Click on words to see what they mean.

युधिष्ठिर उवाच ।महानयं धर्मपथो बहुशाखश्च भारत ।किं स्विदेवेह धर्माणामनुष्ठेयतमं मतम् ॥ १ ॥
किं कार्यं सर्वधर्माणां गरीयो भवतो मतम् ।यथायं पुरुषो धर्ममिह च प्रेत्य चाप्नुयात् ॥ २ ॥
भीष्म उवाच ।मातापित्रोर्गुरूणां च पूजा बहुमता मम ।अत्र युक्तो नरो लोकान्यशश्च महदश्नुते ॥ ३ ॥
यदेते ह्यभिजानीयुः कर्म तात सुपूजिताः ।धर्म्यं धर्मविरुद्धं वा तत्कर्तव्यं युधिष्ठिर ॥ ४ ॥
न तैरनभ्यनुज्ञातो धर्ममन्यं प्रकल्पयेत् ।यमेतेऽभ्यनुजानीयुः स धर्म इति निश्चयः ॥ ५ ॥
एत एव त्रयो लोका एत एवाश्रमास्त्रयः ।एत एव त्रयो वेदा एत एव त्रयोऽग्नयः ॥ ६ ॥
पिता ह्यग्निर्गार्हपत्यो माताग्निर्दक्षिणः स्मृतः ।गुरुराहवनीयस्तु साग्नित्रेता गरीयसी ॥ ७ ॥
त्रिष्वप्रमाद्यन्नेतेषु त्रीँल्लोकानवजेष्यसि ।पितृवृत्त्या त्विमं लोकं मातृवृत्त्या तथापरम् ।ब्रह्मलोकं गुरोर्वृत्त्या नित्यमेव चरिष्यसि ॥ ८ ॥
सम्यगेतेषु वर्तस्व त्रिषु लोकेषु भारत ।यशः प्राप्स्यसि भद्रं ते धर्मं च सुमहाफलम् ॥ ९ ॥
नैतानतिशयेज्जातु नात्यश्नीयान्न दूषयेत् ।नित्यं परिचरेच्चैव तद्वै सुकृतमुत्तमम् ।कीर्तिं पुण्यं यशो लोकान्प्राप्स्यसे च जनाधिप ॥ १० ॥
सर्वे तस्यादृता लोका यस्यैते त्रय आदृताः ।अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ ११ ॥
नैवायं न परो लोकस्तस्य चैव परंतप ।अमानिता नित्यमेव यस्यैते गुरवस्त्रयः ॥ १२ ॥
न चास्मिन्न परे लोके यशस्तस्य प्रकाशते ।न चान्यदपि कल्याणं पारत्रं समुदाहृतम् ॥ १३ ॥
तेभ्य एव तु तत्सर्वं कृत्यया विसृजाम्यहम् ।तदासीन्मे शतगुणं सहस्रगुणमेव च ।तस्मान्मे संप्रकाशन्ते त्रयो लोका युधिष्ठिर ॥ १४ ॥
दशैव तु सदाचार्यः श्रोत्रियानतिरिच्यते ।दशाचार्यानुपाध्याय उपाध्यायान्पिता दश ॥ १५ ॥
पितॄन्दश तु मातैका सर्वां वा पृथिवीमपि ।गुरुत्वेनाभिभवति नास्ति मातृसमो गुरुः ।गुरुर्गरीयान्पितृतो मातृतश्चेति मे मतिः ॥ १६ ॥
उभौ हि मातापितरौ जन्मनि व्युपयुज्यतः ।शरीरमेतौ सृजतः पिता माता च भारत ।आचार्यशिष्टा या जातिः सा दिव्या साजरामरा ॥ १७ ॥
अवध्या हि सदा माता पिता चाप्यपकारिणौ ।न संदुष्यति तत्कृत्वा न च ते दूषयन्ति तम् ।धर्माय यतमानानां विदुर्देवाः सहर्षिभिः ॥ १८ ॥
य आवृणोत्यवितथेन कर्णावृतं ब्रुवन्नमृतं संप्रयच्छन् ।तं वै मन्ये पितरं मातरं च तस्मै न द्रुह्येत्कृतमस्य जानन् ॥ १९ ॥
विद्यां श्रुत्वा ये गुरुं नाद्रियन्ते प्रत्यासन्नं मनसा कर्मणा वा ।यथैव ते गुरुभिर्भावनीयास्तथा तेषां गुरवोऽप्यर्चनीयाः ॥ २० ॥
तस्मात्पूजयितव्याश्च संविभज्याश्च यत्नतः ।गुरवोऽर्चयितव्याश्च पुराणं धर्ममिच्छता ॥ २१ ॥
येन प्रीताश्च पितरस्तेन प्रीतः पितामहः ।प्रीणाति मातरं येन पृथिवी तेन पूजिता ॥ २२ ॥
येन प्रीणात्युपाध्यायं तेन स्याद्ब्रह्म पूजितम् ।मातृतः पितृतश्चैव तस्मात्पूज्यतमो गुरुः ।ऋषयश्च हि देवाश्च प्रीयन्ते पितृभिः सह ॥ २३ ॥
न केनचन वृत्तेन ह्यवज्ञेयो गुरुर्भवेत् ।न च माता न च पिता तादृशो यादृशो गुरुः ॥ २४ ॥
न तेऽवमानमर्हन्ति न च ते दूषयन्ति तम् ।गुरूणामेव सत्कारं विदुर्देवाः सहर्षिभिः ॥ २५ ॥
उपाध्यायं पितरं मातरं च येऽभिद्रुह्यन्ति मनसा कर्मणा वा ।तेषां पापं भ्रूणहत्याविशिष्टं तस्मान्नान्यः पापकृदस्ति लोके ॥ २६ ॥
मित्रद्रुहः कृतघ्नस्य स्त्रीघ्नस्य पिशुनस्य च ।चतुर्णां वयमेतेषां निष्कृतिं नानुशुश्रुमः ॥ २७ ॥
एतत्सर्वमतिदेशेन सृष्टं यत्कर्तव्यं पुरुषेणेह लोके ।एतच्छ्रेयो नान्यदस्माद्विशिष्टं सर्वान्धर्माननुसृत्यैतदुक्तम् ॥ २८ ॥
« »