Click on words to see what they mean.

वैशंपायन उवाच ।तस्यां रात्र्यां व्यतीतायां धृष्टद्युम्नस्य सारथिः ।शशंस धर्मराजाय सौप्तिके कदनं कृतम् ॥ १ ॥
द्रौपदेया महाराज द्रुपदस्यात्मजैः सह ।प्रमत्ता निशि विश्वस्ताः स्वपन्तः शिबिरे स्वके ॥ २ ॥
कृतवर्मणा नृशंसेन गौतमेन कृपेण च ।अश्वत्थाम्ना च पापेन हतं वः शिबिरं निशि ॥ ३ ॥
एतैर्नरगजाश्वानां प्रासशक्तिपरश्वधैः ।सहस्राणि निकृन्तद्भिर्निःशेषं ते बलं कृतम् ॥ ४ ॥
छिद्यमानस्य महतो वनस्येव परश्वधैः ।शुश्रुवे सुमहाञ्शब्दो बलस्य तव भारत ॥ ५ ॥
अहमेकोऽवशिष्टस्तु तस्मात्सैन्यान्महीपते ।मुक्तः कथंचिद्धर्मात्मन्व्यग्रस्य कृतवर्मणः ॥ ६ ॥
तच्छ्रुत्वा वाक्यमशिवं कुन्तीपुत्रो युधिष्ठिरः ।पपात मह्यां दुर्धर्षः पुत्रशोकसमन्वितः ॥ ७ ॥
तं पतन्तमभिक्रम्य परिजग्राह सात्यकिः ।भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ॥ ८ ॥
लब्धचेतास्तु कौन्तेयः शोकविह्वलया गिरा ।जित्वा शत्रूञ्जितः पश्चात्पर्यदेवयदातुरः ॥ ९ ॥
दुर्विदा गतिरर्थानामपि ये दिव्यचक्षुषः ।जीयमाना जयन्त्यन्ये जयमाना वयं जिताः ॥ १० ॥
हत्वा भ्रातॄन्वयस्यांश्च पितॄन्पुत्रान्सुहृद्गणान् ।बन्धूनमात्यान्पौत्रांश्च जित्वा सर्वाञ्जिता वयम् ॥ ११ ॥
अनर्थो ह्यर्थसंकाशस्तथार्थोऽनर्थदर्शनः ।जयोऽयमजयाकारो जयस्तस्मात्पराजयः ॥ १२ ॥
यं जित्वा तप्यते पश्चादापन्न इव दुर्मतिः ।कथं मन्येत विजयं ततो जिततरः परैः ॥ १३ ॥
येषामर्थाय पापस्य धिग्जयस्य सुहृद्वधे ।निर्जितैरप्रमत्तैर्हि विजिता जितकाशिनः ॥ १४ ॥
कर्णिनालीकदंष्ट्रस्य खड्गजिह्वस्य संयुगे ।चापव्यात्तस्य रौद्रस्य ज्यातलस्वननादिनः ॥ १५ ॥
क्रुद्धस्य नरसिंहस्य संग्रामेष्वपलायिनः ।ये व्यमुच्यन्त कर्णस्य प्रमादात्त इमे हताः ॥ १६ ॥
रथह्रदं शरवर्षोर्मिमन्तं रत्नाचितं वाहनराजियुक्तम् ।शक्त्यृष्टिमीनध्वजनागनक्रं शरासनावर्तमहेषुफेनम् ॥ १७ ॥
संग्रामचन्द्रोदयवेगवेलं द्रोणार्णवं ज्यातलनेमिघोषम् ।ये तेरुरुच्चावचशस्त्रनौभिस्ते राजपुत्रा निहताः प्रमादात् ॥ १८ ॥
न हि प्रमादात्परमोऽस्ति कश्चिद्वधो नराणामिह जीवलोके ।प्रमत्तमर्था हि नरं समन्तात्त्यजन्त्यनर्थाश्च समाविशन्ति ॥ १९ ॥
ध्वजोत्तमाग्रोच्छ्रितधूमकेतुं शरार्चिषं कोपमहासमीरम् ।महाधनुर्ज्यातलनेमिघोषं तनुत्रनानाविधशस्त्रहोमम् ॥ २० ॥
महाचमूकक्षवराभिपन्नं महाहवे भीष्ममहादवाग्निम् ।ये सेहुरात्तायतशस्त्रवेगं ते राजपुत्रा निहताः प्रमादात् ॥ २१ ॥
न हि प्रमत्तेन नरेण लभ्या विद्या तपः श्रीर्विपुलं यशो वा ।पश्याप्रमादेन निहत्य शत्रून्सर्वान्महेन्द्रं सुखमेधमानम् ॥ २२ ॥
इन्द्रोपमान्पार्थिवपुत्रपौत्रान्पश्याविशेषेण हतान्प्रमादात् ।तीर्त्वा समुद्रं वणिजः समृद्धाः सन्नाः कुनद्यामिव हेलमानाः ।अमर्षितैर्ये निहताः शयाना निःसंशयं ते त्रिदिवं प्रपन्नाः ॥ २३ ॥
कृष्णां नु शोचामि कथं न साध्वीं शोकार्णवे साद्य विनङ्क्ष्यतीति ।भ्रातॄंश्च पुत्रांश्च हतान्निशम्य पाञ्चालराजं पितरं च वृद्धम् ।ध्रुवं विसंज्ञा पतिता पृथिव्यां सा शेष्यते शोककृशाङ्गयष्टिः ॥ २४ ॥
तच्छोकजं दुःखमपारयन्ती कथं भविष्यत्युचिता सुखानाम् ।पुत्रक्षयभ्रातृवधप्रणुन्ना प्रदह्यमानेव हुताशनेन ॥ २५ ॥
इत्येवमार्तः परिदेवयन्स राजा कुरूणां नकुलं बभाषे ।गच्छानयैनामिह मन्दभाग्यां समातृपक्षामिति राजपुत्रीम् ॥ २६ ॥
माद्रीसुतस्तत्परिगृह्य वाक्यं धर्मेण धर्मप्रतिमस्य राज्ञः ।ययौ रथेनालयमाशु देव्याः पाञ्चालराजस्य च यत्र दाराः ॥ २७ ॥
प्रस्थाप्य माद्रीसुतमाजमीढः शोकार्दितस्तैः सहितः सुहृद्भिः ।रोरूयमाणः प्रययौ सुतानामायोधनं भूतगणानुकीर्णम् ॥ २८ ॥
स तत्प्रविश्याशिवमुग्ररूपं ददर्श पुत्रान्सुहृदः सखींश्च ।भूमौ शयानान्रुधिरार्द्रगात्रान्विभिन्नभग्नापहृतोत्तमाङ्गान् ॥ २९ ॥
स तांस्तु दृष्ट्वा भृशमार्तरूपो युधिष्ठिरो धर्मभृतां वरिष्ठः ।उच्चैः प्रचुक्रोश च कौरवाग्र्यः पपात चोर्व्यां सगणो विसंज्ञः ॥ ३० ॥
« »