Click on words to see what they mean.

वैशंपायन उवाच ।ततोऽमृतसमैर्वाक्यैर्ह्लादयन्पुरुषर्षभम् ।वैचित्रवीर्यं विदुरो यदुवाच निबोध तत् ॥ १ ॥
विदुर उवाच ।उत्तिष्ठ राजन्किं शेषे धारयात्मानमात्मना ।स्थिरजङ्गममर्त्यानां सर्वेषामेष निर्णयः ॥ २ ॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥ ३ ॥
यदा शूरं च भीरुं च यमः कर्षति भारत ।तत्किं न योत्स्यन्ति हि ते क्षत्रियाः क्षत्रियर्षभ ॥ ४ ॥
अयुध्यमानो म्रियते युध्यमानश्च जीवति ।कालं प्राप्य महाराज न कश्चिदतिवर्तते ॥ ५ ॥
न चाप्येतान्हतान्युद्धे राजञ्शोचितुमर्हसि ।प्रमाणं यदि शास्त्राणि गतास्ते परमां गतिम् ॥ ६ ॥
सर्वे स्वाध्यायवन्तो हि सर्वे च चरितव्रताः ।सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना ॥ ७ ॥
अदर्शनादापतिताः पुनश्चादर्शनं गताः ।न ते तव न तेषां त्वं तत्र का परिदेवना ॥ ८ ॥
हतोऽपि लभते स्वर्गं हत्वा च लभते यशः ।उभयं नो बहुगुणं नास्ति निष्फलता रणे ॥ ९ ॥
तेषां कामदुघाँल्लोकानिन्द्रः संकल्पयिष्यति ।इन्द्रस्यातिथयो ह्येते भवन्ति पुरुषर्षभ ॥ १० ॥
न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया ।स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः ॥ ११ ॥
मातापितृसहस्राणि पुत्रदारशतानि च ।संसारेष्वनुभूतानि कस्य ते कस्य वा वयम् ॥ १२ ॥
शोकस्थानसहस्राणि भयस्थानशतानि च ।दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ १३ ॥
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम ।न मध्यस्थः क्वचित्कालः सर्वं कालः प्रकर्षति ॥ १४ ॥
अनित्यं जीवितं रूपं यौवनं द्रव्यसंचयः ।आरोग्यं प्रियसंवासो गृध्येदेषु न पण्डितः ॥ १५ ॥
न जानपदिकं दुःखमेकः शोचितुमर्हसि ।अप्यभावेन युज्येत तच्चास्य न निवर्तते ॥ १६ ॥
अशोचन्प्रतिकुर्वीत यदि पश्येत्पराक्रमम् ।भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत् ।चिन्त्यमानं हि न व्येति भूयश्चापि विवर्धते ॥ १७ ॥
अनिष्टसंप्रयोगाच्च विप्रयोगात्प्रियस्य च ।मनुष्या मानसैर्दुःखैर्युज्यन्ते येऽल्पबुद्धयः ॥ १८ ॥
नार्थो न धर्मो न सुखं यदेतदनुशोचसि ।न च नापैति कार्यार्थात्त्रिवर्गाच्चैव भ्रश्यते ॥ १९ ॥
अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः ।असंतुष्टाः प्रमुह्यन्ति संतोषं यान्ति पण्डिताः ॥ २० ॥
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः ।एतज्ज्ञानस्य सामर्थ्यं न बालैः समतामियात् ॥ २१ ॥
शयानं चानुशयति तिष्ठन्तं चानुतिष्ठति ।अनुधावति धावन्तं कर्म पूर्वकृतं नरम् ॥ २२ ॥
यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् ।तस्यां तस्यामवस्थायां तत्तत्फलमुपाश्नुते ॥ २३ ॥
« »