Click on words to see what they mean.

वैशंपायन उवाच ।स दृष्ट्वा निहतान्संख्ये पुत्रान्भ्रातॄन्सखींस्तथा ।महादुःखपरीतात्मा बभूव जनमेजय ॥ १ ॥
ततस्तस्य महाञ्शोकः प्रादुरासीन्महात्मनः ।स्मरतः पुत्रपौत्राणां भ्रातॄणां स्वजनस्य ह ॥ २ ॥
तमश्रुपरिपूर्णाक्षं वेपमानमचेतसम् ।सुहृदो भृशसंविग्नाः सान्त्वयां चक्रिरे तदा ॥ ३ ॥
ततस्तस्मिन्क्षणे काल्ये रथेनादित्यवर्चसा ।नकुलः कृष्णया सार्धमुपायात्परमार्तया ॥ ४ ॥
उपप्लव्यगता सा तु श्रुत्वा सुमहदप्रियम् ।तदा विनाशं पुत्राणां सर्वेषां व्यथिताभवत् ॥ ५ ॥
कम्पमानेव कदली वातेनाभिसमीरिता ।कृष्णा राजानमासाद्य शोकार्ता न्यपतद्भुवि ॥ ६ ॥
बभूव वदनं तस्याः सहसा शोककर्शितम् ।फुल्लपद्मपलाशाक्ष्यास्तमोध्वस्त इवांशुमान् ॥ ७ ॥
ततस्तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः ।बाहुभ्यां परिजग्राह समुपेत्य वृकोदरः ॥ ८ ॥
सा समाश्वासिता तेन भीमसेनेन भामिनी ।रुदती पाण्डवं कृष्णा सहभ्रातरमब्रवीत् ॥ ९ ॥
दिष्ट्या राजंस्त्वमद्येमामखिलां भोक्ष्यसे महीम् ।आत्मजान्क्षत्रधर्मेण संप्रदाय यमाय वै ॥ १० ॥
दिष्ट्या त्वं पार्थ कुशली मत्तमातङ्गगामिनम् ।अवाप्य पृथिवीं कृत्स्नां सौभद्रं न स्मरिष्यसि ॥ ११ ॥
आत्मजांस्तेन धर्मेण श्रुत्वा शूरान्निपातितान् ।उपप्लव्ये मया सार्धं दिष्ट्या त्वं न स्मरिष्यसि ॥ १२ ॥
प्रसुप्तानां वधं श्रुत्वा द्रौणिना पापकर्मणा ।शोकस्तपति मां पार्थ हुताशन इवाशयम् ॥ १३ ॥
तस्य पापकृतो द्रौणेर्न चेदद्य त्वया मृधे ।ह्रियते सानुबन्धस्य युधि विक्रम्य जीवितम् ॥ १४ ॥
इहैव प्रायमासिष्ये तन्निबोधत पाण्डवाः ।न चेत्फलमवाप्नोति द्रौणिः पापस्य कर्मणः ॥ १५ ॥
एवमुक्त्वा ततः कृष्णा पाण्डवं प्रत्युपाविशत् ।युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी ॥ १६ ॥
दृष्ट्वोपविष्टां राजर्षिः पाण्डवो महिषीं प्रियाम् ।प्रत्युवाच स धर्मात्मा द्रौपदीं चारुदर्शनाम् ॥ १७ ॥
धर्म्यं धर्मेण धर्मज्ञे प्राप्तास्ते निधनं शुभे ।पुत्रास्ते भ्रातरश्चैव तान्न शोचितुमर्हसि ॥ १८ ॥
द्रोणपुत्रः स कल्याणि वनं दूरमितो गतः ।तस्य त्वं पातनं संख्ये कथं ज्ञास्यसि शोभने ॥ १९ ॥
द्रौपद्युवाच ।द्रोणपुत्रस्य सहजो मणिः शिरसि मे श्रुतः ।निहत्य संख्ये तं पापं पश्येयं मणिमाहृतम् ।राजञ्शिरसि तं कृत्वा जीवेयमिति मे मतिः ॥ २० ॥
वैशंपायन उवाच ।इत्युक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना ।भीमसेनमथाभ्येत्य कुपिता वाक्यमब्रवीत् ॥ २१ ॥
त्रातुमर्हसि मां भीम क्षत्रधर्ममनुस्मरन् ।जहि तं पापकर्माणं शम्बरं मघवानिव ।न हि ते विक्रमे तुल्यः पुमानस्तीह कश्चन ॥ २२ ॥
श्रुतं तत्सर्वलोकेषु परमव्यसने यथा ।द्वीपोऽभूस्त्वं हि पार्थानां नगरे वारणावते ।हिडिम्बदर्शने चैव तथा त्वमभवो गतिः ॥ २३ ॥
तथा विराटनगरे कीचकेन भृशार्दिताम् ।मामप्युद्धृतवान्कृच्छ्रात्पौलोमीं मघवानिव ॥ २४ ॥
यथैतान्यकृथाः पार्थ महाकर्माणि वै पुरा ।तथा द्रौणिममित्रघ्न विनिहत्य सुखी भव ॥ २५ ॥
तस्या बहुविधं दुःखान्निशम्य परिदेवितम् ।नामर्षयत कौन्तेयो भीमसेनो महाबलः ॥ २६ ॥
स काञ्चनविचित्राङ्गमारुरोह महारथम् ।आदाय रुचिरं चित्रं समार्गणगुणं धनुः ॥ २७ ॥
नकुलं सारथिं कृत्वा द्रोणपुत्रवधे वृतः ।विस्फार्य सशरं चापं तूर्णमश्वानचोदयत् ॥ २८ ॥
ते हयाः पुरुषव्याघ्र चोदिता वातरंहसः ।वेगेन त्वरिता जग्मुर्हरयः शीघ्रगामिनः ॥ २९ ॥
शिबिरात्स्वाद्गृहीत्वा स रथस्य पदमच्युतः ।द्रोणपुत्ररथस्याशु ययौ मार्गेण वीर्यवान् ॥ ३० ॥
« »