Click on words to see what they mean.

वैशंपायन उवाच ।गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः ।संपूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान् ॥ १ ॥
महर्षेः सर्वलोकेषु विश्रुतस्यास्य धीमतः ।प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥ २ ॥
श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम् ।गुरोर्वक्तुं परिस्पन्दो मुदा प्रोत्साहतीव माम् ॥ ३ ॥
शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत् ।राज्यार्थे द्यूतसंभूतो वनवासस्तथैव च ॥ ४ ॥
यथा च युद्धमभवत्पृथिवीक्षयकारकम् ।तत्तेऽहं संप्रवक्ष्यामि पृच्छते भरतर्षभ ॥ ५ ॥
मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम् ।नचिरादिव विद्वांसो वेदे धनुषि चाभवन् ॥ ६ ॥
तांस्तथा रूपवीर्यौजःसंपन्नान्पौरसंमतान् ।नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः ॥ ७ ॥
ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः ।तेषां निग्रहनिर्वासान्विविधांस्ते समाचरन् ॥ ८ ॥
ददावथ विषं पापो भीमाय धृतराष्ट्रजः ।जरयामास तद्वीरः सहान्नेन वृकोदरः ॥ ९ ॥
प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम् ।तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत् ॥ १० ॥
यदा प्रबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम् ।उदतिष्ठन्महाराज भीमसेनो गतव्यथः ॥ ११ ॥
आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् ।सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ॥ १२ ॥
तेषां तु विप्रकारेषु तेषु तेषु महामतिः ।मोक्षणे प्रतिघाते च विदुरोऽवहितोऽभवत् ॥ १३ ॥
स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः ।पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः ॥ १४ ॥
यदा तु विविधोपायैः संवृतैर्विवृतैरपि ।नाशक्नोद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान् ॥ १५ ॥
ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः ।धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत् ॥ १६ ॥
तत्र तान्वासयामास पाण्डवानमितौजसः ।अदाहयच्च विस्रब्धान्पावकेन पुनस्तदा ॥ १७ ॥
विदुरस्यैव वचनात्खनित्री विहिता ततः ।मोक्षयामास योगेन ते मुक्ताः प्राद्रवन्भयात् ॥ १८ ॥
ततो महावने घोरे हिडिम्बं नाम राक्षसम् ।भीमसेनोऽवधीत्क्रुद्धो भुवि भीमपराक्रमः ॥ १९ ॥
अथ संधाय ते वीरा एकचक्रां व्रजंस्तदा ।ब्रह्मरूपधरा भूत्वा मात्रा सह परंतपाः ॥ २० ॥
तत्र ते ब्राह्मणार्थाय बकं हत्वा महाबलम् ।ब्राह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः ॥ २१ ॥
ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः ।विदिता हास्तिनपुरं प्रत्याजग्मुररिंदमाः ॥ २२ ॥
त उक्ता धृतराष्ट्रेण राज्ञा शांतनवेन च ।भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति ।अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः ॥ २३ ॥
तस्माज्जनपदोपेतं सुविभक्तमहापथम् ।वासाय खाण्डवप्रस्थं व्रजध्वं गतमन्यवः ॥ २४ ॥
तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः ।नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः ॥ २५ ॥
तत्र ते न्यवसन्राजन्संवत्सरगणान्बहून् ।वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ॥ २६ ॥
एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः ।अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितांस्तदा ॥ २७ ॥
अजयद्भीमसेनस्तु दिशं प्राचीं महाबलः ।उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा ॥ २८ ॥
दक्षिणां सहदेवस्तु विजिग्ये परवीरहा ।एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुंधराम् ॥ २९ ॥
पञ्चभिः सूर्यसंकाशैः सूर्येण च विराजता ।षट्सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः ॥ ३० ॥
ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः ।वनं प्रस्थापयामास भ्रातरं वै धनंजयम् ॥ ३१ ॥
स वै संवत्सरं पूर्णं मासं चैकं वनेऽवसत् ।ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन ॥ ३२ ॥
लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम् ।अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम् ॥ ३३ ॥
सा शचीव महेन्द्रेण श्रीः कृष्णेनेव संगता ।सुभद्रा युयुजे प्रीता पाण्डवेनार्जुनेन ह ॥ ३४ ॥
अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम् ।बीभत्सुर्वासुदेवेन सहितो नृपसत्तम ॥ ३५ ॥
नातिभारो हि पार्थस्य केशवेनाभवत्सह ।व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव ॥ ३६ ॥
पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम् ।इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम् ॥ ३७ ॥
मोक्षयामास बीभत्सुर्मयं तत्र महासुरम् ।स चकार सभां दिव्यां सर्वरत्नसमाचिताम् ॥ ३८ ॥
तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः ।ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम् ॥ ३९ ॥
वनं प्रस्थापयामास सप्त वर्षाणि पञ्च च ।अज्ञातमेकं राष्ट्रे च तथा वर्षं त्रयोदशम् ॥ ४० ॥
ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु ।नालभन्त महाराज ततो युद्धमवर्तत ॥ ४१ ॥
ततस्ते सर्वमुत्साद्य हत्वा दुर्योधनं नृपम् ।राज्यं विद्रुतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः ॥ ४२ ॥
एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम् ।भेदो राज्यविनाशश्च जयश्च जयतां वर ॥ ४३ ॥
« »