Click on words to see what they mean.

जनमेजय उवाच ।कथितं वै समासेन त्वया सर्वं द्विजोत्तम ।महाभारतमाख्यानं कुरूणां चरितं महत् ॥ १ ॥
कथां त्वनघ चित्रार्थामिमां कथयति त्वयि ।विस्तरश्रवणे जातं कौतूहलमतीव मे ॥ २ ॥
स भवान्विस्तरेणेमां पुनराख्यातुमर्हति ।न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥ ३ ॥
न तत्कारणमल्पं हि धर्मज्ञा यत्र पाण्डवाः ।अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः ॥ ४ ॥
किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः ।प्रयुज्यमानान्संक्लेशान्क्षान्तवन्तो दुरात्मनाम् ॥ ५ ॥
कथं नागायुतप्राणो बाहुशाली वृकोदरः ।परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम ॥ ६ ॥
कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः ।शक्ता सती धार्तराष्ट्रान्नादहद्घोरचक्षुषा ॥ ७ ॥
कथं व्यतिक्रमन्द्यूते पार्थौ माद्रीसुतौ तथा ।अनुव्रजन्नरव्याघ्रं वञ्च्यमानं दुरात्मभिः ॥ ८ ॥
कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित् ।अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः ॥ ९ ॥
कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः ।अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनंजयः ॥ १० ॥
एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन ।यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः ॥ ११ ॥
वैशंपायन उवाच ।महर्षेः सर्वलोकेषु पूजितस्य महात्मनः ।प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥ १२ ॥
इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम् ।सत्यवत्यात्मजेनेह व्याख्यातममितौजसा ॥ १३ ॥
य इदं श्रावयेद्विद्वान्यश्चेदं शृणुयान्नरः ।ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम् ॥ १४ ॥
इदं हि वेदैः समितं पवित्रमपि चोत्तमम् ।श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम् ॥ १५ ॥
अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदिश्यते ।इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी ॥ १६ ॥
अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान् ।कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते ॥ १७ ॥
भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम् ।इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः ॥ १८ ॥
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा ।महीं विजयते सर्वां शत्रूंश्चापि पराजयेत् ॥ १९ ॥
इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत् ।महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा ॥ २० ॥
अर्थशास्त्रमिदं पुण्यं धर्मशास्त्रमिदं परम् ।मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना ॥ २१ ॥
संप्रत्याचक्षते चैव आख्यास्यन्ति तथापरे ।पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः ॥ २२ ॥
शरीरेण कृतं पापं वाचा च मनसैव च ।सर्वं तत्त्यजति क्षिप्रमिदं शृण्वन्नरः सदा ॥ २३ ॥
भारतानां महज्जन्म शृण्वतामनसूयताम् ।नास्ति व्याधिभयं तेषां परलोकभयं कुतः ॥ २४ ॥
धन्यं यशस्यमायुष्यं स्वर्ग्यं पुण्यं तथैव च ।कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा ॥ २५ ॥
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् ।अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥ २६ ॥
यथा समुद्रो भगवान्यथा च हिमवान्गिरिः ।ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ॥ २७ ॥
य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु ।धूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्छति ॥ २८ ॥
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः ।अक्षय्यं तस्य तच्छ्राद्धमुपतिष्ठेत्पितॄनपि ॥ २९ ॥
अह्ना यदेनश्चाज्ञानात्प्रकरोति नरश्चरन् ।तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते ॥ ३० ॥
भारतानां महज्जन्म महाभारतमुच्यते ।निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥ ३१ ॥
त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः ।महाभारतमाख्यानं कृतवानिदमुत्तमम् ॥ ३२ ॥
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ ।यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥ ३३ ॥
« »