Click on words to see what they mean.

संजय उवाच ।ते हत्वा सर्वपाञ्चालान्द्रौपदेयांश्च सर्वशः ।अगच्छन्सहितास्तत्र यत्र दुर्योधनो हतः ॥ १ ॥
गत्वा चैनमपश्यंस्ते किंचित्प्राणं नराधिपम् ।ततो रथेभ्यः प्रस्कन्द्य परिवव्रुस्तवात्मजम् ॥ २ ॥
तं भग्नसक्थं राजेन्द्र कृच्छ्रप्राणमचेतसम् ।वमन्तं रुधिरं वक्त्रादपश्यन्वसुधातले ॥ ३ ॥
वृतं समन्ताद्बहुभिः श्वापदैर्घोरदर्शनैः ।शालावृकगणैश्चैव भक्षयिष्यद्भिरन्तिकात् ॥ ४ ॥
निवारयन्तं कृच्छ्रात्ताञ्श्वापदान्संचिखादिषून् ।विवेष्टमानं मह्यां च सुभृशं गाढवेदनम् ॥ ५ ॥
तं शयानं महात्मानं भूमौ स्वरुधिरोक्षितम् ।हतशिष्टास्त्रयो वीराः शोकार्ताः पर्यवारयन् ।अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ॥ ६ ॥
तैस्त्रिभिः शोणितादिग्धैर्निःश्वसद्भिर्महारथैः ।शुशुभे संवृतो राजा वेदी त्रिभिरिवाग्निभिः ॥ ७ ॥
ते तं शयानं संप्रेक्ष्य राजानमतथोचितम् ।अविषह्येन दुःखेन ततस्ते रुरुदुस्त्रयः ॥ ८ ॥
ततस्ते रुधिरं हस्तैर्मुखान्निर्मृज्य तस्य ह ।रणे राज्ञः शयानस्य कृपणं पर्यदेवयन् ॥ ९ ॥
कृप उवाच ।न दैवस्यातिभारोऽस्ति यदयं रुधिरोक्षितः ।एकादशचमूभर्ता शेते दुर्योधनो हतः ॥ १० ॥
पश्य चामीकराभस्य चामीकरविभूषिताम् ।गदां गदाप्रियस्येमां समीपे पतितां भुवि ॥ ११ ॥
इयमेनं गदा शूरं न जहाति रणे रणे ।स्वर्गायापि व्रजन्तं हि न जहाति यशस्विनम् ॥ १२ ॥
पश्येमां सह वीरेण जाम्बूनदविभूषिताम् ।शयानां शयने धर्मे भार्यां प्रीतिमतीमिव ॥ १३ ॥
यो वै मूर्धावसिक्तानामग्रे यातः परंतपः ।स हतो ग्रसते पांसून्पश्य कालस्य पर्ययम् ॥ १४ ॥
येनाजौ निहता भूमावशेरत पुरा द्विषः ।स भूमौ निहतः शेते कुरुराजः परैरयम् ॥ १५ ॥
भयान्नमन्ति राजानो यस्य स्म शतसंघशः ।स वीरशयने शेते क्रव्याद्भिः परिवारितः ॥ १६ ॥
उपासत नृपाः पूर्वमर्थहेतोर्यमीश्वरम् ।धिक्सद्यो निहतः शेते पश्य कालस्य पर्ययम् ॥ १७ ॥
संजय उवाच ।तं शयानं नृपश्रेष्ठं ततो भरतसत्तम ।अश्वत्थामा समालोक्य करुणं पर्यदेवयत् ॥ १८ ॥
आहुस्त्वां राजशार्दूल मुख्यं सर्वधनुष्मताम् ।धनाध्यक्षोपमं युद्धे शिष्यं संकर्षणस्य ह ॥ १९ ॥
कथं विवरमद्राक्षीद्भीमसेनस्तवानघ ।बलिनः कृतिनो नित्यं स च पापात्मवान्नृप ॥ २० ॥
कालो नूनं महाराज लोकेऽस्मिन्बलवत्तरः ।पश्यामो निहतं त्वां चेद्भीमसेनेन संयुगे ॥ २१ ॥
कथं त्वां सर्वधर्मज्ञं क्षुद्रः पापो वृकोदरः ।निकृत्या हतवान्मन्दो नूनं कालो दुरत्ययः ॥ २२ ॥
धर्मयुद्धे ह्यधर्मेण समाहूयौजसा मृधे ।गदया भीमसेनेन निर्भिन्ने सक्थिनी तव ॥ २३ ॥
अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः ।यदुपेक्षितवान्क्षुद्रो धिक्तमस्तु युधिष्ठिरम् ॥ २४ ॥
युद्धेष्वपवदिष्यन्ति योधा नूनं वृकोदरम् ।यावत्स्थास्यन्ति भूतानि निकृत्या ह्यसि पातितः ॥ २५ ॥
ननु रामोऽब्रवीद्राजंस्त्वां सदा यदुनन्दनः ।दुर्योधनसमो नास्ति गदया इति वीर्यवान् ॥ २६ ॥
श्लाघते त्वां हि वार्ष्णेयो राजन्संसत्सु भारत ।सुशिष्यो मम कौरव्यो गदायुद्ध इति प्रभो ॥ २७ ॥
यां गतिं क्षत्रियस्याहुः प्रशस्तां परमर्षयः ।हतस्याभिमुखस्याजौ प्राप्तस्त्वमसि तां गतिम् ॥ २८ ॥
दुर्योधन न शोचामि त्वामहं पुरुषर्षभ ।हतपुत्रां तु शोचामि गान्धारीं पितरं च ते ।भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम् ॥ २९ ॥
धिगस्तु कृष्णं वार्ष्णेयमर्जुनं चापि दुर्मतिम् ।धर्मज्ञमानिनौ यौ त्वां वध्यमानमुपेक्षताम् ॥ ३० ॥
पाण्डवाश्चापि ते सर्वे किं वक्ष्यन्ति नराधिपान् ।कथं दुर्योधनोऽस्माभिर्हत इत्यनपत्रपाः ॥ ३१ ॥
धन्यस्त्वमसि गान्धारे यस्त्वमायोधने हतः ।प्रयातोऽभिमुखः शत्रून्धर्मेण पुरुषर्षभ ॥ ३२ ॥
हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा ।प्रज्ञाचक्षुश्च दुर्धर्षः कां गतिं प्रतिपत्स्यते ॥ ३३ ॥
धिगस्तु कृतवर्माणं मां कृपं च महारथम् ।ये वयं न गताः स्वर्गं त्वां पुरस्कृत्य पार्थिवम् ॥ ३४ ॥
दातारं सर्वकामानां रक्षितारं प्रजाहितम् ।यद्वयं नानुगच्छामस्त्वां धिगस्मान्नराधमान् ॥ ३५ ॥
कृपस्य तव वीर्येण मम चैव पितुश्च मे ।सभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि च ॥ ३६ ॥
भवत्प्रसादादस्माभिः समित्रैः सहबान्धवैः ।अवाप्ताः क्रतवो मुख्या बहवो भूरिदक्षिणाः ॥ ३७ ॥
कुतश्चापीदृशं सार्थमुपलप्स्यामहे वयम् ।यादृशेन पुरस्कृत्य त्वं गतः सर्वपार्थिवान् ॥ ३८ ॥
वयमेव त्रयो राजन्गच्छन्तं परमां गतिम् ।यद्वै त्वां नानुगच्छामस्तेन तप्स्यामहे वयम् ॥ ३९ ॥
त्वत्स्वर्गहीना हीनार्थाः स्मरन्तः सुकृतस्य ते ।किं नाम तद्भवेत्कर्म येन त्वानुव्रजेम वै ॥ ४० ॥
दुःखं नूनं कुरुश्रेष्ठ चरिष्यामो महीमिमाम् ।हीनानां नस्त्वया राजन्कुतः शान्तिः कुतः सुखम् ॥ ४१ ॥
गत्वैतांस्तु महाराज समेत्य त्वं महारथान् ।यथाश्रेष्ठं यथाज्येष्ठं पूजयेर्वचनान्मम ॥ ४२ ॥
आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम् ।हतं मयाद्य शंसेथा धृष्टद्युम्नं नराधिप ॥ ४३ ॥
परिष्वजेथा राजानं बाह्लिकं सुमहारथम् ।सैन्धवं सोमदत्तं च भूरिश्रवसमेव च ॥ ४४ ॥
तथा पूर्वगतानन्यान्स्वर्गं पार्थिवसत्तमान् ।अस्मद्वाक्यात्परिष्वज्य पृच्छेथास्त्वमनामयम् ॥ ४५ ॥
इत्येवमुक्त्वा राजानं भग्नसक्थमचेतसम् ।अश्वत्थामा समुद्वीक्ष्य पुनर्वचनमब्रवीत् ॥ ४६ ॥
दुर्योधन जीवसि चेद्वाचं श्रोत्रसुखां शृणु ।सप्त पाण्डवतः शेषा धार्तराष्ट्रास्त्रयो वयम् ॥ ४७ ॥
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः ।अहं च कृतवर्मा च कृपः शारद्वतस्तथा ॥ ४८ ॥
द्रौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाः ।पाञ्चाला निहताः सर्वे मत्स्यशेषं च भारत ॥ ४९ ॥
कृते प्रतिकृतं पश्य हतपुत्रा हि पाण्डवाः ।सौप्तिके शिबिरं तेषां हतं सनरवाहनम् ॥ ५० ॥
मया च पापकर्मासौ धृष्टद्युम्नो महीपते ।प्रविश्य शिबिरं रात्रौ पशुमारेण मारितः ॥ ५१ ॥
दुर्योधनस्तु तां वाचं निशम्य मनसः प्रियाम् ।प्रतिलभ्य पुनश्चेत इदं वचनमब्रवीत् ॥ ५२ ॥
न मेऽकरोत्तद्गाङ्गेयो न कर्णो न च ते पिता ।यत्त्वया कृपभोजाभ्यां सहितेनाद्य मे कृतम् ॥ ५३ ॥
स चेत्सेनापतिः क्षुद्रो हतः सार्धं शिखण्डिना ।तेन मन्ये मघवता सममात्मानमद्य वै ॥ ५४ ॥
स्वस्ति प्राप्नुत भद्रं वः स्वर्गे नः संगमः पुनः ।इत्येवमुक्त्वा तूष्णीं स कुरुराजो महामनाः ।प्राणानुदसृजद्वीरः सुहृदां शोकमादधत् ॥ ५५ ॥
तथेति ते परिष्वक्ताः परिष्वज्य च तं नृपम् ।पुनः पुनः प्रेक्षमाणाः स्वकानारुरुहू रथान् ॥ ५६ ॥
इत्येवं तव पुत्रस्य निशम्य करुणां गिरम् ।प्रत्यूषकाले शोकार्तः प्राधावं नगरं प्रति ॥ ५७ ॥
तव पुत्रे गते स्वर्गं शोकार्तस्य ममानघ ।ऋषिदत्तं प्रनष्टं तद्दिव्यदर्शित्वमद्य वै ॥ ५८ ॥
वैशंपायन उवाच ।इति श्रुत्वा स नृपतिः पुत्रज्ञातिवधं तदा ।निःश्वस्य दीर्घमुष्णं च ततश्चिन्तापरोऽभवत् ॥ ५९ ॥
« »