Click on words to see what they mean.

धृतराष्ट्र उवाच ।तथा प्रयाते शिबिरं द्रोणपुत्रे महारथे ।कच्चित्कृपश्च भोजश्च भयार्तौ न न्यवर्तताम् ॥ १ ॥
कच्चिन्न वारितौ क्षुद्रै रक्षिभिर्नोपलक्षितौ ।असह्यमिति वा मत्वा न निवृत्तौ महारथौ ॥ २ ॥
कच्चित्प्रमथ्य शिबिरं हत्वा सोमकपाण्डवान् ।दुर्योधनस्य पदवीं गतौ परमिकां रणे ॥ ३ ॥
पाञ्चालैर्वा विनिहतौ कच्चिन्नास्वपतां क्षितौ ।कच्चित्ताभ्यां कृतं कर्म तन्ममाचक्ष्व संजय ॥ ४ ॥
संजय उवाच ।तस्मिन्प्रयाते शिबिरं द्रोणपुत्रे महात्मनि ।कृपश्च कृतवर्मा च शिबिरद्वार्यतिष्ठताम् ॥ ५ ॥
अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ ।प्रहृष्टः शनकै राजन्निदं वचनमब्रवीत् ॥ ६ ॥
यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने ।किं पुनर्योधशेषस्य प्रसुप्तस्य विशेषतः ॥ ७ ॥
अहं प्रवेक्ष्ये शिबिरं चरिष्यामि च कालवत् ।यथा न कश्चिदपि मे जीवन्मुच्येत मानवः ॥ ८ ॥
इत्युक्त्वा प्राविशद्द्रौणिः पार्थानां शिबिरं महत् ।अद्वारेणाभ्यवस्कन्द्य विहाय भयमात्मनः ॥ ९ ॥
स प्रविश्य महाबाहुरुद्देशज्ञश्च तस्य ह ।धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत् ॥ १० ॥
ते तु कृत्वा महत्कर्म श्रान्ताश्च बलवद्रणे ।प्रसुप्ता वै सुविश्वस्ताः स्वसैन्यपरिवारिताः ॥ ११ ॥
अथ प्रविश्य तद्वेश्म धृष्टद्युम्नस्य भारत ।पाञ्चाल्यं शयने द्रौणिरपश्यत्सुप्तमन्तिकात् ॥ १२ ॥
क्षौमावदाते महति स्पर्ध्यास्तरणसंवृते ।माल्यप्रवरसंयुक्ते धूपैश्चूर्णैश्च वासिते ॥ १३ ॥
तं शयानं महात्मानं विस्रब्धमकुतोभयम् ।प्राबोधयत पादेन शयनस्थं महीपते ॥ १४ ॥
स बुद्ध्वा चरणस्पर्शमुत्थाय रणदुर्मदः ।अभ्यजानदमेयात्मा द्रोणपुत्रं महारथम् ॥ १५ ॥
तमुत्पतन्तं शयनादश्वत्थामा महाबलः ।केशेष्वालम्ब्य पाणिभ्यां निष्पिपेष महीतले ॥ १६ ॥
स बलात्तेन निष्पिष्टः साध्वसेन च भारत ।निद्रया चैव पाञ्चाल्यो नाशकच्चेष्टितुं तदा ॥ १७ ॥
तमाक्रम्य तदा राजन्कण्ठे चोरसि चोभयोः ।नदन्तं विस्फुरन्तं च पशुमारममारयत् ॥ १८ ॥
तुदन्नखैस्तु स द्रौणिं नातिव्यक्तमुदाहरत् ।आचार्यपुत्र शस्त्रेण जहि मा मा चिरं कृथाः ।त्वत्कृते सुकृताँल्लोकान्गच्छेयं द्विपदां वर ॥ १९ ॥
तस्याव्यक्तां तु तां वाचं संश्रुत्य द्रौणिरब्रवीत् ।आचार्यघातिनां लोका न सन्ति कुलपांसन ।तस्माच्छस्त्रेण निधनं न त्वमर्हसि दुर्मते ॥ २० ॥
एवं ब्रुवाणस्तं वीरं सिंहो मत्तमिव द्विपम् ।मर्मस्वभ्यवधीत्क्रुद्धः पादाष्ठीलैः सुदारुणैः ॥ २१ ॥
तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि ।अबुध्यन्त महाराज स्त्रियो ये चास्य रक्षिणः ॥ २२ ॥
ते दृष्ट्वा वर्ष्मवन्तं तमतिमानुषविक्रमम् ।भूतमेव व्यवस्यन्तो न स्म प्रव्याहरन्भयात् ॥ २३ ॥
तं तु तेनाभ्युपायेन गमयित्वा यमक्षयम् ।अध्यतिष्ठत्स तेजस्वी रथं प्राप्य सुदर्शनम् ॥ २४ ॥
स तस्य भवनाद्राजन्निष्क्रम्यानादयन्दिशः ।रथेन शिबिरं प्रायाज्जिघांसुर्द्विषतो बली ॥ २५ ॥
अपक्रान्ते ततस्तस्मिन्द्रोणपुत्रे महारथे ।सह तै रक्षिभिः सर्वैः प्रणेदुर्योषितस्तदा ॥ २६ ॥
राजानं निहतं दृष्ट्वा भृशं शोकपरायणाः ।व्याक्रोशन्क्षत्रियाः सर्वे धृष्टद्युम्नस्य भारत ॥ २७ ॥
तासां तु तेन शब्देन समीपे क्षत्रियर्षभाः ।क्षिप्रं च समनह्यन्त किमेतदिति चाब्रुवन् ॥ २८ ॥
स्त्रियस्तु राजन्वित्रस्ता भारद्वाजं निरीक्ष्य तम् ।अब्रुवन्दीनकण्ठेन क्षिप्रमाद्रवतेति वै ॥ २९ ॥
राक्षसो वा मनुष्यो वा नैनं जानीमहे वयम् ।हत्वा पाञ्चालराजं यो रथमारुह्य तिष्ठति ॥ ३० ॥
ततस्ते योधमुख्यास्तं सहसा पर्यवारयन् ।स तानापततः सर्वान्रुद्रास्त्रेण व्यपोथयत् ॥ ३१ ॥
धृष्टद्युम्नं च हत्वा स तांश्चैवास्य पदानुगान् ।अपश्यच्छयने सुप्तमुत्तमौजसमन्तिके ॥ ३२ ॥
तमप्याक्रम्य पादेन कण्ठे चोरसि चौजसा ।तथैव मारयामास विनर्दन्तमरिंदमम् ॥ ३३ ॥
युधामन्युस्तु संप्राप्तो मत्त्वा तं रक्षसा हतम् ।गदामुद्यम्य वेगेन हृदि द्रौणिमताडयत् ॥ ३४ ॥
तमभिद्रुत्य जग्राह क्षितौ चैनमपातयत् ।विस्फुरन्तं च पशुवत्तथैवैनममारयत् ॥ ३५ ॥
तथा स वीरो हत्वा तं ततोऽन्यान्समुपाद्रवत् ।संसुप्तानेव राजेन्द्र तत्र तत्र महारथान् ।स्फुरतो वेपमानांश्च शमितेव पशून्मखे ॥ ३६ ॥
ततो निस्त्रिंशमादाय जघानान्यान्पृथग्जनान् ।भागशो विचरन्मार्गानसियुद्धविशारदः ॥ ३७ ॥
तथैव गुल्मे संप्रेक्ष्य शयानान्मध्यगौल्मिकान् ।श्रान्तान्न्यस्तायुधान्सर्वान्क्षणेनैव व्यपोथयत् ॥ ३८ ॥
योधानश्वान्द्विपांश्चैव प्राच्छिनत्स वरासिना ।रुधिरोक्षितसर्वाङ्गः कालसृष्ट इवान्तकः ॥ ३९ ॥
विस्फुरद्भिश्च तैर्द्रौणिर्निस्त्रिंशस्योद्यमेन च ।आक्षेपेण तथैवासेस्त्रिधा रक्तोक्षितोऽभवत् ॥ ४० ॥
तस्य लोहितसिक्तस्य दीप्तखड्गस्य युध्यतः ।अमानुष इवाकारो बभौ परमभीषणः ॥ ४१ ॥
ये त्वजाग्रत कौरव्य तेऽपि शब्देन मोहिताः ।निरीक्ष्यमाणा अन्योन्यं द्रौणिं दृष्ट्वा प्रविव्यथुः ॥ ४२ ॥
तद्रूपं तस्य ते दृष्ट्वा क्षत्रियाः शत्रुकर्शनाः ।राक्षसं मन्यमानास्तं नयनानि न्यमीलयन् ॥ ४३ ॥
स घोररूपो व्यचरत्कालवच्छिबिरे ततः ।अपश्यद्द्रौपदीपुत्रानवशिष्टांश्च सोमकान् ॥ ४४ ॥
तेन शब्देन वित्रस्ता धनुर्हस्ता महारथाः ।धृष्टद्युम्नं हतं श्रुत्वा द्रौपदेया विशां पते ।अवाकिरञ्शरव्रातैर्भारद्वाजमभीतवत् ॥ ४५ ॥
ततस्तेन निनादेन संप्रबुद्धाः प्रभद्रकाः ।शिलीमुखैः शिखण्डी च द्रोणपुत्रं समार्दयन् ॥ ४६ ॥
भारद्वाजस्तु तान्दृष्ट्वा शरवर्षाणि वर्षतः ।ननाद बलवन्नादं जिघांसुस्तान्सुदुर्जयान् ॥ ४७ ॥
ततः परमसंक्रुद्धः पितुर्वधमनुस्मरन् ।अवरुह्य रथोपस्थात्त्वरमाणोऽभिदुद्रुवे ॥ ४८ ॥
सहस्रचन्द्रं विपुलं गृहीत्वा चर्म संयुगे ।खड्गं च विपुलं दिव्यं जातरूपपरिष्कृतम् ।द्रौपदेयानभिद्रुत्य खड्गेन व्यचरद्बली ॥ ४९ ॥
ततः स नरशार्दूलः प्रतिविन्ध्यं तमाहवे ।कुक्षिदेशेऽवधीद्राजन्स हतो न्यपतद्भुवि ॥ ५० ॥
प्रासेन विद्ध्वा द्रौणिं तु सुतसोमः प्रतापवान् ।पुनश्चासिं समुद्यम्य द्रोणपुत्रमुपाद्रवत् ॥ ५१ ॥
सुतसोमस्य सासिं तु बाहुं छित्त्वा नरर्षभः ।पुनरभ्यहनत्पार्श्वे स भिन्नहृदयोऽपतत् ॥ ५२ ॥
नाकुलिस्तु शतानीको रथचक्रेण वीर्यवान् ।दोर्भ्यामुत्क्षिप्य वेगेन वक्षस्येनमताडयत् ॥ ५३ ॥
अताडयच्छतानीकं मुक्तचक्रं द्विजस्तु सः ।स विह्वलो ययौ भूमिं ततोऽस्यापाहरच्छिरः ॥ ५४ ॥
श्रुतकर्मा तु परिघं गृहीत्वा समताडयत् ।अभिद्रुत्य ततो द्रौणिं सव्ये स फलके भृशम् ॥ ५५ ॥
स तु तं श्रुतकर्माणमास्ये जघ्ने वरासिना ।स हतो न्यपतद्भूमौ विमूढो विकृताननः ॥ ५६ ॥
तेन शब्देन वीरस्तु श्रुतकीर्तिर्महाधनुः ।अश्वत्थामानमासाद्य शरवर्षैरवाकिरत् ॥ ५७ ॥
तस्यापि शरवर्षाणि चर्मणा प्रतिवार्य सः ।सकुण्डलं शिरः कायाद्भ्राजमानमपाहरत् ॥ ५८ ॥
ततो भीष्मनिहन्ता तं सह सर्वैः प्रभद्रकैः ।अहनत्सर्वतो वीरं नानाप्रहरणैर्बली ।शिलीमुखेन चाप्येनं भ्रुवोर्मध्ये समार्दयत् ॥ ५९ ॥
स तु क्रोधसमाविष्टो द्रोणपुत्रो महाबलः ।शिखण्डिनं समासाद्य द्विधा चिच्छेद सोऽसिना ॥ ६० ॥
शिखण्डिनं ततो हत्वा क्रोधाविष्टः परंतपः ।प्रभद्रकगणान्सर्वानभिदुद्राव वेगवान् ।यच्च शिष्टं विराटस्य बलं तच्च समाद्रवत् ॥ ६१ ॥
द्रुपदस्य च पुत्राणां पौत्राणां सुहृदामपि ।चकार कदनं घोरं दृष्ट्वा दृष्ट्वा महाबलः ॥ ६२ ॥
अन्यानन्यांश्च पुरुषानभिसृत्याभिसृत्य च ।न्यकृन्तदसिना द्रौणिरसिमार्गविशारदः ॥ ६३ ॥
कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम् ।रक्ताम्बरधरामेकां पाशहस्तां शिखण्डिनीम् ॥ ६४ ॥
ददृशुः कालरात्रिं ते स्मयमानामवस्थिताम् ।नराश्वकुञ्जरान्पाशैर्बद्ध्वा घोरैः प्रतस्थुषीम् ।हरन्तीं विविधान्प्रेतान्पाशबद्धान्विमूर्धजान् ॥ ६५ ॥
स्वप्ने सुप्तान्नयन्तीं तां रात्रिष्वन्यासु मारिष ।ददृशुर्योधमुख्यास्ते घ्नन्तं द्रौणिं च नित्यदा ॥ ६६ ॥
यतः प्रवृत्तः संग्रामः कुरुपाण्डवसेनयोः ।ततः प्रभृति तां कृत्यामपश्यन्द्रौणिमेव च ॥ ६७ ॥
तांस्तु दैवहतान्पूर्वं पश्चाद्द्रौणिर्न्यपातयत् ।त्रासयन्सर्वभूतानि विनदन्भैरवान्रवान् ॥ ६८ ॥
तदनुस्मृत्य ते वीरा दर्शनं पौर्वकालिकम् ।इदं तदित्यमन्यन्त दैवेनोपनिपीडिताः ॥ ६९ ॥
ततस्तेन निनादेन प्रत्यबुध्यन्त धन्विनः ।शिबिरे पाण्डवेयानां शतशोऽथ सहस्रशः ॥ ७० ॥
सोऽच्छिनत्कस्यचित्पादौ जघनं चैव कस्यचित् ।कांश्चिद्बिभेद पार्श्वेषु कालसृष्ट इवान्तकः ॥ ७१ ॥
अत्युग्रप्रतिपिष्टैश्च नदद्भिश्च भृशातुरैः ।गजाश्वमथितैश्चान्यैर्मही कीर्णाभवत्प्रभो ॥ ७२ ॥
क्रोशतां किमिदं कोऽयं किं शब्दः किं नु किं कृतम् ।एवं तेषां तदा द्रौणिरन्तकः समपद्यत ॥ ७३ ॥
अपेतशस्त्रसंनाहान्संरब्धान्पाण्डुसृञ्जयान् ।प्राहिणोन्मृत्युलोकाय द्रौणिः प्रहरतां वरः ॥ ७४ ॥
ततस्तच्छस्त्रवित्रस्ता उत्पतन्तो भयातुराः ।निद्रान्धा नष्टसंज्ञाश्च तत्र तत्र निलिल्यिरे ॥ ७५ ॥
ऊरुस्तम्भगृहीताश्च कश्मलाभिहतौजसः ।विनदन्तो भृशं त्रस्ताः संन्यपेषन्परस्परम् ॥ ७६ ॥
ततो रथं पुनर्द्रौणिरास्थितो भीमनिस्वनम् ।धनुष्पाणिः शरैरन्यान्प्रेषयद्वै यमक्षयम् ॥ ७७ ॥
पुनरुत्पततः कांश्चिद्दूरादपि नरोत्तमान् ।शूरान्संपततश्चान्यान्कालरात्र्यै न्यवेदयत् ॥ ७८ ॥
तथैव स्यन्दनाग्रेण प्रमथन्स विधावति ।शरवर्षैश्च विविधैरवर्षच्छात्रवांस्ततः ॥ ७९ ॥
पुनश्च सुविचित्रेण शतचन्द्रेण चर्मणा ।तेन चाकाशवर्णेन तदाचरत सोऽसिना ॥ ८० ॥
तथा स शिबिरं तेषां द्रौणिराहवदुर्मदः ।व्यक्षोभयत राजेन्द्र महाह्रदमिव द्विपः ॥ ८१ ॥
उत्पेतुस्तेन शब्देन योधा राजन्विचेतसः ।निद्रार्ताश्च भयार्ताश्च व्यधावन्त ततस्ततः ॥ ८२ ॥
विस्वरं चुक्रुशुश्चान्ये बह्वबद्धं तथावदन् ।न च स्म प्रतिपद्यन्ते शस्त्राणि वसनानि च ॥ ८३ ॥
विमुक्तकेशाश्चाप्यन्ये नाभ्यजानन्परस्परम् ।उत्पतन्तः परे भीताः केचित्तत्र तथाभ्रमन् ।पुरीषमसृजन्केचित्केचिन्मूत्रं प्रसुस्रुवुः ॥ ८४ ॥
बन्धनानि च राजेन्द्र संछिद्य तुरगा द्विपाः ।समं पर्यपतंश्चान्ये कुर्वन्तो महदाकुलम् ॥ ८५ ॥
तत्र केचिन्नरा भीता व्यलीयन्त महीतले ।तथैव तान्निपतितानपिंषन्गजवाजिनः ॥ ८६ ॥
तस्मिंस्तथा वर्तमाने रक्षांसि पुरुषर्षभ ।तृप्तानि व्यनदन्नुच्चैर्मुदा भरतसत्तम ॥ ८७ ॥
स शब्दः प्रेरितो राजन्भूतसंघैर्मुदा युतैः ।अपूरयद्दिशः सर्वा दिवं चापि महास्वनः ॥ ८८ ॥
तेषामार्तस्वरं श्रुत्वा वित्रस्ता गजवाजिनः ।मुक्ताः पर्यपतन्राजन्मृद्नन्तः शिबिरे जनम् ॥ ८९ ॥
तैस्तत्र परिधावद्भिश्चरणोदीरितं रजः ।अकरोच्छिबिरे तेषां रजन्यां द्विगुणं तमः ॥ ९० ॥
तस्मिंस्तमसि संजाते प्रमूढाः सर्वतो जनाः ।नाजानन्पितरः पुत्रान्भ्रातॄन्भ्रातर एव च ॥ ९१ ॥
गजा गजानतिक्रम्य निर्मनुष्या हया हयान् ।अताडयंस्तथाभञ्जंस्तथामृद्नंश्च भारत ॥ ९२ ॥
ते भग्नाः प्रपतन्तश्च निघ्नन्तश्च परस्परम् ।न्यपातयन्त च परान्पातयित्वा तथापिषन् ॥ ९३ ॥
विचेतसः सनिद्राश्च तमसा चावृता नराः ।जघ्नुः स्वानेव तत्राथ कालेनाभिप्रचोदिताः ॥ ९४ ॥
त्यक्त्वा द्वाराणि च द्वाःस्थास्तथा गुल्मांश्च गौल्मिकाः ।प्राद्रवन्त यथाशक्ति कांदिशीका विचेतसः ॥ ९५ ॥
विप्रनष्टाश्च तेऽन्योन्यं नाजानन्त तदा विभो ।क्रोशन्तस्तात पुत्रेति दैवोपहतचेतसः ॥ ९६ ॥
पलायतां दिशस्तेषां स्वानप्युत्सृज्य बान्धवान् ।गोत्रनामभिरन्योन्यमाक्रन्दन्त ततो जनाः ॥ ९७ ॥
हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे ।तान्बुद्ध्वा रणमत्तोऽसौ द्रोणपुत्रो व्यपोथयत् ॥ ९८ ॥
तत्रापरे वध्यमाना मुहुर्मुहुरचेतसः ।शिबिरान्निष्पतन्ति स्म क्षत्रिया भयपीडिताः ॥ ९९ ॥
तांस्तु निष्पततस्त्रस्ताञ्शिबिराञ्जीवितैषिणः ।कृतवर्मा कृपश्चैव द्वारदेशे निजघ्नतुः ॥ १०० ॥
विशस्त्रयन्त्रकवचान्मुक्तकेशान्कृताञ्जलीन् ।वेपमानान्क्षितौ भीतान्नैव कांश्चिदमुञ्चताम् ॥ १०१ ॥
नामुच्यत तयोः कश्चिन्निष्क्रान्तः शिबिराद्बहिः ।कृपस्य च महाराज हार्दिक्यस्य च दुर्मतेः ॥ १०२ ॥
भूयश्चैव चिकीर्षन्तौ द्रोणपुत्रस्य तौ प्रियम् ।त्रिषु देशेषु ददतुः शिबिरस्य हुताशनम् ॥ १०३ ॥
ततः प्रकाशे शिबिरे खड्गेन पितृनन्दनः ।अश्वत्थामा महाराज व्यचरत्कृतहस्तवत् ॥ १०४ ॥
कांश्चिदापततो वीरानपरांश्च प्रधावतः ।व्ययोजयत खड्गेन प्राणैर्द्विजवरो नरान् ॥ १०५ ॥
कांश्चिद्योधान्स खड्गेन मध्ये संछिद्य वीर्यवान् ।अपातयद्द्रोणसुतः संरब्धस्तिलकाण्डवत् ॥ १०६ ॥
विनदद्भिर्भृशायस्तैर्नराश्वद्विरदोत्तमैः ।पतितैरभवत्कीर्णा मेदिनी भरतर्षभ ॥ १०७ ॥
मानुषाणां सहस्रेषु हतेषु पतितेषु च ।उदतिष्ठन्कबन्धानि बहून्युत्थाय चापतन् ॥ १०८ ॥
सायुधान्साङ्गदान्बाहून्निचकर्त शिरांसि च ।हस्तिहस्तोपमानूरून्हस्तान्पादांश्च भारत ॥ १०९ ॥
पृष्ठच्छिन्नाञ्शिरश्छिन्नान्पार्श्वच्छिन्नांस्तथापरान् ।समासाद्याकरोद्द्रौणिः कांश्चिच्चापि पराङ्मुखान् ॥ ११० ॥
मध्यकायान्नरानन्यांश्चिच्छेदान्यांश्च कर्णतः ।अंसदेशे निहत्यान्यान्काये प्रावेशयच्छिरः ॥ १११ ॥
एवं विचरतस्तस्य निघ्नतः सुबहून्नरान् ।तमसा रजनी घोरा बभौ दारुणदर्शना ॥ ११२ ॥
किंचित्प्राणैश्च पुरुषैर्हतैश्चान्यैः सहस्रशः ।बहुना च गजाश्वेन भूरभूद्भीमदर्शना ॥ ११३ ॥
यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे ।क्रुद्धेन द्रोणपुत्रेण संछिन्नाः प्रापतन्भुवि ॥ ११४ ॥
मातॄरन्ये पितॄनन्ये भ्रातॄनन्ये विचुक्रुशुः ।केचिदूचुर्न तत्क्रुद्धैर्धार्तराष्ट्रैः कृतं रणे ॥ ११५ ॥
यत्कृतं नः प्रसुप्तानां रक्षोभिः क्रूरकर्मभिः ।असांनिध्याद्धि पार्थानामिदं नः कदनं कृतम् ॥ ११६ ॥
न देवासुरगन्धर्वैर्न यक्षैर्न च राक्षसैः ।शक्यो विजेतुं कौन्तेयो गोप्ता यस्य जनार्दनः ॥ ११७ ॥
ब्रह्मण्यः सत्यवाग्दान्तः सर्वभूतानुकम्पकः ।न च सुप्तं प्रमत्तं वा न्यस्तशस्त्रं कृताञ्जलिम् ।धावन्तं मुक्तकेशं वा हन्ति पार्थो धनंजयः ॥ ११८ ॥
तदिदं नः कृतं घोरं रक्षोभिः क्रूरकर्मभिः ।इति लालप्यमानाः स्म शेरते बहवो जनाः ॥ ११९ ॥
स्तनतां च मनुष्याणामपरेषां च कूजताम् ।ततो मुहूर्तात्प्राशाम्यत्स शब्दस्तुमुलो महान् ॥ १२० ॥
शोणितव्यतिषिक्तायां वसुधायां च भूमिप ।तद्रजस्तुमुलं घोरं क्षणेनान्तरधीयत ॥ १२१ ॥
संवेष्टमानानुद्विग्नान्निरुत्साहान्सहस्रशः ।न्यपातयन्नरान्क्रुद्धः पशून्पशुपतिर्यथा ॥ १२२ ॥
अन्योन्यं संपरिष्वज्य शयानान्द्रवतोऽपरान् ।संलीनान्युध्यमानांश्च सर्वान्द्रौणिरपोथयत् ॥ १२३ ॥
दह्यमाना हुताशेन वध्यमानाश्च तेन ते ।परस्परं तदा योधा अनयन्यमसादनम् ॥ १२४ ॥
तस्या रजन्यास्त्वर्धेन पाण्डवानां महद्बलम् ।गमयामास राजेन्द्र द्रौणिर्यमनिवेशनम् ॥ १२५ ॥
निशाचराणां सत्त्वानां स रात्रिर्हर्षवर्धिनी ।आसीन्नरगजाश्वानां रौद्री क्षयकरी भृशम् ॥ १२६ ॥
तत्रादृश्यन्त रक्षांसि पिशाचाश्च पृथग्विधाः ।खादन्तो नरमांसानि पिबन्तः शोणितानि च ॥ १२७ ॥
करालाः पिङ्गला रौद्राः शैलदन्ता रजस्वलाः ।जटिला दीर्घसक्थाश्च पञ्चपादा महोदराः ॥ १२८ ॥
पश्चादङ्गुलयो रूक्षा विरूपा भैरवस्वनाः ।घटजानवोऽतिह्रस्वाश्च नीलकण्ठा विभीषणाः ॥ १२९ ॥
सपुत्रदाराः सुक्रूरा दुर्दर्शनसुनिर्घृणाः ।विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम् ॥ १३० ॥
पीत्वा च शोणितं हृष्टाः प्रानृत्यन्गणशोऽपरे ।इदं वरमिदं मेध्यमिदं स्वाद्विति चाब्रुवन् ॥ १३१ ॥
मेदोमज्जास्थिरक्तानां वसानां च भृशाशिताः ।परमांसानि खादन्तः क्रव्यादा मांसजीविनः ॥ १३२ ॥
वसां चाप्यपरे पीत्वा पर्यधावन्विकुक्षिलाः ।नानावक्त्रास्तथा रौद्राः क्रव्यादाः पिशिताशिनः ॥ १३३ ॥
अयुतानि च तत्रासन्प्रयुतान्यर्बुदानि च ।रक्षसां घोररूपाणां महतां क्रूरकर्मणाम् ॥ १३४ ॥
मुदितानां वितृप्तानां तस्मिन्महति वैशसे ।समेतानि बहून्यासन्भूतानि च जनाधिप ॥ १३५ ॥
प्रत्यूषकाले शिबिरात्प्रतिगन्तुमियेष सः ।नृशोणितावसिक्तस्य द्रौणेरासीदसित्सरुः ।पाणिना सह संश्लिष्ट एकीभूत इव प्रभो ॥ १३६ ॥
स निःशेषानरीन्कृत्वा विरराज जनक्षये ।युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः ॥ १३७ ॥
यथाप्रतिज्ञं तत्कर्म कृत्वा द्रौणायनिः प्रभो ।दुर्गमां पदवीं कृत्वा पितुरासीद्गतज्वरः ॥ १३८ ॥
यथैव संसुप्तजने शिबिरे प्राविशन्निशि ।तथैव हत्वा निःशब्दे निश्चक्राम नरर्षभः ॥ १३९ ॥
निष्क्रम्य शिबिरात्तस्मात्ताभ्यां संगम्य वीर्यवान् ।आचख्यौ कर्म तत्सर्वं हृष्टः संहर्षयन्विभो ॥ १४० ॥
तावप्याचख्यतुस्तस्मै प्रियं प्रियकरौ तदा ।पाञ्चालान्सृञ्जयांश्चैव विनिकृत्तान्सहस्रशः ।प्रीत्या चोच्चैरुदक्रोशंस्तथैवास्फोटयंस्तलान् ॥ १४१ ॥
एवंविधा हि सा रात्रिः सोमकानां जनक्षये ।प्रसुप्तानां प्रमत्तानामासीत्सुभृशदारुणा ॥ १४२ ॥
असंशयं हि कालस्य पर्यायो दुरतिक्रमः ।तादृशा निहता यत्र कृत्वास्माकं जनक्षयम् ॥ १४३ ॥
धृतराष्ट्र उवाच ।प्रागेव सुमहत्कर्म द्रौणिरेतन्महारथः ।नाकरोदीदृशं कस्मान्मत्पुत्रविजये धृतः ॥ १४४ ॥
अथ कस्माद्धते क्षत्रे कर्मेदं कृतवानसौ ।द्रोणपुत्रो महेष्वासस्तन्मे शंसितुमर्हसि ॥ १४५ ॥
संजय उवाच ।तेषां नूनं भयान्नासौ कृतवान्कुरुनन्दन ।असांनिध्याद्धि पार्थानां केशवस्य च धीमतः ॥ १४६ ॥
सात्यकेश्चापि कर्मेदं द्रोणपुत्रेण साधितम् ।न हि तेषां समक्षं तान्हन्यादपि मरुत्पतिः ॥ १४७ ॥
एतदीदृशकं वृत्तं राजन्सुप्तजने विभो ।ततो जनक्षयं कृत्वा पाण्डवानां महात्ययम् ।दिष्ट्या दिष्ट्येति चान्योन्यं समेत्योचुर्महारथाः ॥ १४८ ॥
पर्यष्वजत्ततो द्रौणिस्ताभ्यां च प्रतिनन्दितः ।इदं हर्षाच्च सुमहदाददे वाक्यमुत्तमम् ॥ १४९ ॥
पाञ्चाला निहताः सर्वे द्रौपदेयाश्च सर्वशः ।सोमका मत्स्यशेषाश्च सर्वे विनिहता मया ॥ १५० ॥
इदानीं कृतकृत्याः स्म याम तत्रैव माचिरम् ।यदि जीवति नो राजा तस्मै शंसामहे प्रियम् ॥ १५१ ॥
« »