Click on words to see what they mean.

वैशंपायन उवाच ।ततः प्रतीपो राजा स सर्वभूतहिते रतः ।निषसाद समा बह्वीर्गङ्गातीरगतो जपन् ॥ १ ॥
तस्य रूपगुणोपेता गङ्गा श्रीरिव रूपिणी ।उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः ॥ २ ॥
अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी ।दक्षिणं शालसंकाशमूरुं भेजे शुभानना ॥ ३ ॥
प्रतीपस्तु महीपालस्तामुवाच मनस्विनीम् ।करवाणि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम् ॥ ४ ॥
स्त्र्युवाच ।त्वामहं कामये राजन्कुरुश्रेष्ठ भजस्व माम् ।त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः ॥ ५ ॥
प्रतीप उवाच ।नाहं परस्त्रियं कामाद्गच्छेयं वरवर्णिनि ।न चासवर्णां कल्याणि धर्म्यं तद्विद्धि मे व्रतम् ॥ ६ ॥
स्त्र्युवाच ।नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित् ।भज मां भजमानां त्वं राजन्कन्यां वरस्त्रियम् ॥ ७ ॥
प्रतीप उवाच ।मयातिवृत्तमेतत्ते यन्मां चोदयसि प्रियम् ।अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः ॥ ८ ॥
प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने ।अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम् ॥ ९ ॥
सव्यतः कामिनीभागस्त्वया स च विवर्जितः ।तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने ॥ १० ॥
स्नुषा मे भव कल्याणि पुत्रार्थे त्वां वृणोम्यहम् ।स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता ॥ ११ ॥
स्त्र्युवाच ।एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते ।त्वद्भक्त्यैव भजिष्यामि प्रख्यातं भारतं कुलम् ॥ १२ ॥
पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम् ।गुणा न हि मया शक्या वक्तुं वर्षशतैरपि ।कुलस्य ये वः प्रस्थितास्तत्साधुत्वमनुत्तमम् ॥ १३ ॥
स मे नाभिजनज्ञः स्यादाचरेयं च यद्विभो ।तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित् ॥ १४ ॥
एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं प्रियम् ।पुत्रैः पुण्यैः प्रियैश्चापि स्वर्गं प्राप्स्यति ते सुतः ॥ १५ ॥
वैशंपायन उवाच ।तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत ।पुत्रजन्म प्रतीक्षंस्तु स राजा तदधारयत् ॥ १६ ॥
एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः ।तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन ॥ १७ ॥
तयोः समभवत्पुत्रो वृद्धयोः स महाभिषः ।शान्तस्य जज्ञे संतानस्तस्मादासीत्स शंतनुः ॥ १८ ॥
संस्मरंश्चाक्षयाँल्लोकान्विजितान्स्वेन कर्मणा ।पुण्यकर्मकृदेवासीच्छंतनुः कुरुसत्तम ॥ १९ ॥
प्रतीपः शंतनुं पुत्रं यौवनस्थं ततोऽन्वशात् ।पुरा मां स्त्री समभ्यागाच्छंतनो भूतये तव ॥ २० ॥
त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी ।कामयानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया ।सा त्वया नानुयोक्तव्या कासि कस्यासि वाङ्गने ॥ २१ ॥
यच्च कुर्यान्न तत्कार्यं प्रष्टव्या सा त्वयानघ ।मन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम् ॥ २२ ॥
एवं संदिश्य तनयं प्रतीपः शंतनुं तदा ।स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह ॥ २३ ॥
स राजा शंतनुर्धीमान्ख्यातः पृथ्व्यां धनुर्धरः ।बभूव मृगयाशीलः सततं वनगोचरः ॥ २४ ॥
स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः ।गङ्गामनुचचारैकः सिद्धचारणसेविताम् ॥ २५ ॥
स कदाचिन्महाराज ददर्श परमस्त्रियम् ।जाज्वल्यमानां वपुषा साक्षात्पद्मामिव श्रियम् ॥ २६ ॥
सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम् ।सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम् ॥ २७ ॥
तां दृष्ट्वा हृष्टरोमाभूद्विस्मितो रूपसंपदा ।पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः ॥ २८ ॥
सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम् ।स्नेहादागतसौहार्दा नातृप्यत विलासिनी ॥ २९ ॥
तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा ।देवी वा दानवी वा त्वं गन्धर्वी यदि वाप्सराः ॥ ३० ॥
यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे ।या वा त्वं सुरगर्भाभे भार्या मे भव शोभने ॥ ३१ ॥
एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च ।वसूनां समयं स्मृत्वा अभ्यगच्छदनिन्दिता ॥ ३२ ॥
उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा ।भविष्यामि महीपाल महिषी ते वशानुगा ॥ ३३ ॥
यत्तु कुर्यामहं राजञ्शुभं वा यदि वाशुभम् ।न तद्वारयितव्यास्मि न वक्तव्या तथाप्रियम् ॥ ३४ ॥
एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव ।वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम् ॥ ३५ ॥
तथेति राज्ञा सा तूक्ता तदा भरतसत्तम ।प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम् ॥ ३६ ॥
आसाद्य शंतनुस्तां च बुभुजे कामतो वशी ।न प्रष्टव्येति मन्वानो न स तां किंचिदूचिवान् ॥ ३७ ॥
स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च ।उपचारेण च रहस्तुतोष जगतीपतिः ॥ ३८ ॥
दिव्यरूपा हि सा देवी गङ्गा त्रिपथगा नदी ।मानुषं विग्रहं श्रीमत्कृत्वा सा वरवर्णिनी ॥ ३९ ॥
भाग्योपनतकामस्य भार्येवोपस्थिताभवत् ।शंतनो राजसिंहस्य देवराजसमद्युतेः ॥ ४० ॥
संभोगस्नेहचातुर्यैर्हावलास्यैर्मनोहरैः ।राजानं रमयामास यथा रेमे तथैव सः ॥ ४१ ॥
स राजा रतिसक्तत्वादुत्तमस्त्रीगुणैर्हृतः ।संवत्सरानृतून्मासान्न बुबोध बहून्गतान् ॥ ४२ ॥
रममाणस्तया सार्धं यथाकामं जनेश्वरः ।अष्टावजनयत्पुत्रांस्तस्याममरवर्णिनः ॥ ४३ ॥
जातं जातं च सा पुत्रं क्षिपत्यम्भसि भारत ।प्रीणामि त्वाहमित्युक्त्वा गङ्गास्रोतस्यमज्जयत् ॥ ४४ ॥
तस्य तन्न प्रियं राज्ञः शंतनोरभवत्तदा ।न च तां किंचनोवाच त्यागाद्भीतो महीपतिः ॥ ४५ ॥
अथ तामष्टमे पुत्रे जाते प्रहसितामिव ।उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः ॥ ४६ ॥
मा वधीः कासि कस्यासि किं हिंससि सुतानिति ।पुत्रघ्नि सुमहत्पापं मा प्रापस्तिष्ठ गर्हिते ॥ ४७ ॥
स्त्र्युवाच ।पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर ।जीर्णस्तु मम वासोऽयं यथा स समयः कृतः ॥ ४८ ॥
अहं गङ्गा जह्नुसुता महर्षिगणसेविता ।देवकार्यार्थसिद्ध्यर्थमुषिटाहं त्वया सह ॥ ४९ ॥
अष्टेमे वसवो देवा महाभागा महौजसः ।वसिष्ठशापदोषेण मानुषत्वमुपागताः ॥ ५० ॥
तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते ।मद्विधा मानुषी धात्री न चैवास्तीह काचन ॥ ५१ ॥
तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता ।जनयित्वा वसूनष्टौ जिता लोकास्त्वयाक्षयाः ॥ ५२ ॥
देवानां समयस्त्वेष वसूनां संश्रुतो मया ।जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति ॥ ५३ ॥
तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः ।स्वस्ति तेऽस्तु गमिष्यामि पुत्रं पाहि महाव्रतम् ॥ ५४ ॥
एष पर्यायवासो मे वसूनां संनिधौ कृतः ।मत्प्रसूतं विजानीहि गङ्गादत्तमिमं सुतम् ॥ ५५ ॥
« »