Click on words to see what they mean.

वैशंपायन उवाच ।हतेषु सर्वसैन्येषु सौप्तिके तै रथैस्त्रिभिः ।शोचन्युधिष्ठिरो राजा दाशार्हमिदमब्रवीत् ॥ १ ॥
कथं नु कृष्ण पापेन क्षुद्रेणाक्लिष्टकर्मणा ।द्रौणिना निहताः सर्वे मम पुत्रा महारथाः ॥ २ ॥
तथा कृतास्त्रा विक्रान्ताः सहस्रशतयोधिनः ।द्रुपदस्यात्मजाश्चैव द्रोणपुत्रेण पातिताः ॥ ३ ॥
यस्य द्रोणो महेष्वासो न प्रादादाहवे मुखम् ।तं जघ्ने रथिनां श्रेष्ठं धृष्टद्युम्नं कथं नु सः ॥ ४ ॥
किं नु तेन कृतं कर्म तथायुक्तं नरर्षभ ।यदेकः शिबिरं सर्वमवधीन्नो गुरोः सुतः ॥ ५ ॥
वासुदेव उवाच ।नूनं स देवदेवानामीश्वरेश्वरमव्ययम् ।जगाम शरणं द्रौणिरेकस्तेनावधीद्बहून् ॥ ६ ॥
प्रसन्नो हि महादेवो दद्यादमरतामपि ।वीर्यं च गिरिशो दद्याद्येनेन्द्रमपि शातयेत् ॥ ७ ॥
वेदाहं हि महादेवं तत्त्वेन भरतर्षभ ।यानि चास्य पुराणानि कर्माणि विविधान्युत ॥ ८ ॥
आदिरेष हि भूतानां मध्यमन्तश्च भारत ।विचेष्टते जगच्चेदं सर्वमस्यैव कर्मणा ॥ ९ ॥
एवं सिसृक्षुर्भूतानि ददर्श प्रथमं विभुः ।पितामहोऽब्रवीच्चैनं भूतानि सृज माचिरम् ॥ १० ॥
हरिकेशस्तथेत्युक्त्वा भूतानां दोषदर्शिवान् ।दीर्घकालं तपस्तेपे मग्नोऽम्भसि महातपाः ॥ ११ ॥
सुमहान्तं ततः कालं प्रतीक्ष्यैनं पितामहः ।स्रष्टारं सर्वभूतानां ससर्ज मनसापरम् ॥ १२ ॥
सोऽब्रवीत्पितरं दृष्ट्वा गिरिशं मग्नमम्भसि ।यदि मे नाग्रजस्त्वन्यस्ततः स्रक्ष्याम्यहं प्रजाः ॥ १३ ॥
तमब्रवीत्पिता नास्ति त्वदन्यः पुरुषोऽग्रजः ।स्थाणुरेष जले मग्नो विस्रब्धः कुरु वै कृतिम् ॥ १४ ॥
स भूतान्यसृजत्सप्त दक्षादींस्तु प्रजापतीन् ।यैरिमं व्यकरोत्सर्वं भूतग्रामं चतुर्विधम् ॥ १५ ॥
ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम् ।बिभक्षयिषवो राजन्सहसा प्राद्रवंस्तदा ॥ १६ ॥
स भक्ष्यमाणस्त्राणार्थी पितामहमुपाद्रवत् ।आभ्यो मां भगवान्पातु वृत्तिरासां विधीयताम् ॥ १७ ॥
ततस्ताभ्यो ददावन्नमोषधीः स्थावराणि च ।जङ्गमानि च भूतानि दुर्बलानि बलीयसाम् ॥ १८ ॥
विहितान्नाः प्रजास्तास्तु जग्मुस्तुष्टा यथागतम् ।ततो ववृधिरे राजन्प्रीतिमत्यः स्वयोनिषु ॥ १९ ॥
भूतग्रामे विवृद्धे तु तुष्टे लोकगुरावपि ।उदतिष्ठज्जलाज्ज्येष्ठः प्रजाश्चेमा ददर्श सः ॥ २० ॥
बहुरूपाः प्रजा दृष्ट्वा विवृद्धाः स्वेन तेजसा ।चुक्रोध भगवान्रुद्रो लिङ्गं स्वं चाप्यविध्यत ॥ २१ ॥
तत्प्रविद्धं तदा भूमौ तथैव प्रत्यतिष्ठत ।तमुवाचाव्ययो ब्रह्मा वचोभिः शमयन्निव ॥ २२ ॥
किं कृतं सलिले शर्व चिरकालं स्थितेन ते ।किमर्थं चैतदुत्पाट्य भूमौ लिङ्गं प्रवेरितम् ॥ २३ ॥
सोऽब्रवीज्जातसंरम्भस्तदा लोकगुरुर्गुरुम् ।प्रजाः सृष्टाः परेणेमाः किं करिष्याम्यनेन वै ॥ २४ ॥
तपसाधिगतं चान्नं प्रजार्थं मे पितामह ।ओषध्यः परिवर्तेरन्यथैव सततं प्रजाः ॥ २५ ॥
एवमुक्त्वा तु संक्रुद्धो जगाम विमना भवः ।गिरेर्मुञ्जवतः पादं तपस्तप्तुं महातपाः ॥ २६ ॥
« »