Click on words to see what they mean.

वैशंपायन उवाच ।ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह ।वृषपर्वाणमासीनमित्युवाचाविचारयन् ॥ १ ॥
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव ।पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति ।फलत्येव ध्रुवं पापं गुरुभुक्तमिवोदरे ॥ २ ॥
यदघातयथा विप्रं कचमाङ्गिरसं तदा ।अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् ॥ ३ ॥
वधादनर्हतस्तस्य वधाच्च दुहितुर्मम ।वृषपर्वन्निबोधेदं त्यक्ष्यामि त्वां सबान्धवम् ।स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह ॥ ४ ॥
अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम् ।यथेममात्मनो दोषं न नियच्छस्युपेक्षसे ॥ ५ ॥
वृषपर्वोवाच ।नाधर्मं न मृषावादं त्वयि जानामि भार्गव ।त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान् ॥ ६ ॥
यद्यस्मानपहाय त्वमितो गच्छसि भार्गव ।समुद्रं संप्रवेक्ष्यामो नान्यदस्ति परायणम् ॥ ७ ॥
शुक्र उवाच ।समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः ।दुहितुर्नाप्रियं सोढुं शक्तोऽहं दयिता हि मे ॥ ८ ॥
प्रसाद्यतां देवयानी जीवितं ह्यत्र मे स्थितम् ।योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः ॥ ९ ॥
वृषपर्वोवाच ।यत्किंचिदसुरेन्द्राणां विद्यते वसु भार्गव ।भुवि हस्तिगवाश्वं वा तस्य त्वं मम चेश्वरः ॥ १० ॥
शुक्र उवाच ।यत्किंचिदस्ति द्रविणं दैत्येन्द्राणां महासुर ।तस्येश्वरोऽस्मि यदि ते देवयानी प्रसाद्यताम् ॥ ११ ॥
देवयान्युवाच ।यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव ।नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम् ॥ १२ ॥
वृषपर्वोवाच ।यं काममभिकामासि देवयानि शुचिस्मिते ।तत्तेऽहं संप्रदास्यामि यदि चेदपि दुर्लभम् ॥ १३ ॥
देवयान्युवाच ।दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये ।अनु मां तत्र गच्छेत्सा यत्र दास्यति मे पिता ॥ १४ ॥
वृषपर्वोवाच ।उत्तिष्ठ हे संग्रहीत्रि शर्मिष्ठां शीघ्रमानय ।यं च कामयते कामं देवयानी करोतु तम् ॥ १५ ॥
वैशंपायन उवाच ।ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत् ।उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह ॥ १६ ॥
त्यजति ब्राह्मणः शिष्यान्देवयान्या प्रचोदितः ।सा यं कामयते कामं स कार्योऽद्य त्वयानघे ॥ १७ ॥
शर्मिष्ठोवाच ।सा यं कामयते कामं करवाण्यहमद्य तम् ।मा त्वेवापगमच्छुक्रो देवयानी च मत्कृते ॥ १८ ॥
वैशंपायन उवाच ।ततः कन्यासहस्रेण वृता शिबिकया तदा ।पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात् ॥ १९ ॥
शर्मिष्ठोवाच ।अहं कन्यासहस्रेण दासी ते परिचारिका ।अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता ॥ २० ॥
देवयान्युवाच ।स्तुवतो दुहिता तेऽहं बन्दिनः प्रतिगृह्णतः ।स्तूयमानस्य दुहिता कथं दासी भविष्यसि ॥ २१ ॥
शर्मिष्ठोवाच ।येन केनचिदार्तानां ज्ञातीनां सुखमावहेत् ।अतस्त्वामनुयास्यामि यत्र दास्यति ते पिता ॥ २२ ॥
वैशंपायन उवाच ।प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः ।देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत् ॥ २३ ॥
प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम ।अमोघं तव विज्ञानमस्ति विद्याबलं च ते ॥ २४ ॥
एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः ।प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः ॥ २५ ॥
« »