Click on words to see what they mean.

वासुदेव उवाच ।ततो देवयुगेऽतीते देवा वै समकल्पयन् ।यज्ञं वेदप्रमाणेन विधिवद्यष्टुमीप्सवः ॥ १ ॥
कल्पयामासुरव्यग्रा देशान्यज्ञोचितांस्ततः ।भागार्हा देवताश्चैव यज्ञियं द्रव्यमेव च ॥ २ ॥
ता वै रुद्रमजानन्त्यो याथातथ्येन देवताः ।नाकल्पयन्त देवस्य स्थाणोर्भागं नराधिप ॥ ३ ॥
सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः ।तरसा भागमन्विच्छन्धनुरादौ ससर्ज ह ॥ ४ ॥
लोकयज्ञः क्रियायज्ञो गृहयज्ञः सनातनः ।पञ्चभूतमयो यज्ञो नृयज्ञश्चैव पञ्चमः ॥ ५ ॥
लोकयज्ञेन यज्ञैषी कपर्दी विदधे धनुः ।धनुः सृष्टमभूत्तस्य पञ्चकिष्कुप्रमाणतः ॥ ६ ॥
वषट्कारोऽभवज्ज्या तु धनुषस्तस्य भारत ।यज्ञाङ्गानि च चत्वारि तस्य संहननेऽभवन् ॥ ७ ॥
ततः क्रुद्धो महादेवस्तदुपादाय कार्मुकम् ।आजगामाथ तत्रैव यत्र देवाः समीजिरे ॥ ८ ॥
तमात्तकार्मुकं दृष्ट्वा ब्रह्मचारिणमव्ययम् ।विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे ॥ ९ ॥
न ववौ पवनश्चैव नाग्निर्जज्वाल चैधितः ।व्यभ्रमच्चापि संविग्नं दिवि नक्षत्रमण्डलम् ॥ १० ॥
न बभौ भास्करश्चापि सोमः श्रीमुक्तमण्डलः ।तिमिरेणाकुलं सर्वमाकाशं चाभवद्वृतम् ॥ ११ ॥
अभिभूतास्ततो देवा विषयान्न प्रजज्ञिरे ।न प्रत्यभाच्च यज्ञस्तान्वेदा बभ्रंशिरे तदा ॥ १२ ॥
ततः स यज्ञं रौद्रेण विव्याध हृदि पत्रिणा ।अपक्रान्तस्ततो यज्ञो मृगो भूत्वा सपावकः ॥ १३ ॥
स तु तेनैव रूपेण दिवं प्राप्य व्यरोचत ।अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले ॥ १४ ॥
अपक्रान्ते ततो यज्ञे संज्ञा न प्रत्यभात्सुरान् ।नष्टसंज्ञेषु देवेषु न प्रज्ञायत किंचन ॥ १५ ॥
त्र्यम्बकः सवितुर्बाहू भगस्य नयने तथा ।पूष्णश्च दशनान्क्रुद्धो धनुष्कोट्या व्यशातयत् ॥ १६ ॥
प्राद्रवन्त ततो देवा यज्ञाङ्गानि च सर्वशः ।केचित्तत्रैव घूर्णन्तो गतासव इवाभवन् ॥ १७ ॥
स तु विद्राव्य तत्सर्वं शितिकण्ठोऽवहस्य च ।अवष्टभ्य धनुष्कोटिं रुरोध विबुधांस्ततः ॥ १८ ॥
ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत् ।अथ तत्सहसा राजंश्छिन्नज्यं विस्फुरद्धनुः ॥ १९ ॥
ततो विधनुषं देवा देवश्रेष्ठमुपागमन् ।शरणं सह यज्ञेन प्रसादं चाकरोत्प्रभुः ॥ २० ॥
ततः प्रसन्नो भगवान्प्रास्यत्कोपं जलाशये ।स जलं पावको भूत्वा शोषयत्यनिशं प्रभो ॥ २१ ॥
भगस्य नयने चैव बाहू च सवितुस्तथा ।प्रादात्पूष्णश्च दशनान्पुनर्यज्ञं च पाण्डव ॥ २२ ॥
ततः सर्वमिदं स्वस्थं बभूव पुनरेव ह ।सर्वाणि च हवींष्यस्य देवा भागमकल्पयन् ॥ २३ ॥
तस्मिन्क्रुद्धेऽभवत्सर्वमस्वस्थं भुवनं विभो ।प्रसन्ने च पुनः स्वस्थं स प्रसन्नोऽस्य वीर्यवान् ॥ २४ ॥
ततस्ते निहताः सर्वे तव पुत्रा महारथाः ।अन्ये च बहवः शूराः पाञ्चालाश्च सहानुगाः ॥ २५ ॥
न तन्मनसि कर्तव्यं न हि तद्द्रौणिना कृतम् ।महादेवप्रसादः स कुरु कार्यमनन्तरम् ॥ २६ ॥
« »