Click on words to see what they mean.

वैशंपायन उवाच ।तस्मिन्प्रयाते दुर्धर्षे यदूनामृषभस्ततः ।अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् ॥ १ ॥
एष पाण्डव ते भ्राता पुत्रशोकमपारयन् ।जिघांसुर्द्रौणिमाक्रन्दे याति भारत भारतः ॥ २ ॥
भीमः प्रियस्ते सर्वेभ्यो भ्रातृभ्यो भरतर्षभ ।तं कृच्छ्रगतमद्य त्वं कस्मान्नाभ्यवपद्यसे ॥ ३ ॥
यत्तदाचष्ट पुत्राय द्रोणः परपुरंजयः ।अस्त्रं ब्रह्मशिरो नाम दहेद्यत्पृथिवीमपि ॥ ४ ॥
तन्महात्मा महाभागः केतुः सर्वधनुष्मताम् ।प्रत्यपादयदाचार्यः प्रीयमाणो धनंजयम् ॥ ५ ॥
तत्पुत्रोऽस्यैवमेवैनमन्वयाचदमर्षणः ।ततः प्रोवाच पुत्राय नातिहृष्टमना इव ॥ ६ ॥
विदितं चापलं ह्यासीदात्मजस्य महात्मनः ।सर्वधर्मविदाचार्यो नान्विषत्सततं सुतम् ॥ ७ ॥
परमापद्गतेनापि न स्म तात त्वया रणे ।इदमस्त्रं प्रयोक्तव्यं मानुषेषु विशेषतः ॥ ८ ॥
इत्युक्तवान्गुरुः पुत्रं द्रोणः पश्चादथोक्तवान् ।न त्वं जातु सतां मार्गे स्थातेति पुरुषर्षभ ॥ ९ ॥
स तदाज्ञाय दुष्टात्मा पितुर्वचनमप्रियम् ।निराशः सर्वकल्याणैः शोचन्पर्यपतन्महीम् ॥ १० ॥
ततस्तदा कुरुश्रेष्ठ वनस्थे त्वयि भारत ।अवसद्द्वारकामेत्य वृष्णिभिः परमार्चितः ॥ ११ ॥
स कदाचित्समुद्रान्ते वसन्द्रारवतीमनु ।एक एकं समागम्य मामुवाच हसन्निव ॥ १२ ॥
यत्तदुग्रं तपः कृष्ण चरन्सत्यपराक्रमः ।अगस्त्याद्भारताचार्यः प्रत्यपद्यत मे पिता ॥ १३ ॥
अस्त्रं ब्रह्मशिरो नाम देवगन्धर्वपूजितम् ।तदद्य मयि दाशार्ह यथा पितरि मे तथा ॥ १४ ॥
अस्मत्तस्तदुपादाय दिव्यमस्त्रं यदूत्तम ।ममाप्यस्त्रं प्रयच्छ त्वं चक्रं रिपुहरं रणे ॥ १५ ॥
स राजन्प्रीयमाणेन मयाप्युक्तः कृताञ्जलिः ।याचमानः प्रयत्नेन मत्तोऽस्त्रं भरतर्षभ ॥ १६ ॥
देवदानवगन्धर्वमनुष्यपतगोरगाः ।न समा मम वीर्यस्य शतांशेनापि पिण्डिताः ॥ १७ ॥
इदं धनुरियं शक्तिरिदं चक्रमियं गदा ।यद्यदिच्छसि चेदस्त्रं मत्तस्तत्तद्ददानि ते ॥ १८ ॥
यच्छक्नोषि समुद्यन्तुं प्रयोक्तुमपि वा रणे ।तद्गृहाण विनास्त्रेण यन्मे दातुमभीप्ससि ॥ १९ ॥
स सुनाभं सहस्रारं वज्रनाभमयस्मयम् ।वव्रे चक्रं महाबाहो स्पर्धमानो मया सह ॥ २० ॥
गृहाण चक्रमित्युक्तो मया तु तदनन्तरम् ।जग्राहोपेत्य सहसा चक्रं सव्येन पाणिना ।न चैतदशकत्स्थानात्संचालयितुमच्युत ॥ २१ ॥
अथ तद्दक्षिणेनापि ग्रहीतुमुपचक्रमे ।सर्वयत्नेन तेनापि गृह्णन्नेतदकल्पयत् ॥ २२ ॥
ततः सर्वबलेनापि यच्चैतन्न शशाक सः ।उद्धर्तुं वा चालयितुं द्रौणिः परमदुर्मनाः ।कृत्वा यत्नं परं श्रान्तः स न्यवर्तत भारत ॥ २३ ॥
निवृत्तमथ तं तस्मादभिप्रायाद्विचेतसम् ।अहमामन्त्र्य सुस्निग्धमश्वत्थामानमब्रुवम् ॥ २४ ॥
यः स देवमनुष्येषु प्रमाणं परमं गतः ।गाण्डीवधन्वा श्वेताश्वः कपिप्रवरकेतनः ॥ २५ ॥
यः साक्षाद्देवदेवेशं शितिकण्ठमुमापतिम् ।द्वंद्वयुद्धे पराजिष्णुस्तोषयामास शंकरम् ॥ २६ ॥
यस्मात्प्रियतरो नास्ति ममान्यः पुरुषो भुवि ।नादेयं यस्य मे किंचिदपि दाराः सुतास्तथा ॥ २७ ॥
तेनापि सुहृदा ब्रह्मन्पार्थेनाक्लिष्टकर्मणा ।नोक्तपूर्वमिदं वाक्यं यत्त्वं मामभिभाषसे ॥ २८ ॥
ब्रह्मचर्यं महद्घोरं चीर्त्वा द्वादशवार्षिकम् ।हिमवत्पार्श्वमभ्येत्य यो मया तपसार्चितः ॥ २९ ॥
समानव्रतचारिण्यां रुक्मिण्यां योऽन्वजायत ।सनत्कुमारस्तेजस्वी प्रद्युम्नो नाम मे सुतः ॥ ३० ॥
तेनाप्येतन्महद्दिव्यं चक्रमप्रतिमं मम ।न प्रार्थितमभून्मूढ यदिदं प्रार्थितं त्वया ॥ ३१ ॥
रामेणातिबलेनैतन्नोक्तपूर्वं कदाचन ।न गदेन न साम्बेन यदिदं प्रार्थितं त्वया ॥ ३२ ॥
द्वारकावासिभिश्चान्यैर्वृष्ण्यन्धकमहारथैः ।नोक्तपूर्वमिदं जातु यदिदं प्रार्थितं त्वया ॥ ३३ ॥
भारताचार्यपुत्रः सन्मानितः सर्वयादवैः ।चक्रेण रथिनां श्रेष्ठ किं नु तात युयुत्ससे ॥ ३४ ॥
एवमुक्तो मया द्रौणिर्मामिदं प्रत्युवाच ह ।प्रयुज्य भवते पूजां योत्स्ये कृष्ण त्वयेत्युत ॥ ३५ ॥
ततस्ते प्रार्थितं चक्रं देवदानवपूजितम् ।अजेयः स्यामिति विभो सत्यमेतद्ब्रवीमि ते ॥ ३६ ॥
त्वत्तोऽहं दुर्लभं काममनवाप्यैव केशव ।प्रतियास्यामि गोविन्द शिवेनाभिवदस्व माम् ॥ ३७ ॥
एतत्सुनाभं वृष्णीनामृषभेण त्वया धृतम् ।चक्रमप्रतिचक्रेण भुवि नान्योऽभिपद्यते ॥ ३८ ॥
एतावदुक्त्वा द्रौणिर्मां युग्यमश्वान्धनानि च ।आदायोपययौ बालो रत्नानि विविधानि च ॥ ३९ ॥
स संरम्भी दुरात्मा च चपलः क्रूर एव च ।वेद चास्त्रं ब्रह्मशिरस्तस्माद्रक्ष्यो वृकोदरः ॥ ४० ॥
« »