Click on words to see what they mean.

वैशंपायन उवाच ।एवमुक्त्वा युधां श्रेष्ठः सर्वयादवनन्दनः ।सर्वायुधवरोपेतमारुरोह महारथम् ।युक्तं परमकाम्बोजैस्तुरगैर्हेममालिभिः ॥ १ ॥
आदित्योदयवर्णस्य धुरं रथवरस्य तु ।दक्षिणामवहत्सैन्यः सुग्रीवः सव्यतोऽवहत् ।पार्ष्णिवाहौ तु तस्यास्तां मेघपुष्पबलाहकौ ॥ २ ॥
विश्वकर्मकृता दिव्या नानारत्नविभूषिता ।उच्छ्रितेव रथे माया ध्वजयष्टिरदृश्यत ॥ ३ ॥
वैनतेयः स्थितस्तस्यां प्रभामण्डलरश्मिवान् ।तस्य सत्यवतः केतुर्भुजगारिरदृश्यत ॥ ४ ॥
अन्वारोहद्धृषीकेशः केतुः सर्वधनुष्मताम् ।अर्जुनः सत्यकर्मा च कुरुराजो युधिष्ठिरः ॥ ५ ॥
अशोभेतां महात्मानौ दाशार्हमभितः स्थितौ ।रथस्थं शार्ङ्गधन्वानमश्विनाविव वासवम् ॥ ६ ॥
तावुपारोप्य दाशार्हः स्यन्दनं लोकपूजितम् ।प्रतोदेन जवोपेतान्परमाश्वानचोदयत् ॥ ७ ॥
ते हयाः सहसोत्पेतुर्गृहीत्वा स्यन्दनोत्तमम् ।आस्थितं पाण्डवेयाभ्यां यदूनामृषभेण च ॥ ८ ॥
वहतां शार्ङ्गधन्वानमश्वानां शीघ्रगामिनाम् ।प्रादुरासीन्महाञ्शब्दः पक्षिणां पततामिव ॥ ९ ॥
ते समार्छन्नरव्याघ्राः क्षणेन भरतर्षभ ।भीमसेनं महेष्वासं समनुद्रुत्य वेगिताः ॥ १० ॥
क्रोधदीप्तं तु कौन्तेयं द्विषदर्थे समुद्यतम् ।नाशक्नुवन्वारयितुं समेत्यापि महारथाः ॥ ११ ॥
स तेषां प्रेक्षतामेव श्रीमतां दृढधन्विनाम् ।ययौ भागिरथीकच्छं हरिभिर्भृशवेगितैः ।यत्र स्म श्रूयते द्रौणिः पुत्रहन्ता महात्मनाम् ॥ १२ ॥
स ददर्श महात्मानमुदकान्ते यशस्विनम् ।कृष्णद्वैपायनं व्यासमासीनमृषिभिः सह ॥ १३ ॥
तं चैव क्रूरकर्माणं घृताक्तं कुशचीरिणम् ।रजसा ध्वस्तकेशान्तं ददर्श द्रौणिमन्तिके ॥ १४ ॥
तमभ्यधावत्कौन्तेयः प्रगृह्य सशरं धनुः ।भीमसेनो महाबाहुस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ १५ ॥
स दृष्ट्वा भीमधन्वानं प्रगृहीतशरासनम् ।भ्रातरौ पृष्ठतश्चास्य जनार्दनरथे स्थितौ ।व्यथितात्माभवद्द्रौणिः प्राप्तं चेदममन्यत ॥ १६ ॥
स तद्दिव्यमदीनात्मा परमास्त्रमचिन्तयत् ।जग्राह च स चैषीकां द्रौणिः सव्येन पाणिना ।स तामापदमासाद्य दिव्यमस्त्रमुदीरयत् ॥ १७ ॥
अमृष्यमाणस्ताञ्शूरान्दिव्यायुधधरान्स्थितान् ।अपाण्डवायेति रुषा व्यसृजद्दारुणं वचः ॥ १८ ॥
इत्युक्त्वा राजशार्दूल द्रोणपुत्रः प्रतापवान् ।सर्वलोकप्रमोहार्थं तदस्त्रं प्रमुमोच ह ॥ १९ ॥
ततस्तस्यामिषीकायां पावकः समजायत ।प्रधक्ष्यन्निव लोकांस्त्रीन्कालान्तकयमोपमः ॥ २० ॥
« »