Click on words to see what they mean.

संजय उवाच ।कृपस्य वचनं श्रुत्वा धर्मार्थसहितं शुभम् ।अश्वत्थामा महाराज दुःखशोकसमन्वितः ॥ १ ॥
दह्यमानस्तु शोकेन प्रदीप्तेनाग्निना यथा ।क्रूरं मनस्ततः कृत्वा तावुभौ प्रत्यभाषत ॥ २ ॥
पुरुषे पुरुषे बुद्धिः सा सा भवति शोभना ।तुष्यन्ति च पृथक्सर्वे प्रज्ञया ते स्वया स्वया ॥ ३ ॥
सर्वो हि मन्यते लोक आत्मानं बुद्धिमत्तरम् ।सर्वस्यात्मा बहुमतः सर्वात्मानं प्रशंसति ॥ ४ ॥
सर्वस्य हि स्वका प्रज्ञा साधुवादे प्रतिष्ठिता ।परबुद्धिं च निन्दन्ति स्वां प्रशंसन्ति चासकृत् ॥ ५ ॥
कारणान्तरयोगेन योगे येषां समा मतिः ।तेऽन्योन्येन च तुष्यन्ति बहु मन्यन्ति चासकृत् ॥ ६ ॥
तस्यैव तु मनुष्यस्य सा सा बुद्धिस्तदा तदा ।कालयोगविपर्यासं प्राप्यान्योन्यं विपद्यते ॥ ७ ॥
अचिन्त्यत्वाद्धि चित्तानां मनुष्याणां विशेषतः ।चित्तवैकल्यमासाद्य सा सा बुद्धिः प्रजायते ॥ ८ ॥
यथा हि वैद्यः कुशलो ज्ञात्वा व्याधिं यथाविधि ।भेषजं कुरुते योगात्प्रशमार्थमिहाभिभो ॥ ९ ॥
एवं कार्यस्य योगार्थं बुद्धिं कुर्वन्ति मानवाः ।प्रज्ञया हि स्वया युक्तास्तां च निन्दन्ति मानवाः ॥ १० ॥
अन्यया यौवने मर्त्यो बुद्ध्या भवति मोहितः ।मध्येऽन्यया जरायां तु सोऽन्यां रोचयते मतिम् ॥ ११ ॥
व्यसनं वा पुनर्घोरं समृद्धिं वापि तादृशीम् ।अवाप्य पुरुषो भोज कुरुते बुद्धिवैकृतम् ॥ १२ ॥
एकस्मिन्नेव पुरुषे सा सा बुद्धिस्तदा तदा ।भवत्यनित्यप्रज्ञत्वात्सा तस्यैव न रोचते ॥ १३ ॥
निश्चित्य तु यथाप्रज्ञं यां मतिं साधु पश्यति ।तस्यां प्रकुरुते भावं सा तस्योद्योगकारिका ॥ १४ ॥
सर्वो हि पुरुषो भोज साध्वेतदिति निश्चितः ।कर्तुमारभते प्रीतो मरणादिषु कर्मसु ॥ १५ ॥
सर्वे हि युक्तिं विज्ञाय प्रज्ञां चापि स्वकां नराः ।चेष्टन्ते विविधाश्चेष्टा हितमित्येव जानते ॥ १६ ॥
उपजाता व्यसनजा येयमद्य मतिर्मम ।युवयोस्तां प्रवक्ष्यामि मम शोकविनाशिनीम् ॥ १७ ॥
प्रजापतिः प्रजाः सृष्ट्वा कर्म तासु विधाय च ।वर्णे वर्णे समाधत्त एकैकं गुणवत्तरम् ॥ १८ ॥
ब्राह्मणे दममव्यग्रं क्षत्रिये तेज उत्तमम् ।दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम् ॥ १९ ॥
अदान्तो ब्राह्मणोऽसाधुर्निस्तेजाः क्षत्रियोऽधमः ।अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान् ॥ २० ॥
सोऽस्मि जातः कुले श्रेष्ठे ब्राह्मणानां सुपूजिते ।मन्दभाग्यतयास्म्येतं क्षत्रधर्ममनु ष्ठितः ॥ २१ ॥
क्षत्रधर्मं विदित्वाहं यदि ब्राह्मण्यसंश्रितम् ।प्रकुर्यां सुमहत्कर्म न मे तत्साधु संमतम् ॥ २२ ॥
धारयित्वा धनुर्दिव्यं दिव्यान्यस्त्राणि चाहवे ।पितरं निहतं दृष्ट्वा किं नु वक्ष्यामि संसदि ॥ २३ ॥
सोऽहमद्य यथाकामं क्षत्रधर्ममुपास्य तम् ।गन्तास्मि पदवीं राज्ञः पितुश्चापि महाद्युतेः ॥ २४ ॥
अद्य स्वप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः ।विमुक्तयुग्यकवचा हर्षेण च समन्विताः ।वयं जिता मताश्चैषां श्रान्ता व्यायमनेन च ॥ २५ ॥
तेषां निशि प्रसुप्तानां स्वस्थानां शिबिरे स्वके ।अवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम् ॥ २६ ॥
तानवस्कन्द्य शिबिरे प्रेतभूतान्विचेतसः ।सूदयिष्यामि विक्रम्य मघवानिव दानवान् ॥ २७ ॥
अद्य तान्सहितान्सर्वान्धृष्टद्युम्नपुरोगमान् ।सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः ।निहत्य चैव पाञ्चालाञ्शान्तिं लब्धास्मि सत्तम ॥ २८ ॥
पाञ्चालेषु चरिष्यामि सूदयन्नद्य संयुगे ।पिनाकपाणिः संक्रुद्धः स्वयं रुद्रः पशुष्विव ॥ २९ ॥
अद्याहं सर्वपाञ्चालान्निहत्य च निकृत्य च ।अर्दयिष्यामि संक्रुद्धो रणे पाण्डुसुतांस्तथा ॥ ३० ॥
अद्याहं सर्वपाञ्चालैः कृत्वा भूमिं शरीरिणीम् ।प्रहृत्यैकैकशस्तेभ्यो भविष्याम्यनृणः पितुः ॥ ३१ ॥
दुर्योधनस्य कर्णस्य भीष्मसैन्धवयोरपि ।गमयिष्यामि पाञ्चालान्पदवीमद्य दुर्गमाम् ॥ ३२ ॥
अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि ।विरात्रे प्रमथिष्यामि पशोरिव शिरो बलात् ॥ ३३ ॥
अद्य पाञ्चालपाण्डूनां शयितानात्मजान्निशि ।खड्गेन निशितेनाजौ प्रमथिष्यामि गौतम ॥ ३४ ॥
अद्य पाञ्चालसेनां तां निहत्य निशि सौप्तिके ।कृतकृत्यः सुखी चैव भविष्यामि महामते ॥ ३५ ॥
« »