Click on words to see what they mean.

युधिष्ठिर उवाच ।ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप ।धर्मो वृत्तं च वृत्तिश्च वृत्त्युपायफलानि च ॥ १ ॥
राज्ञां वृत्तं च कोशश्च कोशसंजननं महत् ।अमात्यगुणवृद्धिश्च प्रकृतीनां च वर्धनम् ॥ २ ॥
षाड्गुण्यगुणकल्पश्च सेनानीतिस्तथैव च ।दुष्टस्य च परिज्ञानमदुष्टस्य च लक्षणम् ॥ ३ ॥
समहीनाधिकानां च यथावल्लक्षणोच्चयः ।मध्यमस्य च तुष्ट्यर्थं यथा स्थेयं विवर्धता ॥ ४ ॥
क्षीणसंग्रहवृत्तिश्च यथावत्संप्रकीर्तिता ।लघुनादेशरूपेण ग्रन्थयोगेन भारत ॥ ५ ॥
विजिगीषोस्तथावृत्तमुक्तं चैव तथैव ते ।गणानां वृत्तिमिच्छामि श्रोतुं मतिमतां वर ॥ ६ ॥
यथा गणाः प्रवर्धन्ते न भिद्यन्ते च भारत ।अरीन्हि विजिगीषन्ते सुहृदः प्राप्नुवन्ति च ॥ ७ ॥
भेदमूलो विनाशो हि गणानामुपलभ्यते ।मन्त्रसंवरणं दुःखं बहूनामिति मे मतिः ॥ ८ ॥
एतदिच्छाम्यहं श्रोतुं निखिलेन परंतप ।यथा च ते न भिद्येरंस्तच्च मे ब्रूहि पार्थिव ॥ ९ ॥
भीष्म उवाच ।गणानां च कुलानां च राज्ञां च भरतर्षभ ।वैरसंदीपनावेतौ लोभामर्षौ जनाधिप ॥ १० ॥
लोभमेको हि वृणुते ततोऽमर्षमनन्तरम् ।तौ क्षयव्ययसंयुक्तावन्योन्यजनिताश्रयौ ॥ ११ ॥
चारमन्त्रबलादानैः सामदानविभेदनैः ।क्षयव्ययभयोपायैः कर्शयन्तीतरेतरम् ॥ १२ ॥
तत्र दानेन भिद्यन्ते गणाः संघातवृत्तयः ।भिन्ना विमनसः सर्वे गच्छन्त्यरिवशं भयात् ॥ १३ ॥
भेदाद्गणा विनश्यन्ति भिन्नाः सूपजपाः परैः ।तस्मात्संघातयोगेषु प्रयतेरन्गणाः सदा ॥ १४ ॥
अर्था ह्येवाधिगम्यन्ते संघातबलपौरुषात् ।बाह्याश्च मैत्रीं कुर्वन्ति तेषु संघातवृत्तिषु ॥ १५ ॥
ज्ञानवृद्धान्प्रशंसन्तः शुश्रूषन्तः परस्परम् ।विनिवृत्ताभिसंधानाः सुखमेधन्ति सर्वशः ॥ १६ ॥
धर्मिष्ठान्व्यवहारांश्च स्थापयन्तश्च शास्त्रतः ।यथावत्संप्रवर्तन्तो विवर्धन्ते गणोत्तमाः ॥ १७ ॥
पुत्रान्भ्रातॄन्निगृह्णन्तो विनये च सदा रताः ।विनीतांश्च प्रगृह्णन्तो विवर्धन्ते गणोत्तमाः ॥ १८ ॥
चारमन्त्रविधानेषु कोशसंनिचयेषु च ।नित्ययुक्ता महाबाहो वर्धन्ते सर्वतो गणाः ॥ १९ ॥
प्राज्ञाञ्शूरान्महेष्वासान्कर्मसु स्थिरपौरुषान् ।मानयन्तः सदा युक्ता विवर्धन्ते गणा नृप ॥ २० ॥
द्रव्यवन्तश्च शूराश्च शस्त्रज्ञाः शास्त्रपारगाः ।कृच्छ्रास्वापत्सु संमूढान्गणानुत्तारयन्ति ते ॥ २१ ॥
क्रोधो भेदो भयो दण्डः कर्शनं निग्रहो वधः ।नयन्त्यरिवशं सद्यो गणान्भरतसत्तम ॥ २२ ॥
तस्मान्मानयितव्यास्ते गणमुख्याः प्रधानतः ।लोकयात्रा समायत्ता भूयसी तेषु पार्थिव ॥ २३ ॥
मन्त्रगुप्तिः प्रधानेषु चारश्चामित्रकर्शन ।न गणाः कृत्स्नशो मन्त्रं श्रोतुमर्हन्ति भारत ॥ २४ ॥
गणमुख्यैस्तु संभूय कार्यं गणहितं मिथः ।पृथग्गणस्य भिन्नस्य विमतस्य ततोऽन्यथा ।अर्थाः प्रत्यवसीदन्ति तथानर्था भवन्ति च ॥ २५ ॥
तेषामन्योन्यभिन्नानां स्वशक्तिमनुतिष्ठताम् ।निग्रहः पण्डितैः कार्यः क्षिप्रमेव प्रधानतः ॥ २६ ॥
कुलेषु कलहा जाताः कुलवृद्धैरुपेक्षिताः ।गोत्रस्य राजन्कुर्वन्ति गणसंभेदकारिकाम् ॥ २७ ॥
आभ्यन्तरं भयं रक्ष्यं सुरक्ष्यं बाह्यतो भयम् ।अभ्यन्तराद्भयं जातं सद्यो मूलं निकृन्तति ॥ २८ ॥
अकस्मात्क्रोधलोभाद्वा मोहाद्वापि स्वभावजात् ।अन्योन्यं नाभिभाषन्ते तत्पराभवलक्षणम् ॥ २९ ॥
जात्या च सदृशाः सर्वे कुलेन सदृशास्तथा ।न तु शौर्येण बुद्ध्या वा रूपद्रव्येण वा पुनः ॥ ३० ॥
भेदाच्चैव प्रमादाच्च नाम्यन्ते रिपुभिर्गणाः ।तस्मात्संघातमेवाहुर्गणानां शरणं महत् ॥ ३१ ॥
« »