त्यागं न पश्यामि नराधिप ॥ २५ ॥
राजसूयाश्वमेधेषु सर्वमेधेषु वा पुनः ।य चान्ये क्रतवस्तात ब्राह्मणैरभिपूजिताः ।तैर्यजस्व महाराज शक्रो देवपतिर्यथा ॥ २६ ॥
राज्ञः प्रमाददोषेण दस्युभिः परिमुष्यताम् ।अशरण्यः प्रजानां यः स राजा कलिरुच्यते ॥ २७ ॥
अश्वान्गाश्चैव दासीश्च करेणूश्च स्वलंकृताः ।ग्रामाञ्जनपदांश्चैव क्षेत्राणि च गृहाणि च ॥ २८ ॥
अप्रदाय द्विजातिभ्यो मात्सर्याविष्टचेतसः ।वयं ते राजकलयो भविष्यामो विशां पते ॥ २९ ॥
अदातारोऽशरण्याश्च राजकिल्बिषभागिनः ।दुःखानामेव भोक्तारो न सुखानां कदाचन ॥ ३० ॥
अनिष्ट्वा च महायज्ञैरकृत्वा च पितृस्वधाम् ।तीर्थेष्वनभिसंत्यज्य प्रव्रजिष्यसि चेदथ ॥ ३१ ॥
छिन्नाभ्रमिव गन्तासि विलयं मारुतेरितम् ।लोकयोरुभयोर्भ्रष्टो ह्यन्तराले व्यवस्थितः ॥ ३२ ॥
अन्तर्बहिश्च यत्किंचिन्मनोव्यासङ्गकारकम् ।परित्यज्य भवेत्त्यागी न यो हित्वा प्रतिष्ठते ॥ ३३ ॥
एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते ।ब्राह्मणस्य महाराज नोच्छित्तिर्विद्यते क्वचित् ॥ ३४ ॥
निहत्य शत्रूंस्तरसा समृद्धान्शक्रो यथा दैत्यबलानि संख्ये ।कः पार्थ शोचेन्निरतः स्वधर्मे पूर्वैः स्मृते पार्थिव शिष्टजुष्टे ॥ ३५ ॥
क्षात्रेण धर्मेण पराक्रमेण जित्वा महीं मन्त्रविद्भ्यः प्रदाय ।नाकस्य पृष्ठेऽसि नरेन्द्र गन्ता न शोचितव्यं भवताद्य पार्थ ॥ ३६ ॥
« »