Click on words to see what they mean.

युधिष्ठिर उवाच ।धार्मिकोऽर्थानसंप्राप्य राजामात्यैः प्रबाधितः ।च्युतः कोशाच्च दण्डाच्च सुखमिच्छन्कथं चरेत् ॥ १ ॥
भीष्म उवाच ।अत्रायं क्षेमदर्शीयमितिहासोऽनुगीयते ।तत्तेऽहं संप्रवक्ष्यामि तन्निबोध युधिष्ठिर ॥ २ ॥
क्षेमदर्शं नृपसुतं यत्र क्षीणबलं पुरा ।मुनिः कालकवृक्षीय आजगामेति नः श्रुतम् ।तं पप्रच्छोपसंगृह्य कृच्छ्रामापदमास्थितः ॥ ३ ॥
अर्थेषु भागी पुरुष ईहमानः पुनः पुनः ।अलब्ध्वा मद्विधो राज्यं ब्रह्मन्किं कर्तुमर्हति ॥ ४ ॥
अन्यत्र मरणात्स्तेयादन्यत्र परसंश्रयात् ।क्षुद्रादन्यत्र चाचारात्तन्ममाचक्ष्व सत्तम ॥ ५ ॥
व्याधिना चाभिपन्नस्य मानसेनेतरेण वा ।बहुश्रुतः कृतप्रज्ञस्त्वद्विधः शरणं भवेत् ॥ ६ ॥
निर्विद्य हि नरः कामान्नियम्य सुखमेधते ।त्यक्त्वा प्रीतिं च शोकं च लब्ध्वाप्रीतिमयं वसु ॥ ७ ॥
सुखमर्थाश्रयं येषामनुशोचामि तानहम् ।मम ह्यर्थाः सुबहवो नष्टाः स्वप्न इवागताः ॥ ८ ॥
दुष्करं बत कुर्वन्ति महतोऽर्थांस्त्यजन्ति ये ।वयं त्वेनान्परित्यक्तुमसतोऽपि न शक्नुमः ॥ ९ ॥
इमामवस्थां संप्राप्तं दीनमार्तं श्रियश्च्युतम् ।यदन्यत्सुखमस्तीह तद्ब्रह्मन्ननुशाधि माम् ॥ १० ॥
कौसल्येनैवमुक्तस्तु राजपुत्रेण धीमता ।मुनिः कालकवृक्षीयः प्रत्युवाच महाद्युतिः ॥ ११ ॥
पुरस्तादेव ते बुद्धिरियं कार्या विजानतः ।अनित्यं सर्वमेवेदमहं च मम चास्ति यत् ॥ १२ ॥
यत्किंचिन्मन्यसेऽस्तीति सर्वं नास्तीति विद्धि तत् ।एवं न व्यथते प्राज्ञः कृच्छ्रामप्यापदं गतः ॥ १३ ॥
यद्धि भूतं भविष्यच्च ध्रुवं तन्न भविष्यति ।एवं विदितवेद्यस्त्वमधर्मेभ्यः प्रमोक्ष्यसे ॥ १४ ॥
यच्च पूर्वे समाहारे यच्च पूर्वतरे परे ।सर्वं तन्नास्ति तच्चैव तज्ज्ञात्वा कोऽनुसंज्वरेत् ॥ १५ ॥
भूत्वा च न भवत्येतदभूत्वा च भवत्यपि ।शोके न ह्यस्ति सामर्थ्यं शोकं कुर्यात्कथं नरः ॥ १६ ॥
क्व नु तेऽद्य पिता राजन्क्व नु तेऽद्य पितामहः ।न त्वं पश्यसि तानद्य न त्वा पश्यन्ति तेऽपि च ॥ १७ ॥
आत्मनोऽध्रुवतां पश्यंस्तांस्त्वं किमनुशोचसि ।बुद्ध्या चैवानुबुध्यस्व ध्रुवं हि न भविष्यसि ॥ १८ ॥
अहं च त्वं च नृपते शत्रवः सुहृदश्च ते ।अवश्यं न भविष्यामः सर्वं च न भविष्यति ॥ १९ ॥
ये तु विंशतिवर्षा वै त्रिंशद्वर्षाश्च मानवाः ।अर्वागेव हि ते सर्वे मरिष्यन्ति शरच्छतात् ॥ २० ॥
अपि चेन्महतो वित्ताद्विप्रमुच्येत पूरुषः ।नैतन्ममेति तन्मत्वा कुर्वीत प्रियमात्मनः ॥ २१ ॥
अनागतं यन्न ममेति विद्यादतिक्रान्तं यन्न ममेति विद्यात् ।दिष्टं बलीय इति मन्यमानास्ते पण्डितास्तत्सतां स्थानमाहुः ॥ २२ ॥
अनाढ्याश्चापि जीवन्ति राज्यं चाप्यनुशासते ।बुद्धिपौरुषसंपन्नास्त्वया तुल्याधिका जनाः ॥ २३ ॥
न च त्वमिव शोचन्ति तस्मात्त्वमपि मा शुचः ।किं नु त्वं तैर्न वै श्रेयांस्तुल्यो वा बुद्धिपौरुषैः ॥ २४ ॥
राजपुत्र उवाच ।यादृच्छिकं ममासीत्तद्राज्यमित्येव चिन्तये ।ह्रियते सर्वमेवेदं कालेन महता द्विज ॥ २५ ॥
तस्यैवं ह्रियमाणस्य स्रोतसेव तपोधन ।फलमेतत्प्रपश्यामि यथालब्धेन वर्तये ॥ २६ ॥
मुनिरुवाच ।अनागतमतीतं च यथा तथ्यविनिश्चयात् ।नानुशोचसि कौसल्य सर्वार्थेषु तथा भव ॥ २७ ॥
अवाप्यान्कामयस्वार्थान्नानवाप्यान्कदाचन ।प्रत्युत्पन्नाननुभवन्मा शुचस्त्वमनागतान् ॥ २८ ॥
यथा लब्धोपपन्नार्थस्तथा कौसल्य रंस्यसे ।कच्चिच्छुद्धस्वभावेन श्रिया हीनो न शोचसि ॥ २९ ॥
पुरस्ताद्भूतपूर्वत्वाद्धीनभाग्यो हि दुर्मतिः ।धातारं गर्हते नित्यं लब्धार्थांश्च न मृष्यते ॥ ३० ॥
अनर्हानपि चैवान्यान्मन्यते श्रीमतो जनान् ।एतस्मात्कारणादेतद्दुःखं भूयोऽनुवर्तते ॥ ३१ ॥
ईर्ष्यातिच्छेदसंपन्ना राजन्पुरुषमानिनः ।कच्चित्त्वं न तथा प्राज्ञ मत्सरी कोसलाधिप ॥ ३२ ॥
सहस्व श्रियमन्येषां यद्यपि त्वयि नास्ति सा ।अन्यत्रापि सतीं लक्ष्मीं कुशला भुञ्जते जनाः ।अभिविष्यन्दते श्रीर्हि सत्यपि द्विषतो जनात् ॥ ३३ ॥
श्रियं च पुत्रपौत्रं च मनुष्या धर्मचारिणः ।त्यागधर्मविदो वीराः स्वयमेव त्यजन्त्युत ॥ ३४ ॥
बहु संकसुकं दृष्ट्वा विवित्सासाधनेन च ।तथान्ये संत्यजन्त्येनं मत्वा परमदुर्लभम् ॥ ३५ ॥
त्वं पुनः प्राज्ञरूपः सन्कृपणं परितप्यसे ।अकाम्यान्कामयानोऽर्थान्पराचीनानुपद्रुतान् ॥ ३६ ॥
तां बुद्धिमुपजिज्ञासुस्त्वमेवैनान्परित्यज ।अनर्थांश्चार्थरूपेण अर्थांश्चानर्थरूपतः ॥ ३७ ॥
अर्थायैव हि केषांचिद्धननाशो भवत्युत ।अनन्त्यं तं सुखं मत्वा श्रियमन्यः परीक्षते ॥ ३८ ॥
रममाणः श्रिया कश्चिन्नान्यच्छ्रेयोऽभिमन्यते ।तथा तस्येहमानस्य समारम्भो विनश्यति ॥ ३९ ॥
कृच्छ्राल्लब्धमभिप्रेतं यदा कौसल्य नश्यति ।तदा निर्विद्यते सोऽर्थात्परिभग्नक्रमो नरः ॥ ४० ॥
धर्ममेकेऽभिपद्यन्ते कल्याणाभिजना नराः ।परत्र सुखमिच्छन्तो निर्विद्येयुश्च लौकिकात् ॥ ४१ ॥
जीवितं संत्यजन्त्येके धनलोभपरा नराः ।न जीवितार्थं मन्यन्ते पुरुषा हि धनादृते ॥ ४२ ॥
पश्य तेषां कृपणतां पश्य तेषामबुद्धिताम् ।अध्रुवे जीविते मोहादर्थतृष्णामुपाश्रिताः ॥ ४३ ॥
संचये च विनाशान्ते मरणान्ते च जीविते ।संयोगे विप्रयोगान्ते को नु विप्रणयेन्मनः ॥ ४४ ॥
धनं वा पुरुषं राजन्पुरुषो वा पुनर्धनम् ।अवश्यं प्रजहात्येतत्तद्विद्वान्कोऽनुसंज्वरेत् ॥ ४५ ॥
अन्येषामपि नश्यन्ति सुहृदश्च धनानि च ।पश्य बुद्ध्या मनुष्याणां राजन्नापदमात्मनः ।नियच्छ यच्छ संयच्छ इन्द्रियाणि मनो गिरम् ॥ ४६ ॥
प्रतिषिद्धानवाप्येषु दुर्लभेष्वहितेषु च ।प्रतिकृष्टेषु भावेषु व्यतिकृष्टेष्वसंभवे ।प्रज्ञानतृप्तो विक्रान्तस्त्वद्विधो नानुशोचति ॥ ४७ ॥
अल्पमिच्छन्नचपलो मृदुर्दान्तः सुसंशितः ।ब्रह्मचर्योपपन्नश्च त्वद्विधो नैव मुह्यति ॥ ४८ ॥
न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि ।नृशंसवृत्तिं पापिष्ठां दुःखां कापुरुषोचिताम् ॥ ४९ ॥
अपि मूलफलाजीवो रमस्वैको महावने ।वाग्यतः संगृहीतात्मा सर्वभूतदयान्वितः ॥ ५० ॥
सदृशं पण्डितस्यैतदीषादन्तेन दन्तिना ।यदेको रमतेऽरण्ये यच्चाप्यल्पेन तुष्यति ॥ ५१ ॥
महाह्रदः संक्षुभित आत्मनैव प्रसीदति ।एतदेवंगतस्याहं सुखं पश्यामि केवलम् ॥ ५२ ॥
असंभवे श्रियो राजन्हीनस्य सचिवादिभिः ।दैवे प्रतिनिविष्टे च किं श्रेयो मन्यते भवान् ॥ ५३ ॥
« »