Click on words to see what they mean.

वैशंपायन उवाच ।ते समासाद्य गङ्गां तु शिवां पुण्यजनोचिताम् ।ह्रदिनीं वप्रसंपन्नां महानूपां महावनाम् ॥ १ ॥
भूषणान्युत्तरीयाणि वेष्टनान्यवमुच्य च ।ततः पितॄणां पौत्राणां भ्रातॄणां स्वजनस्य च ॥ २ ॥
पुत्राणामार्यकाणां च पतीनां च कुरुस्त्रियः ।उदकं चक्रिरे सर्वा रुदन्त्यो भृशदुःखिताः ।सुहृदां चापि धर्मज्ञाः प्रचक्रुः सलिलक्रियाः ॥ ३ ॥
उदके क्रियमाणे तु वीराणां वीरपत्निभिः ।सूपतीर्थाभवद्गङ्गा भूयो विप्रससार च ॥ ४ ॥
तन्महोदधिसंकाशं निरानन्दमनुत्सवम् ।वीरपत्नीभिराकीर्णं गङ्गातीरमशोभत ॥ ५ ॥
ततः कुन्ती महाराज सहसा शोककर्शिता ।रुदती मन्दया वाचा पुत्रान्वचनमब्रवीत् ॥ ६ ॥
यः स शूरो महेष्वासो रथयूथपयूथपः ।अर्जुनेन हतः संख्ये वीरलक्षणलक्षितः ॥ ७ ॥
यं सूतपुत्रं मन्यध्वं राधेयमिति पाण्डवाः ।यो व्यराजच्चमूमध्ये दिवाकर इव प्रभुः ॥ ८ ॥
प्रत्ययुध्यत यः सर्वान्पुरा वः सपदानुगान् ।दुर्योधनबलं सर्वं यः प्रकर्षन्व्यरोचत ॥ ९ ॥
यस्य नास्ति समो वीर्ये पृथिव्यामपि कश्चन ।सत्यसंधस्य शूरस्य संग्रामेष्वपलायिनः ॥ १० ॥
कुरुध्वमुदकं तस्य भ्रातुरक्लिष्टकर्मणः ।स हि वः पूर्वजो भ्राता भास्करान्मय्यजायत ।कुण्डली कवची शूरो दिवाकरसमप्रभः ॥ ११ ॥
श्रुत्वा तु पाण्डवाः सर्वे मातुर्वचनमप्रियम् ।कर्णमेवानुशोचन्त भूयश्चार्ततराभवन् ॥ १२ ॥
ततः स पुरुषव्याघ्रः कुन्तीपुत्रो युधिष्ठिरः ।उवाच मातरं वीरो निःश्वसन्निव पन्नगः ॥ १३ ॥
यस्येषुपातमासाद्य नान्यस्तिष्ठेद्धनंजयात् ।कथं पुत्रो भवत्यां स देवगर्भः पुराभवत् ॥ १४ ॥
यस्य बाहुप्रतापेन तापिताः सर्वतो वयम् ।तमग्निमिव वस्त्रेण कथं छादितवत्यसि ।यस्य बाहुबलं घोरं धार्तराष्ट्रैरुपासितम् ॥ १५ ॥
नान्यः कुन्तीसुतात्कर्णादगृह्णाद्रथिनां रथी ।स नः प्रथमजो भ्राता सर्वशस्त्रभृतां वरः ।असूत तं भवत्यग्रे कथमद्भुतविक्रमम् ॥ १६ ॥
अहो भवत्या मन्त्रस्य पिधानेन वयं हताः ।निधनेन हि कर्णस्य पीडिताः स्म सबान्धवाः ॥ १७ ॥
अभिमन्योर्विनाशेन द्रौपदेयवधेन च ।पाञ्चालानां च नाशेन कुरूणां पतनेन च ॥ १८ ॥
ततः शतगुणं दुःखमिदं मामस्पृशद्भृशम् ।कर्णमेवानुशोचन्हि दह्याम्यग्नाविवाहितः ॥ १९ ॥
न हि स्म किंचिदप्राप्यं भवेदपि दिवि स्थितम् ।न च स्म वैशसं घोरं कौरवान्तकरं भवेत् ॥ २० ॥
एवं विलप्य बहुलं धर्मराजो युधिष्ठिरः ।विनदञ्शनकै राजंश्चकारास्योदकं प्रभुः ॥ २१ ॥
ततो विनेदुः सहसा स्त्रीपुंसास्तत्र सर्वशः ।अभितो ये स्थितास्तत्र तस्मिन्नुदककर्मणि ॥ २२ ॥
तत आनाययामास कर्णस्य सपरिच्छदम् ।स्त्रियः कुरुपतिर्धीमान्भ्रातुः प्रेम्णा युधिष्ठिरः ॥ २३ ॥
स ताभिः सह धर्मात्मा प्रेतकृत्यमनन्तरम् ।कृत्वोत्ततार गङ्गायाः सलिलादाकुलेन्द्रियः ॥ २४ ॥
« »