Click on words to see what they mean.

कृप उवाच ।श्रुतं ते वचनं सर्वं हेतुयुक्तं मया विभो ।ममापि तु वचः किंचिच्छृणुष्वाद्य महाभुज ॥ १ ॥
आबद्धा मानुषाः सर्वे निर्बन्धाः कर्मणोर्द्वयोः ।दैवे पुरुषकारे च परं ताभ्यां न विद्यते ॥ २ ॥
न हि दैवेन सिध्यन्ति कर्माण्येकेन सत्तम ।न चापि कर्मणैकेन द्वाभ्यां सिद्धिस्तु योगतः ॥ ३ ॥
ताभ्यामुभाभ्यां सर्वार्था निबद्धा ह्यधमोत्तमाः ।प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः ॥ ४ ॥
पर्जन्यः पर्वते वर्षन्किं नु साधयते फलम् ।कृष्टे क्षेत्रे तथावर्षन्किं नु साधयते फलम् ॥ ५ ॥
उत्थानं चाप्यदैवस्य ह्यनुत्थानस्य दैवतम् ।व्यर्थं भवति सर्वत्र पूर्वं कस्तत्र निश्चयः ॥ ६ ॥
प्रवृष्टे च यथा देवे सम्यक्क्षेत्रे च कर्षिते ।बीजं महागुणं भूयात्तथा सिद्धिर्हि मानुषी ॥ ७ ॥
तयोर्दैवं विनिश्चित्य स्ववशेनैव वर्तते ।प्राज्ञाः पुरुषकारं तु घटन्ते दाक्ष्यमास्थिताः ॥ ८ ॥
ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ ।विचेष्टन्तश्च दृश्यन्ते निवृत्ताश्च तथैव हि ॥ ९ ॥
कृतः पुरुषकारः सन्सोऽपि दैवेन सिध्यति ।तथास्य कर्मणः कर्तुरभिनिर्वर्तते फलम् ॥ १० ॥
उत्थानं तु मनुष्याणां दक्षाणां दैववर्जितम् ।अफलं दृश्यते लोके सम्यगप्युपपादितम् ॥ ११ ॥
तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः ।उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते ॥ १२ ॥
प्रायशो हि कृतं कर्म अफलं दृश्यते भुवि ।अकृत्वा च पुनर्दुःखं कर्म दृश्येन्महाफलम् ॥ १३ ॥
चेष्टामकुर्वँल्लभते यदि किंचिद्यदृच्छया ।यो वा न लभते कृत्वा दुर्दशौ तावुभावपि ॥ १४ ॥
शक्नोति जीवितुं दक्षो नालसः सुखमेधते ।दृश्यन्ते जीवलोकेऽस्मिन्दक्षाः प्रायो हितैषिणः ॥ १५ ॥
यदि दक्षः समारम्भात्कर्मणां नाश्नुते फलम् ।नास्य वाच्यं भवेत्किंचित्तत्त्वं चाप्यधिगच्छति ॥ १६ ॥
अकृत्वा कर्म यो लोके फलं विन्दति विष्टितः ।स तु वक्तव्यतां याति द्वेष्यो भवति प्रायशः ॥ १७ ॥
एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा ।स करोत्यात्मनोऽनर्थान्नैष बुद्धिमतां नयः ॥ १८ ॥
हीनं पुरुषकारेण यदा दैवेन वा पुनः ।कारणाभ्यामथैताभ्यामुत्थानमफलं भवेत् ।हीनं पुरुषकारेण कर्म त्विह न सिध्यति ॥ १९ ॥
दैवतेभ्यो नमस्कृत्य यस्त्वर्थान्सम्यगीहते ।दक्षो दाक्षिण्यसंपन्नो न स मोघं विहन्यते ॥ २० ॥
सम्यगीहा पुनरियं यो वृद्धानुपसेवते ।आपृच्छति च यच्छ्रेयः करोति च हितं वचः ॥ २१ ॥
उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसंमताः ।तेऽस्य योगे परं मूलं तन्मूला सिद्धिरुच्यते ॥ २२ ॥
वृद्धानां वचनं श्रुत्वा यो ह्युत्थानं प्रयोजयेत् ।उत्थानस्य फलं सम्यक्तदा स लभतेऽचिरात् ॥ २३ ॥
रागात्क्रोधाद्भयाल्लोभाद्योऽर्थानीहेत मानवः ।अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः ॥ २४ ॥
सोऽयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना ।असमर्थ्य समारब्धो मूढत्वादविचिन्तितः ॥ २५ ॥
हितबुद्धीननादृत्य संमन्त्र्यासाधुभिः सह ।वार्यमाणोऽकरोद्वैरं पाण्डवैर्गुणवत्तरैः ॥ २६ ॥
पूर्वमप्यतिदुःशीलो न दैन्यं कर्तुमर्हति ।तपत्यर्थे विपन्ने हि मित्राणामकृतं वचः ॥ २७ ॥
अन्वावर्तामहि वयं यत्तु तं पापपूरुषम् ।अस्मानप्यनयस्तस्मात्प्राप्तोऽयं दारुणो महान् ॥ २८ ॥
अनेन तु ममाद्यापि व्यसनेनोपतापिता ।बुद्धिश्चिन्तयतः किंचित्स्वं श्रेयो नावबुध्यते ॥ २९ ॥
मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो बुधाः ।ते च पृष्टा यथा ब्रूयुस्तत्कर्तव्यं तथा भवेत् ॥ ३० ॥
ते वयं धृतराष्ट्रं च गान्धारीं च समेत्य ह ।उपपृच्छामहे गत्वा विदुरं च महामतिम् ॥ ३१ ॥
ते पृष्टाश्च वदेयुर्यच्छ्रेयो नः समनन्तरम् ।तदस्माभिः पुनः कार्यमिति मे नैष्ठिकी मतिः ॥ ३२ ॥
अनारम्भात्तु कार्याणां नार्थः संपद्यते क्वचित् ।कृते पुरुषकारे च येषां कार्यं न सिध्यति ।दैवेनोपहतास्ते तु नात्र कार्या विचारणा ॥ ३३ ॥
« »