Click on words to see what they mean.

गान्धार्युवाच ।काम्बोजं पश्य दुर्धर्षं काम्बोजास्तरणोचितम् ।शयानमृषभस्कन्धं हतं पांसुशु माधव ॥ १ ॥
यस्य क्षतजसंदिग्धौ बाहू चन्दनरूषितौ ।अवेक्ष्य कृपणं भार्या विलपत्यतिदुःखिता ॥ २ ॥
इमौ तौ परिघप्रख्यौ बाहू शुभतलाङ्गुली ।ययोर्विवरमापन्नां न रतिर्मां पुराजहत् ॥ ३ ॥
कां गतिं नु गमिष्यामि त्वया हीना जनेश्वर ।दूरबन्धुरनाथेव अतीव मधुरस्वरा ॥ ४ ॥
आतपे क्लाम्यमानानां विविधानामिव स्रजाम् ।क्लान्तानामपि नारीणां न श्रीर्जहति वै तनुम् ॥ ५ ॥
शयानमभितः शूरं कालिङ्गं मधुसूदन ।पश्य दीप्ताङ्गदयुगप्रतिबद्धमहाभुजम् ॥ ६ ॥
मागधानामधिपतिं जयत्सेनं जनार्दन ।परिवार्य प्ररुदिता मागध्यः पश्य योषितः ॥ ७ ॥
आसामायतनेत्राणां सुस्वराणां जनार्दन ।मनःश्रुतिहरो नादो मनो मोहयतीव मे ॥ ८ ॥
प्रकीर्णसर्वाभरणा रुदन्त्यः शोककर्शिताः ।स्वास्तीर्णशयनोपेता मागध्यः शेरते भुवि ॥ ९ ॥
कोसलानामधिपतिं राजपुत्रं बृहद्बलम् ।भर्तारं परिवार्यैताः पृथक्प्ररुदिताः स्त्रियः ॥ १० ॥
अस्य गात्रगतान्बाणान्कार्ष्णिबाहुबलार्पितान् ।उद्धरन्त्यसुखाविष्टा मूर्छमानाः पुनः पुनः ॥ ११ ॥
आसां सर्वानवद्यानामातपेन परिश्रमात् ।प्रम्लाननलिनाभानि भान्ति वक्त्राणि माधव ॥ १२ ॥
द्रोणेन निहताः शूराः शेरते रुचिराङ्गदाः ।द्रोणेनाभिमुखाः सर्वे भ्रातरः पञ्च केकयाः ॥ १३ ॥
तप्तकाञ्चनवर्माणस्ताम्रध्वजरथस्रजः ।भासयन्ति महीं भासा ज्वलिता इव पावकाः ॥ १४ ॥
द्रोणेन द्रुपदं संख्ये पश्य माधव पातितम् ।महाद्विपमिवारण्ये सिंहेन महता हतम् ॥ १५ ॥
पाञ्चालराज्ञो विपुलं पुण्डरीकाक्ष पाण्डुरम् ।आतपत्रं समाभाति शरदीव दिवाकरः ॥ १६ ॥
एतास्तु द्रुपदं वृद्धं स्नुषा भार्याश्च दुःखिताः ।दग्ध्वा गच्छन्ति पाञ्चाल्यं राजानमपसव्यतः ॥ १७ ॥
धृष्टकेतुं महेष्वासं चेदिपुंगवमङ्गनाः ।द्रोणेन निहतं शूरं हरन्ति हृतचेतसः ॥ १८ ॥
द्रोणास्त्रमभिहत्यैष विमर्दे मधुसूदन ।महेष्वासो हतः शेते नद्या हृत इव द्रुमः ॥ १९ ॥
एष चेदिपतिः शूरो धृष्टकेतुर्महारथः ।शेते विनिहतः संख्ये हत्वा शत्रून्सहस्रशः ॥ २० ॥
वितुद्यमानं विहगैस्तं भार्याः प्रत्युपस्थिताः ।चेदिराजं हृषीकेश हतं सबलबान्धवम् ॥ २१ ॥
दाशार्हीपुत्रजं वीरं शयानं सत्यविक्रमम् ।आरोप्याङ्के रुदन्त्येताश्चेदिराजवराङ्गनाः ॥ २२ ॥
अस्य पुत्रं हृषीकेश सुवक्त्रं चारुकुण्डलम् ।द्रोणेन समरे पश्य निकृत्तं बहुधा शरैः ॥ २३ ॥
पितरं नूनमाजिस्थं युध्यमानं परैः सह ।नाजहात्पृष्ठतो वीरमद्यापि मधुसूदन ॥ २४ ॥
एवं ममापि पुत्रस्य पुत्रः पितरमन्वगात् ।दुर्योधनं महाबाहो लक्ष्मणः परवीरहा ॥ २५ ॥
विन्दानुविन्दावावन्त्यौ पतितौ पश्य माधव ।हिमान्ते पुष्पितौ शालौ मरुता गलिताविव ॥ २६ ॥
काञ्चनाङ्गदवर्माणौ बाणखड्गधनुर्धरौ ।ऋषभप्रतिरूपाक्षौ शयानौ विमलस्रजौ ॥ २७ ॥
अवध्याः पाण्डवाः कृष्ण सर्व एव त्वया सह ।ये मुक्ता द्रोणभीष्माभ्यां कर्णाद्वैकर्तनात्कृपात् ॥ २८ ॥
दुर्योधनाद्द्रोणसुतात्सैन्धवाच्च महारथात् ।सोमदत्ताद्विकर्णाच्च शूराच्च कृतवर्मणः ।ये हन्युः शस्त्रवेगेन देवानपि नरर्षभाः ॥ २९ ॥
त इमे निहताः संख्ये पश्य कालस्य पर्ययम् ।नातिभारोऽस्ति दैवस्य ध्रुवं माधव कश्चन ।यदिमे निहताः शूराः क्षत्रियैः क्षत्रियर्षभाः ॥ ३० ॥
तदैव निहताः कृष्ण मम पुत्रास्तरस्विनः ।यदैवाकृतकामस्त्वमुपप्लव्यं गतः पुनः ॥ ३१ ॥
शंतनोश्चैव पुत्रेण प्राज्ञेन विदुरेण च ।तदैवोक्तास्मि मा स्नेहं कुरुष्वात्मसुतेष्विति ॥ ३२ ॥
तयोर्न दर्शनं तात मिथ्या भवितुमर्हति ।अचिरेणैव मे पुत्रा भस्मीभूता जनार्दन ॥ ३३ ॥
वैशंपायन उवाच ।इत्युक्त्वा न्यपतद्भूमौ गान्धारी शोककर्शिता ।दुःखोपहतविज्ञाना धैर्यमुत्सृज्य भारत ॥ ३४ ॥
ततः कोपपरीताङ्गी पुत्रशोकपरिप्लुता ।जगाम शौरिं दोषेण गान्धारी व्यथितेन्द्रिया ॥ ३५ ॥
गान्धार्युवाच ।पाण्डवा धार्तराष्ट्राश्च द्रुग्धाः कृष्ण परस्परम् ।उपेक्षिता विनश्यन्तस्त्वया कस्माज्जनार्दन ॥ ३६ ॥
शक्तेन बहुभृत्येन विपुले तिष्ठता बले ।उभयत्र समर्थेन श्रुतवाक्येन चैव ह ॥ ३७ ॥
इच्छतोपेक्षितो नाशः कुरूणां मधुसूदन ।यस्मात्त्वया महाबाहो फलं तस्मादवाप्नुहि ॥ ३८ ॥
पतिशुश्रूषया यन्मे तपः किंचिदुपार्जितम् ।तेन त्वां दुरवापात्मञ्शप्स्ये चक्रगदाधर ॥ ३९ ॥
यस्मात्परस्परं घ्नन्तो ज्ञातयः कुरुपाण्डवाः ।उपेक्षितास्ते गोविन्द तस्माज्ज्ञातीन्वधिष्यसि ॥ ४० ॥
त्वमप्युपस्थिते वर्षे षट्त्रिंशे मधुसूदन ।हतज्ञातिर्हतामात्यो हतपुत्रो वनेचरः ।कुत्सितेनाभ्युपायेन निधनं समवाप्स्यसि ॥ ४१ ॥
तवाप्येवं हतसुता निहतज्ञातिबान्धवाः ।स्त्रियः परिपतिष्यन्ति यथैता भरतस्त्रियः ॥ ४२ ॥
वैशंपायन उवाच ।तच्छ्रुत्वा वचनं घोरं वासुदेवो महामनाः ।उवाच देवीं गान्धारीमीषदभ्युत्स्मयन्निव ॥ ४३ ॥
संहर्ता वृष्णिचक्रस्य नान्यो मद्विद्यते शुभे ।जानेऽहमेतदप्येवं चीर्णं चरसि क्षत्रिये ॥ ४४ ॥
अवध्यास्ते नरैरन्यैरपि वा देवदानवैः ।परस्परकृतं नाशमतः प्राप्स्यन्ति यादवाः ॥ ४५ ॥
इत्युक्तवति दाशार्हे पाण्डवास्त्रस्तचेतसः ।बभूवुर्भृशसंविग्ना निराशाश्चापि जीविते ॥ ४६ ॥
« »