Click on words to see what they mean.

युधिष्ठिर उवाच ।कथं धर्मे स्थातुमिच्छन्नरो वर्तेत भारत ।विद्वञ्जिज्ञासमानाय प्रब्रूहि भरतर्षभ ॥ १ ॥
सत्यं चैवानृतं चोभे लोकानावृत्य तिष्ठतः ।तयोः किमाचरेद्राजन्पुरुषो धर्मनिश्चितः ॥ २ ॥
किं स्वित्सत्यं किमनृतं किं स्विद्धर्म्यं सनातनम् ।कस्मिन्काले वदेत्सत्यं कस्मिन्कालेऽनृतं वदेत् ॥ ३ ॥
भीष्म उवाच ।सत्यस्य वचनं साधु न सत्याद्विद्यते परम् ।यद्भूलोके सुदुर्ज्ञातं तत्ते वक्ष्यामि भारत ॥ ४ ॥
भवेत्सत्यं न वक्तव्यं वक्तव्यमनृतं भवेत् ।यत्रानृतं भवेत्सत्यं सत्यं वाप्यनृतं भवेत् ॥ ५ ॥
तादृशे मुह्यते बालो यत्र सत्यमनिष्ठितम् ।सत्यानृते विनिश्चित्य ततो भवति धर्मवित् ॥ ६ ॥
अप्यनार्योऽकृतप्रज्ञः पुरुषोऽपि सुदारुणः ।सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव ॥ ७ ॥
किमाश्चर्यं च यन्मूढो धर्मकामोऽप्यधर्मवित् ।सुमहत्प्राप्नुयात्पापं गङ्गायामिव कौशिकः ॥ ८ ॥
तादृशोऽयमनुप्रश्नो यत्र धर्मः सुदुर्वचः ।दुष्करः प्रतिसंख्यातुं तर्केणात्र व्यवस्यति ॥ ९ ॥
प्रभावार्थाय भूतानां धर्मप्रवचनं कृतम् ।यत्स्यादहिंसासंयुक्तं स धर्म इति निश्चयः ॥ १० ॥
धारणाद्धर्म इत्याहुर्धर्मेण विधृताः प्रजाः ।यत्स्याद्धारणसंयुक्तं स धर्म इति निश्चयः ॥ ११ ॥
श्रुतिधर्म इति ह्येके नेत्याहुरपरे जनाः ।न तु तत्प्रत्यसूयामो न हि सर्वं विधीयते ॥ १२ ॥
येऽन्यायेन जिहीर्षन्तो धनमिच्छन्ति कर्हिचित् ।तेभ्यस्तन्न तदाख्येयं स धर्म इति निश्चयः ॥ १३ ॥
अकूजनेन चेन्मोक्षो नात्र कूजेत्कथंचन ।अवश्यं कूजितव्यं वा शङ्केरन्वाप्यकूजनात् ॥ १४ ॥
श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम् ।यः पापैः सह संबन्धान्मुच्यते शपथादिति ॥ १५ ॥
न च तेभ्यो धनं देयं शक्ये सति कथंचन ।पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत् ॥ १६ ॥
स्वशरीरोपरोधेन वरमादातुमिच्छतः ।सत्यसंप्रतिपत्त्यर्थं ये ब्रूयुः साक्षिणः क्वचित् ।अनुक्त्वा तत्र तद्वाच्यं सर्वे तेऽनृतवादिनः ॥ १७ ॥
प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् ।अर्थस्य रक्षणार्थाय परेषां धर्मकारणात् ।परेषां धर्ममाकाङ्क्षन्नीचः स्याद्धर्मभिक्षुकः ॥ १८ ॥
प्रतिश्रुत्य तु दातव्यं श्वःकार्यस्तु बलात्कृतः ।यः कश्चिद्धर्मसमयात्प्रच्युतोऽधर्ममास्थितः ॥ १९ ॥
शठः स्वधर्ममुत्सृज्य तमिच्छेदुपजीवितुम् ।सर्वोपायैर्निहन्तव्यः पापो निकृतिजीवनः ॥ २० ॥
धनमित्येव पापानां सर्वेषामिह निश्चयः ।येऽविषह्या ह्यसंभोज्या निकृत्या पतनं गताः ॥ २१ ॥
च्युता देवमनुष्येभ्यो यथा प्रेतास्तथैव ते ।धनादानाद्दुःखतरं जीविताद्विप्रयोजनम् ॥ २२ ॥
अयं वो रोचतां धर्म इति वाच्यः प्रयत्नतः ।न कश्चिदस्ति पापानां धर्म इत्येष निश्चयः ॥ २३ ॥
तथागतं च यो हन्यान्नासौ पापेन लिप्यते ।स्वकर्मणा हतं हन्ति हत एव स हन्यते ।तेषु यः समयं कश्चित्कुर्वीत हतबुद्धिषु ॥ २४ ॥
यथा काकश्च गृध्रश्च तथैवोपधिजीविनः ।ऊर्ध्वं देहविमोक्षान्ते भवन्त्येतासु योनिषु ॥ २५ ॥
यस्मिन्यथा वर्तते यो मनुष्यस्तस्मिंस्तथा वर्तितव्यं स धर्मः ।मायाचारो मायया वर्तितव्यः साध्वाचारः साधुना प्रत्युदेयः ॥ २६ ॥
« »