Click on words to see what they mean.

सूत उवाच ।इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुमः ।तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन ह ॥ १ ॥
इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत ।ततश्चिन्तापरो राजा बभूव जनमेजयः ॥ २ ॥
हूयमाने भृशं दीप्ते विधिवत्पावके तदा ।न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः ॥ ३ ॥
शौनक उवाच ।किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम् ।न प्रत्यभात्तदाग्नौ यन्न पपात स तक्षकः ॥ ४ ॥
सूत उवाच ।तमिन्द्रहस्ताद्विस्रस्तं विसंज्ञं पन्नगोत्तमम् ।आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत् ॥ ५ ॥
वितस्थे सोऽन्तरिक्षेऽथ हृदयेन विदूयता ।यथा तिष्ठेत वै कश्चिद्गोचक्रस्यान्तरा नरः ॥ ६ ॥
ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम् ।काममेतद्भवत्वेवं यथास्तीकस्य भाषितम् ॥ ७ ॥
समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः ।प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत् ॥ ८ ॥
ततो हलहलाशब्दः प्रीतिजः समवर्तत ।आस्तीकस्य वरे दत्ते तथैवोपरराम च ॥ ९ ॥
स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह ।प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः ॥ १० ॥
ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः ।तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः ॥ ११ ॥
लोहिताक्षाय सूताय तथा स्थपतये विभुः ।येनोक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम् ॥ १२ ॥
निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु ।ततश्चकारावभृथं विधिदृष्टेन कर्मणा ॥ १३ ॥
आस्तीकं प्रेषयामास गृहानेव सुसत्कृतम् ।राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम् ॥ १४ ॥
पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत् ।भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ ॥ १५ ॥
तथेत्युक्त्वा प्रदुद्राव स चास्तीको मुदा युतः ।कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम् ॥ १६ ॥
स गत्वा परमप्रीतो मातरं मातुलं च तम् ।अभिगम्योपसंगृह्य यथावृत्तं न्यवेदयत् ॥ १७ ॥
एतच्छ्रुत्वा प्रीयमाणाः समेता ये तत्रासन्पन्नगा वीतमोहाः ।तेऽऽस्तीके वै प्रीतिमन्तो बभूवुरूचुश्चैनं वरमिष्टं वृणीष्व ॥ १८ ॥
भूयो भूयः सर्वशस्तेऽब्रुवंस्तं किं ते प्रियं करवामोऽद्य विद्वन् ।प्रीता वयं मोक्षिताश्चैव सर्वे कामं किं ते करवामोऽद्य वत्स ॥ १९ ॥
आस्तीक उवाच ।सायं प्रातः सुप्रसन्नात्मरूपा लोके विप्रा मानवाश्चेतरेऽपि ।धर्माख्यानं ये वदेयुर्ममेदं तेषां युष्मद्भ्यो नैव किंचिद्भयं स्यात् ॥ २० ॥
सूत उवाच ।तैश्चाप्युक्तो भागिनेयः प्रसन्नैरेतत्सत्यं काममेवं चरन्तः ।प्रीत्या युक्ता ईप्सितं सर्वशस्ते कर्तारः स्म प्रवणा भागिनेय ॥ २१ ॥
जरत्कारोर्जरत्कार्वां समुत्पन्नो महायशाः ।आस्तीकः सत्यसंधो मां पन्नगेभ्योऽभिरक्षतु ॥ २२ ॥
असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत् ।दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् ॥ २३ ॥
सूत उवाच ।मोक्षयित्वा स भुजगान्सर्पसत्राद्द्विजोत्तमः ।जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान् ॥ २४ ॥
इत्याख्यानं मयास्तीकं यथावत्कीर्तितं तव ।यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित् ॥ २५ ॥
श्रुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम् ।आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः ॥ २६ ॥
शौनक उवाच ।भृगुवंशात्प्रभृत्येव त्वया मे कथितं महत् ।आख्यानमखिलं तात सौते प्रीतोऽस्मि तेन ते ॥ २७ ॥
प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन ।यां कथां व्याससंपन्नां तां च भूयः प्रचक्ष्व मे ॥ २८ ॥
तस्मिन्परमदुष्प्रापे सर्पसत्रे महात्मनाम् ।कर्मान्तरेषु विधिवत्सदस्यानां महाकवे ॥ २९ ॥
या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम् ।त्वत्त इच्छामहे श्रोतुं सौते त्वं वै विचक्षणः ॥ ३० ॥
सूत उवाच ।कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः ।व्यासस्त्वकथयन्नित्यमाख्यानं भारतं महत् ॥ ३१ ॥
शौनक उवाच ।महाभारतमाख्यानं पाण्डवानां यशस्करम् ।जनमेजयेन यत्पृष्टः कृष्णद्वैपायनस्तदा ॥ ३२ ॥
श्रावयामास विधिवत्तदा कर्मान्तरेषु सः ।तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम् ॥ ३३ ॥
मनःसागरसंभूतां महर्षेः पुण्यकर्मणः ।कथयस्व सतां श्रेष्ठ न हि तृप्यामि सूतज ॥ ३४ ॥
सूत उवाच ।हन्त ते कथयिष्यामि महदाख्यानमुत्तमम् ।कृष्णद्वैपायनमतं महाभारतमादितः ॥ ३५ ॥
तज्जुषस्वोत्तममते कथ्यमानं मया द्विज ।शंसितुं तन्मनोहर्षो ममापीह प्रवर्तते ॥ ३६ ॥
« »