Click on words to see what they mean.

वैशंपायन उवाच ।स एवं शंतनुर्धीमान्देवराजर्षिसत्कृतः ।धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः ॥ १ ॥
दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् ।नित्यान्यासन्महासत्त्वे शंतनौ पुरुषर्षभे ॥ २ ॥
एवं स गुणसंपन्नो धर्मार्थकुशलो नृपः ।आसीद्भरतवंशस्य गोप्ता साधुजनस्य च ॥ ३ ॥
कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः ।धर्म एव परः कामादर्थाच्चेति व्यवस्थितः ॥ ४ ॥
एतान्यासन्महासत्त्वे शंतनौ भरतर्षभ ।न चास्य सदृशः कश्चित्क्षत्रियो धर्मतोऽभवत् ॥ ५ ॥
वर्तमानं हि धर्मे स्वे सर्वधर्मविदां वरम् ।तं महीपा महीपालं राजराज्येऽभ्यषेचयन् ॥ ६ ॥
वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः ।प्रति भारतगोप्तारं समपद्यन्त भूमिपाः ॥ ७ ॥
शंतनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा ।नियमात्सर्ववर्णानां ब्रह्मोत्तरमवर्तत ॥ ८ ॥
ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः ।ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः ॥ ९ ॥
स हास्तिनपुरे रम्ये कुरूणां पुटभेदने ।वसन्सागरपर्यन्तामन्वशाद्वै वसुंधराम् ॥ १० ॥
स देवराजसदृशो धर्मज्ञः सत्यवागृजुः ।दानधर्मतपोयोगाच्छ्रिया परमया युतः ॥ ११ ॥
अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः ।तेजसा सूर्यसंकाशो वायुवेगसमो जवे ।अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः ॥ १२ ॥
वधः पशुवराहाणां तथैव मृगपक्षिणाम् ।शंतनौ पृथिवीपाले नावर्तत वृथा नृप ॥ १३ ॥
धर्मब्रह्मोत्तरे राज्ये शंतनुर्विनयात्मवान् ।समं शशास भूतानि कामरागविवर्जितः ॥ १४ ॥
देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः ।न चाधर्मेण केषांचित्प्राणिनामभवद्वधः ॥ १५ ॥
असुखानामनाथानां तिर्यग्योनिषु वर्तताम् ।स एव राजा भूतानां सर्वेषामभवत्पिता ॥ १६ ॥
तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति ।श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः ॥ १७ ॥
स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथापराः ।रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः ॥ १८ ॥
तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः ।गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः ॥ १९ ॥
सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च ।महाबलो महासत्त्वो महावीर्यो महारथः ॥ २० ॥
स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम् ।भागीरथीमल्पजलां शंतनुर्दृष्टवान्नृपः ॥ २१ ॥
तां दृष्ट्वा चिन्तयामास शंतनुः पुरुषर्षभः ।स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा ॥ २२ ॥
ततो निमित्तमन्विच्छन्ददर्श स महामनाः ।कुमारं रूपसंपन्नं बृहन्तं चारुदर्शनम् ॥ २३ ॥
दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरंदरम् ।कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम् ॥ २४ ॥
तां शरैरावृतां दृष्ट्वा नदीं गङ्गां तदन्तिके ।अभवद्विस्मितो राजा कर्म दृष्ट्वातिमानुषम् ॥ २५ ॥
जातमात्रं पुरा दृष्टं तं पुत्रं शंतनुस्तदा ।नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम् ॥ २६ ॥
स तु तं पितरं दृष्ट्वा मोहयामास मायया ।संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत ॥ २७ ॥
तदद्भुतं तदा दृष्ट्वा तत्र राजा स शंतनुः ।शङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह ॥ २८ ॥
दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम् ।गृहीत्वा दक्षिणे पाणौ तं कुमारमलंकृतम् ॥ २९ ॥
अलंकृतामाभरणैररजोम्बरधारिणीम् ।दृष्टपूर्वामपि सतीं नाभ्यजानात्स शंतनुः ॥ ३० ॥
गङ्गोवाच ।यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यजायिथाः ।स तेऽयं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम् ॥ ३१ ॥
वेदानधिजगे साङ्गान्वसिष्ठादेव वीर्यवान् ।कृतास्त्रः परमेष्वासो देवराजसमो युधि ॥ ३२ ॥
सुराणां संमतो नित्यमसुराणां च भारत ।उशना वेद यच्छास्त्रमयं तद्वेद सर्वशः ॥ ३३ ॥
तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः ।यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम् ।तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि ॥ ३४ ॥
ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान् ।यदस्त्रं वेद रामश्च तदप्यस्मिन्प्रतिष्ठितम् ॥ ३५ ॥
महेष्वासमिमं राजन्राजधर्मार्थकोविदम् ।मया दत्तं निजं पुत्रं वीरं वीर गृहान्नय ॥ ३६ ॥
वैशंपायन उवाच ।तयैवं समनुज्ञातः पुत्रमादाय शंतनुः ।भ्राजमानं यथादित्यमाययौ स्वपुरं प्रति ॥ ३७ ॥
पौरवः स्वपुरं गत्वा पुरंदरपुरोपमम् ।सर्वकामसमृद्धार्थं मेने आत्मानमात्मना ।पौरवेषु ततः पुत्रं यौवराज्येऽभ्यषेचयत् ॥ ३८ ॥
पौरवाञ्शंतनोः पुत्रः पितरं च महायशाः ।राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ ॥ ३९ ॥
स तथा सह पुत्रेण रममाणो महीपतिः ।वर्तयामास वर्षाणि चत्वार्यमितविक्रमः ॥ ४० ॥
स कदाचिद्वनं यातो यमुनामभितो नदीम् ।महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् ॥ ४१ ॥
तस्य प्रभवमन्विच्छन्विचचार समन्ततः ।स ददर्श तदा कन्यां दाशानां देवरूपिणीम् ॥ ४२ ॥
तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम् ।कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि ॥ ४३ ॥
साब्रवीद्दाशकन्यास्मि धर्मार्थं वाहये तरीम् ।पितुर्नियोगाद्भद्रं ते दाशराज्ञो महात्मनः ॥ ४४ ॥
रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम् ।समीक्ष्य राजा दाशेयीं कामयामास शंतनुः ॥ ४५ ॥
स गत्वा पितरं तस्या वरयामास तां तदा ।पर्यपृच्छत्ततस्तस्याः पितरं चात्मकारणात् ॥ ४६ ॥
स च तं प्रत्युवाचेदं दाशराजो महीपतिम् ।जातमात्रैव मे देया वराय वरवर्णिनी ।हृदि कामस्तु मे कश्चित्तं निबोध जनेश्वर ॥ ४७ ॥
यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ ।सत्यवागसि सत्येन समयं कुरु मे ततः ॥ ४८ ॥
समयेन प्रदद्यां ते कन्यामहमिमां नृप ।न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति ॥ ४९ ॥
शंतनुरुवाच ।श्रुत्वा तव वरं दाश व्यवस्येयमहं न वा ।दातव्यं चेत्प्रदास्यामि न त्वदेयं कथंचन ॥ ५० ॥
दाश उवाच ।अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः ।त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव ॥ ५१ ॥
वैशंपायन उवाच ।नाकामयत तं दातुं वरं दाशाय शंतनुः ।शरीरजेन तीव्रेण दह्यमानोऽपि भारत ॥ ५२ ॥
स चिन्तयन्नेव तदा दाशकन्यां महीपतिः ।प्रत्ययाद्धास्तिनपुरं शोकोपहतचेतनः ॥ ५३ ॥
ततः कदाचिच्छोचन्तं शंतनुं ध्यानमास्थितम् ।पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत् ॥ ५४ ॥
सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः ।तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः ।ध्यायन्निव च किं राजन्नाभिभाषसि किंचन ॥ ५५ ॥
एवमुक्तः स पुत्रेण शंतनुः प्रत्यभाषत ।असंशयं ध्यानपरं यथा मात्थ तथास्म्युत ॥ ५६ ॥
अपत्यं नस्त्वमेवैकः कुले महति भारत ।अनित्यता च मर्त्यानामतः शोचामि पुत्रक ॥ ५७ ॥
कथंचित्तव गाङ्गेय विपत्तौ नास्ति नः कुलम् ।असंशयं त्वमेवैकः शतादपि वरः सुतः ॥ ५८ ॥
न चाप्यहं वृथा भूयो दारान्कर्तुमिहोत्सहे ।संतानस्याविनाशाय कामये भद्रमस्तु ते ।अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः ॥ ५९ ॥
अग्निहोत्रं त्रयो वेदा यज्ञाश्च सहदक्षिणाः ।सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम् ॥ ६० ॥
एवमेव मनुष्येषु स्याच्च सर्वप्रजास्वपि ।यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः ।एषा त्रयी पुराणानामुत्तमानां च शाश्वती ॥ ६१ ॥
त्वं च शूरः सदामर्षी शस्त्रनित्यश्च भारत ।नान्यत्र शस्त्रात्तस्मात्ते निधनं विद्यतेऽनघ ॥ ६२ ॥
सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत् ।इति ते कारणं तात दुःखस्योक्तमशेषतः ॥ ६३ ॥
ततस्तत्कारणं ज्ञात्वा कृत्स्नं चैवमशेषतः ।देवव्रतो महाबुद्धिः प्रययावनुचिन्तयन् ॥ ६४ ॥
अभ्यगच्छत्तदैवाशु वृद्धामात्यं पितुर्हितम् ।तमपृच्छत्तदाभ्येत्य पितुस्तच्छोककारणम् ॥ ६५ ॥
तस्मै स कुरुमुख्याय यथावत्परिपृच्छते ।वरं शशंस कन्यां तामुद्दिश्य भरतर्षभ ॥ ६६ ॥
ततो देवव्रतो वृद्धैः क्षत्रियैः सहितस्तदा ।अभिगम्य दाशराजानं कन्यां वव्रे पितुः स्वयम् ॥ ६७ ॥
तं दाशः प्रतिजग्राह विधिवत्प्रतिपूज्य च ।अब्रवीच्चैनमासीनं राजसंसदि भारत ॥ ६८ ॥
त्वमेव नाथः पर्याप्तः शंतनोः पुरुषर्षभ ।पुत्रः पुत्रवतां श्रेष्ठः किं नु वक्ष्यामि ते वचः ॥ ६९ ॥
को हि संबन्धकं श्लाघ्यमीप्सितं यौनमीदृशम् ।अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः ॥ ७० ॥
अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः ।यस्य शुक्रात्सत्यवती प्रादुर्भूता यशस्विनी ॥ ७१ ॥
तेन मे बहुशस्तात पिता ते परिकीर्तितः ।अर्हः सत्यवतीं वोढुं सर्वराजसु भारत ॥ ७२ ॥
असितो ह्यपि देवर्षिः प्रत्याख्यातः पुरा मया ।सत्यवत्या भृशं ह्यर्थी स आसीदृषिसत्तमः ॥ ७३ ॥
कन्यापितृत्वात्किंचित्तु वक्ष्यामि भरतर्षभ ।बलवत्सपत्नतामत्र दोषं पश्यामि केवलम् ॥ ७४ ॥
यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा ।न स जातु सुखं जीवेत्त्वयि क्रुद्धे परंतप ॥ ७५ ॥
एतावानत्र दोषो हि नान्यः कश्चन पार्थिव ।एतज्जानीहि भद्रं ते दानादाने परंतप ॥ ७६ ॥
एवमुक्तस्तु गाङ्गेयस्तद्युक्तं प्रत्यभाषत ।शृण्वतां भूमिपालानां पितुरर्थाय भारत ॥ ७७ ॥
इदं मे मतमादत्स्व सत्यं सत्यवतां वर ।नैव जातो न वाजात ईदृशं वक्तुमुत्सहेत् ॥ ७८ ॥
एवमेतत्करिष्यामि यथा त्वमनुभाषसे ।योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति ॥ ७९ ॥
इत्युक्तः पुनरेवाथ तं दाशः प्रत्यभाषत ।चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ ॥ ८० ॥
त्वमेव नाथः पर्याप्तः शंतनोरमितद्युतेः ।कन्यायाश्चैव धर्मात्मन्प्रभुर्दानाय चेश्वरः ॥ ८१ ॥
इदं तु वचनं सौम्य कार्यं चैव निबोध मे ।कौमारिकाणां शीलेन वक्ष्याम्यहमरिंदम ॥ ८२ ॥
यत्त्वया सत्यवत्यर्थे सत्यधर्मपरायण ।राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत् ॥ ८३ ॥
नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन ।तवापत्यं भवेद्यत्तु तत्र नः संशयो महान् ॥ ८४ ॥
तस्य तन्मतमाज्ञाय सत्यधर्मपरायणः ।प्रत्यजानात्तदा राजन्पितुः प्रियचिकीर्षया ॥ ८५ ॥
देवव्रत उवाच ।दाशराज निबोधेदं वचनं मे नृपोत्तम ।शृण्वतां भूमिपालानां यद्ब्रवीमि पितुः कृते ॥ ८६ ॥
राज्यं तावत्पूर्वमेव मया त्यक्तं नराधिप ।अपत्यहेतोरपि च करोम्येष विनिश्चयम् ॥ ८७ ॥
अद्य प्रभृति मे दाश ब्रह्मचर्यं भविष्यति ।अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि ॥ ८८ ॥
वैशंपायन उवाच ।तस्य तद्वचनं श्रुत्वा संप्रहृष्टतनूरुहः ।ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत ॥ ८९ ॥
ततोऽन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तथा ।अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन् ॥ ९० ॥
ततः स पितुरर्थाय तामुवाच यशस्विनीम् ।अधिरोह रथं मातर्गच्छावः स्वगृहानिति ॥ ९१ ॥
एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीम् ।आगम्य हास्तिनपुरं शंतनोः संन्यवेदयत् ॥ ९२ ॥
तस्य तद्दुष्करं कर्म प्रशशंसुर्नराधिपाः ।समेताश्च पृथक्चैव भीष्मोऽयमिति चाब्रुवन् ॥ ९३ ॥
तद्दृष्ट्वा दुष्करं कर्म कृतं भीष्मेण शंतनुः ।स्वच्छन्दमरणं तस्मै ददौ तुष्टः पिता स्वयम् ॥ ९४ ॥
« »