Click on words to see what they mean.

सूत उवाच ।श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम् ।अभ्यागच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा ॥ १ ॥
जनयामास यं काली शक्तेः पुत्रात्पराशरात् ।कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम् ॥ २ ॥
जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत् ।वेदांश्चाधिजगे साङ्गान्सेतिहासान्महायशाः ॥ ३ ॥
यं नातितपसा कश्चिन्न वेदाध्ययनेन च ।न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना ॥ ४ ॥
विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः ।परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः ॥ ५ ॥
यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत् ।शंतनोः संततिं तन्वन्पुण्यकीर्तिर्महायशाः ॥ ६ ॥
जनमेजयस्य राजर्षेः स तद्यज्ञसदस्तदा ।विवेश शिष्यैः सहितो वेदवेदाङ्गपारगैः ॥ ७ ॥
तत्र राजानमासीनं ददर्श जनमेजयम् ।वृतं सदस्यैर्बहुभिर्देवैरिव पुरंदरम् ॥ ८ ॥
तथा मूर्धावसिक्तैश्च नानाजनपदेश्वरैः ।ऋत्विग्भिर्देवकल्पैश्च कुशलैर्यज्ञसंस्तरे ॥ ९ ॥
जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम् ।सगणोऽभ्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः ॥ १० ॥
काञ्चनं विष्टरं तस्मै सदस्यानुमते प्रभुः ।आसनं कल्पयामास यथा शक्रो बृहस्पतेः ॥ ११ ॥
तत्रोपविष्टं वरदं देवर्षिगणपूजितम् ।पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा ॥ १२ ॥
पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः ।पितामहाय कृष्णाय तदर्हाय न्यवेदयत् ॥ १३ ॥
प्रतिगृह्य च तां पूजां पाण्डवाज्जनमेजयात् ।गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा ॥ १४ ॥
तथा संपूजयित्वा तं यत्नेन प्रपितामहम् ।उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम् ॥ १५ ॥
भगवानपि तं दृष्ट्वा कुशलं प्रतिवेद्य च ।सदस्यैः पूजितः सर्वैः सदस्यानभ्यपूजयत् ॥ १६ ॥
ततस्तं सत्कृतं सर्वैः सदस्यैर्जनमेजयः ।इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः ॥ १७ ॥
कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान् ।तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज ॥ १८ ॥
कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम् ।तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत् ॥ १९ ॥
पितामहानां सर्वेषां दैवेनाविष्टचेतसाम् ।कार्त्स्न्येनैतत्समाचक्ष्व भगवन्कुशलो ह्यसि ॥ २० ॥
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा ।शशास शिष्यमासीनं वैशंपायनमन्तिके ॥ २१ ॥
कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा ।तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि ॥ २२ ॥
गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा ।आचचक्षे ततः सर्वमितिहासं पुरातनम् ॥ २३ ॥
तस्मै राज्ञे सदस्येभ्यः क्षत्रियेभ्यश्च सर्वशः ।भेदं राज्यविनाशं च कुरुपाण्डवयोस्तदा ॥ २४ ॥
« »