Click on words to see what they mean.

वैशंपायन उवाच ।तदाज्ञाय हृषीकेशो विसृष्टं पापकर्मणा ।हृष्यमाण इदं वाक्यं द्रौणिं प्रत्यब्रवीत्तदा ॥ १ ॥
विराटस्य सुतां पूर्वं स्नुषां गाण्डीवधन्वनः ।उपप्लव्यगतां दृष्ट्वा व्रतवान्ब्राह्मणोऽब्रवीत् ॥ २ ॥
परिक्षीणेषु कुरुषु पुत्रस्तव जनिष्यति ।एतदस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति ॥ ३ ॥
तस्य तद्वचनं साधोः सत्यमेव भविष्यति ।परिक्षिद्भविता ह्येषां पुनर्वंशकरः सुतः ॥ ४ ॥
एवं ब्रुवाणं गोविन्दं सात्वतप्रवरं तदा ।द्रौणिः परमसंरब्धः प्रत्युवाचेदमुत्तरम् ॥ ५ ॥
नैतदेवं यथात्थ त्वं पक्षपातेन केशव ।वचनं पुण्डरीकाक्ष न च मद्वाक्यमन्यथा ॥ ६ ॥
पतिष्यत्येतदस्त्रं हि गर्भे तस्या मयोद्यतम् ।विराटदुहितुः कृष्ण यां त्वं रक्षितुमिच्छसि ॥ ७ ॥
वासुदेव उवाच ।अमोघः परमास्त्रस्य पातस्तस्य भविष्यति ।स तु गर्भो मृतो जातो दीर्घमायुरवाप्स्यति ॥ ८ ॥
त्वां तु कापुरुषं पापं विदुः सर्वे मनीषिणः ।असकृत्पापकर्माणं बालजीवितघातकम् ॥ ९ ॥
तस्मात्त्वमस्य पापस्य कर्मणः फलमाप्नुहि ।त्रीणि वर्षसहस्राणि चरिष्यसि महीमिमाम् ।अप्राप्नुवन्क्वचित्कांचित्संविदं जातु केनचित् ॥ १० ॥
निर्जनानसहायस्त्वं देशान्प्रविचरिष्यसि ।भवित्री न हि ते क्षुद्र जनमध्येषु संस्थितिः ॥ ११ ॥
पूयशोणितगन्धी च दुर्गकान्तारसंश्रयः ।विचरिष्यसि पापात्मन्सर्वव्याधिसमन्वितः ॥ १२ ॥
वयः प्राप्य परिक्षित्तु वेदव्रतमवाप्य च ।कृपाच्छारद्वताद्वीरः सर्वास्त्राण्युपलप्स्यते ॥ १३ ॥
विदित्वा परमास्त्राणि क्षत्रधर्मव्रते स्थितः ।षष्टिं वर्षाणि धर्मात्मा वसुधां पालयिष्यति ॥ १४ ॥
इतश्चोर्ध्वं महाबाहुः कुरुराजो भविष्यति ।परिक्षिन्नाम नृपतिर्मिषतस्ते सुदुर्मते ।पश्य मे तपसो वीर्यं सत्यस्य च नराधम ॥ १५ ॥
व्यास उवाच ।यस्मादनादृत्य कृतं त्वयास्मान्कर्म दारुणम् ।ब्राह्मणस्य सतश्चैव यस्मात्ते वृत्तमीदृशम् ॥ १६ ॥
तस्माद्यद्देवकीपुत्र उक्तवानुत्तमं वचः ।असंशयं ते तद्भावि क्षुद्रकर्मन्व्रजाश्वितः ॥ १७ ॥
अश्वत्थामोवाच ।सहैव भवता ब्रह्मन्स्थास्यामि पुरुषेष्वहम् ।सत्यवागस्तु भगवानयं च पुरुषोत्तमः ॥ १८ ॥
वैशंपायन उवाच ।प्रदायाथ मणिं द्रौणिः पाण्डवानां महात्मनाम् ।जगाम विमनास्तेषां सर्वेषां पश्यतां वनम् ॥ १९ ॥
पाण्डवाश्चापि गोविन्दं पुरस्कृत्य हतद्विषः ।कृष्णद्वैपायनं चैव नारदं च महामुनिम् ॥ २० ॥
द्रोणपुत्रस्य सहजं मणिमादाय सत्वराः ।द्रौपदीमभ्यधावन्त प्रायोपेतां मनस्विनीम् ॥ २१ ॥
ततस्ते पुरुषव्याघ्राः सदश्वैरनिलोपमैः ।अभ्ययुः सहदाशार्हाः शिबिरं पुनरेव ह ॥ २२ ॥
अवतीर्य रथाभ्यां तु त्वरमाणा महारथाः ।ददृशुर्द्रौपदीं कृष्णामार्तामार्ततराः स्वयम् ॥ २३ ॥
तामुपेत्य निरानन्दां दुःखशोकसमन्विताम् ।परिवार्य व्यतिष्ठन्त पाण्डवाः सहकेशवाः ॥ २४ ॥
ततो राज्ञाभ्यनुज्ञातो भीमसेनो महाबलः ।प्रददौ तु मणिं दिव्यं वचनं चेदमब्रवीत् ॥ २५ ॥
अयं भद्रे तव मणिः पुत्रहन्ता जितः स ते ।उत्तिष्ठ शोकमुत्सृज्य क्षत्रधर्ममनुस्मर ॥ २६ ॥
प्रयाणे वासुदेवस्य शमार्थमसितेक्षणे ।यान्युक्तानि त्वया भीरु वाक्यानि मधुघातिनः ॥ २७ ॥
नैव मे पतयः सन्ति न पुत्रा भ्रातरो न च ।नैव त्वमपि गोविन्द शममिच्छति राजनि ॥ २८ ॥
उक्तवत्यसि धीराणि वाक्यानि पुरुषोत्तमम् ।क्षत्रधर्मानुरूपाणि तानि संस्मर्तुमर्हसि ॥ २९ ॥
हतो दुर्योधनः पापो राज्यस्य परिपन्थकः ।दुःशासनस्य रुधिरं पीतं विस्फुरतो मया ॥ ३० ॥
वैरस्य गतमानृण्यं न स्म वाच्या विवक्षताम् ।जित्वा मुक्तो द्रोणपुत्रो ब्राह्मण्याद्गौरवेण च ॥ ३१ ॥
यशोऽस्य पातितं देवि शरीरं त्ववशेषितम् ।वियोजितश्च मणिना न्यासितश्चायुधं भुवि ॥ ३२ ॥
द्रौपद्युवाच ।केवलानृण्यमाप्तास्मि गुरुपुत्रो गुरुर्मम ।शिरस्येतं मणिं राजा प्रतिबध्नातु भारत ॥ ३३ ॥
वैशंपायन उवाच ।तं गृहीत्वा ततो राजा शिरस्येवाकरोत्तदा ।गुरोरुच्छिष्टमित्येव द्रौपद्या वचनादपि ॥ ३४ ॥
ततो दिव्यं मणिवरं शिरसा धारयन्प्रभुः ।शुशुभे स महाराजः सचन्द्र इव पर्वतः ॥ ३५ ॥
उत्तस्थौ पुत्रशोकार्ता ततः कृष्णा मनस्विनी ।कृष्णं चापि महाबाहुं पर्यपृच्छत धर्मराट् ॥ ३६ ॥
« »