Click on words to see what they mean.

जनमेजय उवाच ।हते दुर्योधने चैव हते सैन्ये च सर्वशः ।धृतराष्ट्रो महाराजः श्रुत्वा किमकरोन्मुने ॥ १ ॥
तथैव कौरवो राजा धर्मपुत्रो महामनाः ।कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः ॥ २ ॥
अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारितः ।वृत्तान्तमुत्तरं ब्रूहि यदभाषत संजयः ॥ ३ ॥
वैशंपायन उवाच ।हते पुत्रशते दीनं छिन्नशाखमिव द्रुमम् ।पुत्रशोकाभिसंतप्तं धृतराष्ट्रं महीपतिम् ॥ ४ ॥
ध्यानमूकत्वमापन्नं चिन्तया समभिप्लुतम् ।अभिगम्य महाप्राज्ञः संजयो वाक्यमब्रवीत् ॥ ५ ॥
किं शोचसि महाराज नास्ति शोके सहायता ।अक्षौहिण्यो हताश्चाष्टौ दश चैव विशां पते ।निर्जनेयं वसुमती शून्या संप्रति केवला ॥ ६ ॥
नानादिग्भ्यः समागम्य नानादेश्या नराधिपाः ।सहितास्तव पुत्रेण सर्वे वै निधनं गताः ॥ ७ ॥
पितॄणां पुत्रपौत्राणां ज्ञातीनां सुहृदां तथा ।गुरूणां चानुपूर्व्येण प्रेतकार्याणि कारय ॥ ८ ॥
वैशंपायन उवाच ।तच्छ्रुत्वा करुणं वाक्यं पुत्रपौत्रवधार्दितः ।पपात भुवि दुर्धर्षो वाताहत इव द्रुमः ॥ ९ ॥
धृतराष्ट्र उवाच ।हतपुत्रो हतामात्यो हतसर्वसुहृज्जनः ।दुःखं नूनं भविष्यामि विचरन्पृथिवीमिमाम् ॥ १० ॥
किं नु बन्धुविहीनस्य जीवितेन ममाद्य वै ।लूनपक्षस्य इव मे जराजीर्णस्य पक्षिणः ॥ ११ ॥
हृतराज्यो हतसुहृद्धतचक्षुश्च वै तथा ।न भ्राजिष्ये महाप्राज्ञ क्षीणरश्मिरिवांशुमान् ॥ १२ ॥
न कृतं सुहृदां वाक्यं जामदग्न्यस्य जल्पतः ।नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च ॥ १३ ॥
सभामध्ये तु कृष्णेन यच्छ्रेयोऽभिहितं मम ।अलं वैरेण ते राजन्पुत्रः संगृह्यतामिति ॥ १४ ॥
तच्च वाक्यमकृत्वाहं भृशं तप्यामि दुर्मतिः ।न हि श्रोतास्मि भीष्मस्य धर्मयुक्तं प्रभाषितम् ॥ १५ ॥
दुर्योधनस्य च तथा वृषभस्येव नर्दतः ।दुःशासनवधं श्रुत्वा कर्णस्य च विपर्ययम् ।द्रोणसूर्योपरागं च हृदयं मे विदीर्यते ॥ १६ ॥
न स्मराम्यात्मनः किंचित्पुरा संजय दुष्कृतम् ।यस्येदं फलमद्येह मया मूढेन भुज्यते ॥ १७ ॥
नूनं ह्यपकृतं किंचिन्मया पूर्वेषु जन्मसु ।येन मां दुःखभागेषु धाता कर्मसु युक्तवान् ॥ १८ ॥
परिणामश्च वयसः सर्वबन्धुक्षयश्च मे ।सुहृन्मित्रविनाशश्च दैवयोगादुपागतः ।कोऽन्योऽस्ति दुःखिततरो मया लोके पुमानिह ॥ १९ ॥
तन्मामद्यैव पश्यन्तु पाण्डवाः संशितव्रतम् ।विवृतं ब्रह्मलोकस्य दीर्घमध्वानमास्थितम् ॥ २० ॥
वैशंपायन उवाच ।तस्य लालप्यमानस्य बहुशोकं विचिन्वतः ।शोकापहं नरेन्द्रस्य संजयो वाक्यमब्रवीत् ॥ २१ ॥
शोकं राजन्व्यपनुद श्रुतास्ते वेदनिश्चयाः ।शास्त्रागमाश्च विविधा वृद्धेभ्यो नृपसत्तम ।सृञ्जये पुत्रशोकार्ते यदूचुर्मुनयः पुरा ॥ २२ ॥
तथा यौवनजं दर्पमास्थिते ते सुते नृप ।न त्वया सुहृदां वाक्यं ब्रुवतामवधारितम् ।स्वार्थश्च न कृतः कश्चिल्लुब्धेन फलगृद्धिना ॥ २३ ॥
तव दुःशासनो मन्त्री राधेयश्च दुरात्मवान् ।शकुनिश्चैव दुष्टात्मा चित्रसेनश्च दुर्मतिः ।शल्यश्च येन वै सर्वं शल्यभूतं कृतं जगत् ॥ २४ ॥
कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च ।न कृतं वचनं तेन तव पुत्रेण भारत ॥ २५ ॥
न धर्मः सत्कृतः कश्चिन्नित्यं युद्धमिति ब्रुवन् ।क्षपिताः क्षत्रियाः सर्वे शत्रूणां वर्धितं यशः ॥ २६ ॥
मध्यस्थो हि त्वमप्यासीर्न क्षमं किंचिदुक्तवान् ।धूर्धरेण त्वया भारस्तुलया न समं धृतः ॥ २७ ॥
आदावेव मनुष्येण वर्तितव्यं यथा क्षमम् ।यथा नातीतमर्थं वै पश्चात्तापेन युज्यते ॥ २८ ॥
पुत्रगृद्ध्या त्वया राजन्प्रियं तस्य चिकीर्षता ।पश्चात्तापमिदं प्राप्तं न त्वं शोचितुमर्हसि ॥ २९ ॥
मधु यः केवलं दृष्ट्वा प्रपातं नानुपश्यति ।स भ्रष्टो मधुलोभेन शोचत्येव यथा भवान् ॥ ३० ॥
अर्थान्न शोचन्प्राप्नोति न शोचन्विन्दते सुखम् ।न शोचञ्श्रियमाप्नोति न शोचन्विन्दते परम् ॥ ३१ ॥
स्वयमुत्पादयित्वाग्निं वस्त्रेण परिवेष्टयेत् ।दह्यमानो मनस्तापं भजते न स पण्डितः ॥ ३२ ॥
त्वयैव ससुतेनायं वाक्यवायुसमीरितः ।लोभाज्येन च संसिक्तो ज्वलितः पार्थपावकः ॥ ३३ ॥
तस्मिन्समिद्धे पतिताः शलभा इव ते सुताः ।तान्केशवार्चिर्निर्दग्धान्न त्वं शोचितुमर्हसि ॥ ३४ ॥
यच्चाश्रुपातकलिलं वदनं वहसे नृप ।अशास्त्रदृष्टमेतद्धि न प्रशंसन्ति पण्डिताः ॥ ३५ ॥
विस्फुलिङ्गा इव ह्येतान्दहन्ति किल मानवान् ।जहीहि मन्युं बुद्ध्या वै धारयात्मानमात्मना ॥ ३६ ॥
एवमाश्वासितस्तेन संजयेन महात्मना ।विदुरो भूय एवाह बुद्धिपूर्वं परंतप ॥ ३७ ॥
« »