Click on words to see what they mean.

वैशंपायन उवाच ।अथ दीर्घस्य कालस्य देवयानी नृपोत्तम ।वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी ॥ १ ॥
तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा ।तमेव देशं संप्राप्ता यथाकामं चचार सा ।ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम् ॥ २ ॥
क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीम् ।खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च ॥ ३ ॥
पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया ।तमेव देशं संप्राप्तो जलार्थी श्रमकर्शितः ॥ ४ ॥
ददृशे देवयानीं च शर्मिष्ठां ताश्च योषितः ।पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः ॥ ५ ॥
उपविष्टां च ददृशे देवयानीं शुचिस्मिताम् ।रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम् ।शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः ॥ ६ ॥
ययातिरुवाच ।द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते ।गोत्रे च नामनी चैव द्वयोः पृच्छामि वामहम् ॥ ७ ॥
देवयान्युवाच ।आख्यास्याम्यहमादत्स्व वचनं मे नराधिप ।शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम् ॥ ८ ॥
इयं च मे सखी दासी यत्राहं तत्र गामिनी ।दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः ॥ ९ ॥
ययातिरुवाच ।कथं नु ते सखी दासी कन्येयं वरवर्णिनी ।असुरेन्द्रसुता सुभ्रु परं कौतूहलं हि मे ॥ १० ॥
देवयान्युवाच ।सर्व एव नरव्याघ्र विधानमनुवर्तते ।विधानविहितं मत्वा मा विचित्राः कथाः कृथाः ॥ ११ ॥
राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च ।किंनामा त्वं कुतश्चासि कस्य पुत्रश्च शंस मे ॥ १२ ॥
ययातिरुवाच ।ब्रह्मचर्येण कृत्स्नो मे वेदः श्रुतिपथं गतः ।राजाहं राजपुत्रश्च ययातिरिति विश्रुतः ॥ १३ ॥
देवयान्युवाच ।केनास्यर्थेन नृपते इमं देशमुपागतः ।जिघृक्षुर्वारिजं किंचिदथ वा मृगलिप्सया ॥ १४ ॥
ययातिरुवाच ।मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः ।बहु चाप्यनुयुक्तोऽस्मि तन्मानुज्ञातुमर्हसि ॥ १५ ॥
देवयान्युवाच ।द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह ।त्वदधीनास्मि भद्रं ते सखा भर्ता च मे भव ॥ १६ ॥
ययातिरुवाच ।विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि ।अविवाह्या हि राजानो देवयानि पितुस्तव ॥ १७ ॥
देवयान्युवाच ।संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं च ब्रह्मसंहितम् ।ऋषिश्च ऋषिपुत्रश्च नाहुषाङ्ग वहस्व माम् ॥ १८ ॥
ययातिरुवाच ।एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने ।पृथग्धर्माः पृथक्शौचास्तेषां तु ब्राह्मणो वरः ॥ १९ ॥
देवयान्युवाच ।पाणिधर्मो नाहुषायं न पुम्भिः सेवितः पुरा ।तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः ॥ २० ॥
कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत् ।गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया ॥ २१ ॥
ययातिरुवाच ।क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् ।दुराधर्षतरो विप्रः पुरुषेण विजानता ॥ २२ ॥
देवयान्युवाच ।कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् ।दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ ॥ २३ ॥
ययातिरुवाच ।एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते ।हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः ॥ २४ ॥
दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम ।अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम् ॥ २५ ॥
देवयान्युवाच ।दत्तां वहस्व पित्रा मां त्वं हि राजन्वृतो मया ।अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः ॥ २६ ॥
वैशंपायन उवाच ।त्वरितं देवयान्याथ प्रेषितं पितुरात्मनः ।श्रुत्वैव च स राजानं दर्शयामास भार्गवः ॥ २७ ॥
दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः ।ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः ॥ २८ ॥
देवयान्युवाच ।राजायं नाहुषस्तात दुर्गे मे पाणिमग्रहीत् ।नमस्ते देहि मामस्मै नान्यं लोके पतिं वृणे ॥ २९ ॥
शुक्र उवाच ।वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया ।गृहाणेमां मया दत्तां महिषीं नहुषात्मज ॥ ३० ॥
ययातिरुवाच ।अधर्मो न स्पृशेदेवं महान्मामिह भार्गव ।वर्णसंकरजो ब्रह्मन्निति त्वां प्रवृणोम्यहम् ॥ ३१ ॥
शुक्र उवाच ।अधर्मात्त्वां विमुञ्चामि वरयस्व यथेप्षितम् ।अस्मिन्विवाहे मा ग्लासीरहं पापं नुदामि ते ॥ ३२ ॥
वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम् ।अनया सह संप्रीतिमतुलां समवाप्स्यसि ॥ ३३ ॥
इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी ।संपूज्या सततं राजन्मा चैनां शयने ह्वयेः ॥ ३४ ॥
वैशंपायन उवाच ।एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम् ।जगाम स्वपुरं हृष्टो अनुज्ञातो महात्मना ॥ ३५ ॥
« »