Click on words to see what they mean.

युधिष्ठिर उवाच ।कथं मृदौ कथं तीक्ष्णे महापक्षे च पार्थिव ।अरौ वर्तेत नृपतिस्तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर ॥ २ ॥
बृहस्पतिं देवपतिरभिवाद्य कृताञ्जलिः ।उपसंगम्य पप्रच्छ वासवः परवीरहा ॥ ३ ॥
अहितेषु कथं ब्रह्मन्वर्तयेयमतन्द्रितः ।असमुच्छिद्य चैवेनान्नियच्छेयमुपायतः ॥ ४ ॥
सेनयोर्व्यतिषङ्गेण जयः साधारणो भवेत् ।किं कुर्वाणं न मां जह्याज्ज्वलिता श्रीः प्रतापिनी ॥ ५ ॥
ततो धर्मार्थकामानां कुशलः प्रतिभानवान् ।राजधर्मविधानज्ञः प्रत्युवाच पुरंदरम् ॥ ६ ॥
न जातु कलहेनेच्छेन्नियन्तुमपकारिणः ।बालसंसेवितं ह्येतद्यदमर्षो यदक्षमा ।न शत्रुर्विवृतः कार्यो वधमस्याभिकाङ्क्षता ॥ ७ ॥
क्रोधं बलममर्षं च नियम्यात्मजमात्मनि ।अमित्रमुपसेवेत विश्वस्तवदविश्वसन् ॥ ८ ॥
प्रियमेव वदेन्नित्यं नाप्रियं किंचिदाचरेत् ।विरमेच्छुष्कवैरेभ्यः कण्ठायासं च वर्जयेत् ॥ ९ ॥
यथा वैतंसिको युक्तो द्विजानां सदृशस्वनः ।तान्द्विजान्कुरुते वश्यांस्तथा युक्तो महीपतिः ।वशं चोपनयेच्छत्रून्निहन्याच्च पुरंदर ॥ १० ॥
न नित्यं परिभूयारीन्सुखं स्वपिति वासव ।जागर्त्येव च दुष्टात्मा संकरेऽग्निरिवोत्थितः ॥ ११ ॥
न संनिपातः कर्तव्यः सामान्ये विजये सति ।विश्वास्यैवोपसंन्यास्यो वशे कृत्वा रिपुः प्रभो ॥ १२ ॥
संप्रधार्य सहामात्यैर्मन्त्रविद्भिर्महात्मभिः ।उपेक्षमाणोऽवज्ञाते हृदयेनापराजितः ॥ १३ ॥
अथास्य प्रहरेत्काले किंचिद्विचलिते पदे ।दण्डं च दूषयेदस्य पुरुषैराप्तकारिभिः ॥ १४ ॥
आदिमध्यावसानज्ञः प्रच्छन्नं च विचारयेत् ।बलानि दूषयेदस्य जानंश्चैव प्रमाणतः ॥ १५ ॥
भेदेनोपप्रदानेन संसृजन्नौषधैस्तथा ।न त्वेव चेलसंसर्गं रचयेदरिभिः सह ॥ १६ ॥
दीर्घकालमपि क्षान्त्वा विहन्यादेव शात्रवान् ।कालाकाङ्क्षी यामयेच्च यथा विस्रम्भमाप्नुयुः ॥ १७ ॥
न सद्योऽरीन्विनिर्हन्याद्दृष्टस्य विजयोऽज्वरः ।न यः शल्यं घट्टयति नवं च कुरुते व्रणम् ॥ १८ ॥
प्राप्ते च प्रहरेत्काले न स संवर्तते पुनः ।हन्तुकामस्य देवेन्द्र पुरुषस्य रिपुं प्रति ॥ १९ ॥
यः कालो हि व्यतिक्रामेत्पुरुषं कालकाङ्क्षिणम् ।दुर्लभः स पुनः कालः कालधर्मचिकीर्षुणा ॥ २० ॥
और्जस्थ्यं विजयेदेवं संगृह्णन्साधुसंमतान् ।कालेन साधयेन्नित्यं नाप्राप्तेऽभिनिपीडयेत् ॥ २१ ॥
विहाय कामं क्रोधं च तथाहंकारमेव च ।युक्तो विवरमन्विच्छेदहितानां पुरंदर ॥ २२ ॥
मार्दवं दण्ड आलस्यं प्रमादश्च सुरोत्तम ।मायाश्च विविधाः शक्र साधयन्त्यविचक्षणम् ॥ २३ ॥
निहत्यैतानि चत्वारि मायां प्रतिविधाय च ।ततः शक्नोति शत्रूणां प्रहर्तुमविचारयन् ॥ २४ ॥
यदैवैकेन शक्येत गुह्यं कर्तुं तदाचरेत् ।यच्छन्ति सचिवा गुह्यं मिथो विद्रावयन्त्यपि ॥ २५ ॥
अशक्यमिति कृत्वा वा ततोऽन्यैः संविदं चरेत् ।ब्रह्मदण्डमदृष्टेषु दृष्टेषु चतुरङ्गिणीम् ॥ २६ ॥
भेदं च प्रथमं युञ्ज्यात्तूष्णींदण्डं तथैव च ।काले प्रयोजयेद्राजा तस्मिंस्तस्मिंस्तदा तदा ॥ २७ ॥
प्रणिपातं च गच्छेत काले शत्रोर्बलीयसः ।युक्तोऽस्य वधमन्विच्छेदप्रमत्तः प्रमाद्यतः ॥ २८ ॥
प्रणिपातेन दानेन वाचा मधुरया ब्रुवन् ।अमित्रमुपसेवेत न तु जातु विशङ्कयेत् ॥ २९ ॥
स्थानानि शङ्कितानां च नित्यमेव विवर्जयेत् ।न च तेष्वाश्वसेद्द्रुग्ध्वा जाग्रतीह निराकृताः ॥ ३० ॥
न ह्यतो दुष्करं कर्म किंचिदस्ति सुरोत्तम ।यथा विविधवृत्तानामैश्वर्यममराधिप ॥ ३१ ॥
तथा विविधशीलानामपि संभव उच्यते ।यतेत योगमास्थाय मित्रामित्रानवारयन् ॥ ३२ ॥
मृदुमप्यवमन्यन्ते तीक्ष्णादुद्विजते जनः ।मातीक्ष्णो मामृदुर्भूस्त्वं तीक्ष्णो भव मृदुर्भव ॥ ३३ ॥
यथा वप्रे वेगवति सर्वतःसंप्लुतोदके ।नित्यं विवरणाद्बाधस्तथा राज्यं प्रमाद्यतः ॥ ३४ ॥
न बहूनभियुञ्जीत यौगपद्येन शात्रवान् ।साम्ना दानेन भेदेन दण्डेन च पुरंदर ॥ ३५ ॥
एकैकमेषां निष्पिंषञ्शिष्टेषु निपुणं चरेत् ।न च शक्तोऽपि मेधावी सर्वानेवारभेन्नृपः ॥ ३६ ॥
यदा स्यान्महती सेना हयनागरथाकुला ।पदातियन्त्रबहुला स्वनुरक्ता षडङ्गिनी ॥ ३७ ॥
यदा बहुविधां वृद्धिं मन्यते प्रतिलोमतः ।तदा विवृत्य प्रहरेद्दस्यूनामविचारयन् ॥ ३८ ॥
न साम दण्डोपनिषत्प्रशस्यते न मार्दवं शत्रुषु यात्रिकं सदा ।न सस्यघातो न च संकरक्रिया न चापि भूयः प्रकृतेर्विचारणा ॥ ३९ ॥
मायाविभेदानुपसर्जनानि पापं तथैव स्पशसंप्रयोगात् ।आप्तैर्मनुष्यैरुपचारयेत पुरेषु राष्ट्रेषु च संप्रयुक्तः ॥ ४० ॥
पुराणि चैषामनुसृत्य भूमिपाः पुरेषु भोगान्निखिलानिहाजयन् ।पुरेषु नीतिं विहितां यथाविधि प्रयोजयन्तो बलवृत्रसूदन ॥ ४१ ॥
प्रदाय गूढानि वसूनि नाम प्रच्छिद्य भोगानवधाय च स्वान् ।दुष्टाः स्वदोषैरिति कीर्तयित्वा पुरेषु राष्ट्रेषु च योजयन्ति ॥ ४२ ॥
तथैव चान्यै रतिशास्त्रवेदिभिः स्वलंकृतैः शास्त्रविधानदृष्टिभिः ।सुशिक्षितैर्भाष्यकथाविशारदैः परेषु कृत्यानुपधारयस्व ॥ ४३ ॥
इन्द्र उवाच ।कानि लिङ्गानि दुष्टस्य भवन्ति द्विजसत्तम ।कथं दुष्टं विजानीयादेतत्पृष्टो ब्रवीहि मे ॥ ४४ ॥
बृहस्पतिरुवाच ।परोक्षमगुणानाह सद्गुणानभ्यसूयति ।परैर्वा कीर्त्यमानेषु तूष्णीमास्ते पराङ्मुखः ॥ ४५ ॥
तूष्णींभावेऽपि हि ज्ञानं न चेद्भवति कारणम् ।विश्वासमोष्ठसंदंशं शिरसश्च प्रकम्पनम् ॥ ४६ ॥
करोत्यभीक्ष्णं संसृष्टमसंसृष्टश्च भाषते ।अदृष्टितो विकुरुते दृष्ट्वा वा नाभिभाषते ॥ ४७ ॥
पृथगेत्य समश्नाति नेदमद्य यथाविधि ।आसने शयने याने भावा लक्ष्या विशेषतः ॥ ४८ ॥
आर्तिरार्ते प्रिये प्रीतिरेतावन्मित्रलक्षणम् ।विपरीतं तु बोद्धव्यमरिलक्षणमेव तत् ॥ ४९ ॥
एतान्येवं यथोक्तानि बुध्येथास्त्रिदशाधिप ।पुरुषाणां प्रदुष्टानां स्वभावो बलवत्तरः ॥ ५० ॥
इति दुष्टस्य विज्ञानमुक्तं ते सुरसत्तम ।निशाम्य शास्त्रतत्त्वार्थं यथावदमरेश्वर ॥ ५१ ॥
भीष्म उवाच ।स तद्वचः शत्रुनिबर्हणे रतस्तथा चकारावितथं बृहस्पतेः ।चचार काले विजयाय चारिहा वशं च शत्रूननयत्पुरंदरः ॥ ५२ ॥
« »